SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः । एवं च सर्वजनात्पूर्वेण ईनः अनेने गिति द्वैरुप्यम् । कर्मधारय इत्येव । महान् जनोऽस्य महाजनः पांजनाय हितं सर्वजनीयम ॥ ४२ ॥ सर्वाणो वा ॥७॥२॥४३॥ जनाकर्मधारय इति च निवृत्तम । सर्वशब्दात्तस्मै हित ) णः प्रत्ययो वा भवति । सर्वस्मै हितः सार्वः । पक्षे ईयः । सर्वीयः ॥ ४३ ॥ परिणामिनि तदर्थे ॥ ७ ॥ १।४४ ॥ हित इति निवृत्तम् । तद्भावः परिणामस्सोऽस्यास्तीति परिणामि द्रव्यमुच्यते । तस्मै इति चतुर्थ्यन्ताचदर्थे चतुर्थ्यन्तार्थार्थ परिणामिनि कारणद्रव्येऽभिधेये यथाधिकृतं प्रत्ययो भवति । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि । अङ्गारार्थानीत्यर्थः । एवं प्राकारीया इष्टकाः । शङ्कव्यं दारु । पिचव्यः कर्पासः । आमिक्ष्यम् आमिक्षीयं दधि । ओदन्या ओदनीयास्तण्डुला । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनीति किम् । उदकाय कूपः । असये कोशी । न कुपः कोशी वा उदकासिमावेन परिणमेते । तदर्थे इति किम् । मूत्राय यवागूः। उच्चाराय यवान्नम् । पादरोगाय नड्वलोदकम् । यवाग्वादि मूत्रादितया परिणपति न तु तदर्थम् । * अथवा तदर्थे इति चतुर्थी विशेषणम् । तदर्थे या चतुर्थी तदन्तात्सत्ययः । इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव । सक्तूनां धानाः । धानानां यवाः । अत्र सत्यपि तादर्थे संवन्धमात्रविवक्षायां षष्ठी यथा गुरोरिदं गुर्थमिति । भवति च सतोऽप्यविवक्षा यथानुदरा कन्येति ॥४४॥ चर्मण्यञ् ॥ ७ ॥१॥ ४५ ॥ तस्मै इति चतुर्थ्यन्तात्परिणामिनि तदर्थे चर्मण्यभिधेये अब् प्रययो भवति । वर्धायेदं वार्धम् चर्म । वरत्रायै इदं वारत्रं चर्म । रयोपस्थायेदं राथोपस्थं चर्म । हलाबन्धायेदं हालावन्धं चर्म । *सनङ्गो इदं सनङ्गव्यं चमेति 'वर्णयुगादेयः' (७-१-३०) इति यग्रहणाद्य एव भवति । सनगु श्चमविकारः ॥ ४५ ॥ ऋषभोपानहायः ॥७ । १ । ४६ ॥ ऋषभ उपानह इसेताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे अभिधेये ज्यः प्रत्ययो भवति । ऋषभाय अयम् आपभ्यो वत्सः। औपानह्यो मुचः। औषानह्यम् काष्ठम् । औपानह्यं चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव भवति ॥ ४६॥ छदिलेरेयण ॥ ७॥ १। ४७॥ छदिस् वलि इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण प्रत्ययो भवति । छदिषे इमानि छादिपेयाणि तृणानि | वलये इमे वालेयास्तण्डुला। चर्मण्यपि परत्वादयमेव भवति । छादिपेयं चर्म । कथमोपधेयः । उपबीयत इत्युपधेयः। स एव प्रज्ञाद्यणि स्वार्थिक औषधेयः । उपधिः रथाङ्गमिति यावत् । अत उपधेः स्वार्थे एयणिति नारम्भणीयम् ॥४७॥ *परिखास्य स्यात् ॥७।१।४८ । परिवाशब्दान्निर्देशादेव प्रथमान्तादस्येति पष्ठ्यर्थे परिणामिनि एयण प्रत्ययो भवति या सा परिखा सा चेत्स्यादिति योग्यतया सभाव्यते । तदित्यनेन यथाधिकृतस्य प्रत्ययस्य विधास्यमानत्वादिहोत्तरत्र च एयणेवानुवर्तते । परिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः । स्यादिति एक ॥ वेश्याया क्षत्रियाज्जातो माहिष्य उच्यते । वृषलस्त्रिया वैश्यात्तु करणः स्त्री चेत् करणी ॥-परि-॥-अथवेति । पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् ॥-चर्म-॥राथोपस्थमिति । अत्राधिकारायातत्यात् परिणामिनीति योजितमपि यथासभव योज्यम् । तेनात्र चर्मणो रथोपस्थरूपेण परिणामाभावेष्यन् भवति ॥-सनङ्गवे इति । अड्गेषु सन्न ' राजदन्तादिपु इति सप्तम्यन्तस्य परनिपातः । पृषोदरादिस्वात् सनणुशब्न आदेश ॥-चमविकार इति । स्यालादीनां रक्षार्थ कोश. ॥-पार-॥-एयणेवेति । एतत्सूत्रोत्तरसूत्रकरणात् । अन्यथा
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy