________________
P
मन्यत्र स्पादित मान्यते । परिस
च यथापिका
संभावने सप्तमी। इष्टकानां बहुत्वेन संभाव्यत एतत्परिखासां स्यादिति । स्यादिति किम्। परिखा इष्टकानाम्। परिणामिनीत्येव। परिखास्य नगरस्य स्यात् ॥ ४८॥ श०अ०भ० “अत्र च ॥ ७।१ । ४२॥ परिखाशब्दानिर्देशादेव प्रथमान्तादत्रेति सप्तम्यर्थ एयण् प्रत्ययो भवति सा चेत्परिखा स्यादिति संभाव्यते । परिखास्यां स्यात् पारिखेयो भूमिः । योगविभागः परिणामिनीयस्येह असंवन्धार्थः । चकार उत्तरत्रास्य स्यादिति परिणामिन्यत्र स्यादिति चोभयस्याप्यनुत्यर्थः ॥ ४९॥ तद् ॥७।१।५०॥ तदिति प्रथमान्तादस्थेति पष्ठयर्थे परिणामिनि अत्रेति सप्तम्यर्थे च यथाधिकृतं प्रययो भवति यत्तत्मथमान्तं तचेत्स्यादिति संभाव्यते । प्राकार आसामिष्टकानां स्यात्माकारीचा इष्टकाः । प्रासादीयं दारु । परशव्यमयः । मासादोऽस्मिन्देशे स्यात् मासादीयो देशः । प्रासादीया भूमिः । स्यादित्येव । माकार इष्टकानाम् । परिणामिनीत्येव । प्रासादोऽस्य चैत्रस्य स्यात ॥५०॥ तस्याहे क्रियायां वत् ॥ ७ ॥२ । ५१॥ ईयस्य पूर्णोऽवधिः । अर्हतीत्यहम् । 'अच् (५-१-४९ ) इत्यच् । तस्येति षष्ठ्यन्तादर्देऽर्थे वत् प्रत्ययो भवति यत्तदई तच्चेत् क्रिया भवति । राज्ञोऽहै राजवत् वृत्तमस्य राज्ञः । राजत्वस्य । युक्तमस्य राज्ञो वृत्तमित्यर्थः । राजवदर्तत भरतः। राजाई वर्तते स्मेत्यर्थः । एवं कुलीनवत, साधुवत । स शिरांसि द्विषामाजी चिच्छेद तहस्तवत् । राशि एकस्मिन्नुपमानोपमेयभावासंभवादुत्तरेण न सिध्यतीति वचनम् । यदा तू राज्ञः सगरादेवत्तस्याई इदानीतनः कश्चिद्राति भेदो विवक्ष्यते तदोतरेणैव सिद्धम् । क्रियायामिति किम् । शतस्या) देवदत्तः । राज्ञोऽर्हो मणिः ॥५१॥ स्यादेरिवे ॥७११ । ५२ ॥ स्यायन्तादिवार्थे वत्प्रत्ययो भवति । श्वशब्दः सादृश्यं घोतयति । तश्चेत्सादृश्यं क्रियायां क्रियाविषयं क्रियागतं भवति । क्षत्रिया इव क्षत्रियवद्युध्यन्ते ब्राह्मणाः । अश्ववद्धावति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव साधुवदाचरितं मैत्रेण । ब्राह्मणायेव ब्राह्मणवदत्वं क्षत्रियाय । पर्वतादिव पर्वतवदवरोहति आसनात् । स्यादेरिति किम् । गच्छन्नास्त इव मन्दत्तादीप्सितदेशस्य असंप्राप्तेः । अधीयानो नृत्यतीव अधिकारवायत्वात । क्रियायामित्येव । गौरिव गवयः । देवदत्त इव मोलान् । हस्तीव स्थूलः । अत्र द्रव्यगुणविषये सादृश्ये न भवति । कथं देवदत्तवत्स्थूल. यज्ञदत्तवद्गोमान् इति । अत्र तुल्यायामस्तौ भवतौ चाध्याहियमाणायां प्रत्ययो भविष्यति । अथोपमानोपमेयक्रिययोः । *साधनभेदापेक्षायामिह कस्मान्न भवति ऋचं ब्राह्मणवदयं गाथामधीत इति । सापेक्षत्वात् ॥५२॥ तत्र ॥ ७॥१॥ ५३॥ तत्रेति सप्तम्यन्तादिवायें वत्पत्ययो भवति । मथुरायामिव मथुरावत्पाटलिपुत्रे प्रासादाः । त्रुघ्न इव साकेते परिखा सुन्नवत् । गुरुवद्रुपुत्रे वर्तितव्यमित्यादिषु क्रियासादृश्ये पूर्वेणैव सिद्धम् । अक्रियार्थतदित्यनेनैव ययाधिकृतस्प सिद्धस्यादिदं सूनद्वय व्यर्थम् ॥-अत्र च-॥-असंवन्धार्थ इति । तेनेह परिणामिान अपरिणामिनि च भवतीत्यर्थ ॥-तस्या-|-राजाहमिति । अम्राद्यत्वात् न भरतस्पोपमानमन्यो राजाऽस्ति स एव सर्वेपा राज्ञामुपमानभूतस्तत्र राजविदिति । राज्ञ आत्मन एवाई वृत्तमवर्ततेत्यर्थ ॥-स्यादेरि-॥-असप्राप्तरिति । यथा आसीनोऽभिमतं देश न प्राप्नोति तपैप गग्रनपि॥-साधनभेदापेक्षायामिति । यद्यपि वस्तुवृत्या अध्ययनमेकमेव तथापि साधनभेदाव्याप्पलक्षणभेदाद भेद एव॥ सापेक्षत्वादिति । ब्राह्मणवत् अय गाथामधीत इत्युक्ते हि ऋच. कर्मणोऽपेक्षा भवति ।-तत्र-॥-अक्रियार्थ इति । तथापि गारम्भणीयमिद सूत्र पष्ठोसप्तम्पोराभेदारसप्तमीविषये पठोप्रवृत्तेर्दर्शनात् उत्तरसूत्रेणैव भविष्यति । म । अधिकरणविवक्षायां सप्तम्यन्तादपि