________________
000
श्रीमश० तस्मै इति चतुर्युतान्नानो हितेऽर्थे यथाधिकृतं प्रत्ययो भवति । वसेभ्यो हितो वतीयः । करभीयः । पित्रीयः । मात्रीयः। आमिक्ष्यः । आमिक्षीयः । १९ ॥ ३ ॥ ४ ओदन्यः । ओदनीयः । अपूप्पः । अपूपीयः । इविष्यः । युग्यः । शुन्यः । शुन्धः । ऊबन्यः । वत्सेभ्यो न हितः अव-सीयः । एवमकरभीयः ॥ ३५ ॥ १६
न राजाचार्यब्राह्मणवृष्णः ॥७॥१॥ ३६ ॥ राजन् आचार्य ब्राह्मण वृषन् इत्येतेभ्यश्चतुर्थ्यन्तेभ्यो हितेऽर्थेऽधिकृत प्रसयो न भवति । राजे हितः आचायोय | | हितः ब्राह्मणाय स्तिः वृष्णे हितः इति वाक्यमेव भवति ॥ ३६ ॥ प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषायः ॥ ७ ॥१। ३७ ॥ प्राण्यङ्गवाचिभ्यो स्थादिभ्यश्च चतुयन्तेभ्यो हितेऽर्थे यः प्रत्ययो भवति । दन्तेभ्यो हितं दन्त्यम् । कर्ण्यम् । चक्षुष्यम् । कण्ठ्यम् । ओष्ठथम् । नाभ्यम् । रथाय हिता रथ्या भूमिः । खलाय हितं खल्यम् अग्निरक्षणम्। तिलेभ्यो हितः तिल्यो वायुः । यवेभ्यो हितो यव्यस्तुपारः । वृपाय हितं वृष्यं क्षीरपाणम् । ब्रह्मणे हितो ब्रह्मण्यो देशः । माषेभ्यो हितो माप्यो बातः । सोदेश्चेत्यधिकारात् राजदन्त्यम् । शहनाभ्यम् । अन्वरथ्या भूमिः । कृष्णतिल्यः। राजमाष्यः ॥ ३७॥ अव्यजात्थ्यप् ॥ ७१। ३८ ॥ अवि अज इत्येताभ्यां तस्मै हिते थ्यप् प्रत्ययो भवति । अविभ्यो हितम् अविश्यम् । अजेभ्यो हितम् अजथ्यम् । पकारः पुवद्भावार्थः । अजाभ्यो हिता
अजथ्या युतिः ॥ ३८॥ चरकमाणवादीनन् ॥ ७ ॥ १॥३९॥ आभ्यां तस्मै हितेऽर्थे ईनञ् प्रत्ययो भवति । चरकेभ्यो हितश्चारकीणः । माणवीनः ॥ ३९॥ भोगोत्तरपदात्मभ्यामीनः ॥ ७॥१॥ ४० ॥ भोगोत्तरपदादात्मनशब्दाच तस्मै हितेऽर्थे ईनः प्रत्ययो भवति । मातृभोगाय हितो मातृभागीणः । पितृभोगीणः । ग्रामणिभोगीनः । सेनानिभोगीनः । आचार्यभोगीनः । अत्र क्षुम्नादित्वान्न णत्वम् । आत्मन् , आत्मने हितः आत्मनीनः । अनात्मनीनः । 'इनेऽध्यात्मनो.' (७-४-४८ ) इत्यन्त्यवरादिलोपाभावः ॥ ४० ॥ पश्चसर्वविश्वाजनात्कर्मधारये ॥७॥ १॥ ४१॥ पञ्च सर्व विश्व इत्येतेभ्यः पराज्जनशब्दात्कर्मधारये वर्तमानात्तस्मै हिते ईनः प्रत्ययो भवति । इयापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा । एवं | सर्वजनीनः । विश्वजनीनः । कर्मधारय इति किम् । पञ्चानां जनः पञ्चजनः तस्मै हितः पञ्चजनीयः । सर्वोजनोऽस्य सर्वेषां वा जनः सर्वजनः तस्मै हितः सर्वजनीयः। एवं विश्वजनीयः ॥ ४१ ॥ महत्सादिकम् ॥ ७॥१॥ ४२ ॥ महतः सर्वाच्च यो जनशब्दस्तदन्ताकर्मधारये वर्तमानात्तस्मै हिते इकण् प्रत्ययो भवति । महते --अवत्सीय इति । ननु हिते प्रत्यय 'उच्यमानो निषिध्यमाने तस्मिन् कथ स्यादिति चेत् । न । विवक्षोपारोहिण्यर्थे शब्दप्रयोगाद्याशवस्तुनिषेधेऽपि न तसिपेध । अन्यथा निषिध्यमानाभिधायिशब्दप्रयोगानिर्विषयमतिषेध कथमिव शक्यक्रिप स्यात् । प्रत्ययार्थस्य च प्रकृत्यर्थेन सापेक्षत्वेऽपि न प्रत्ययार्थेनासामर्थ्यम् । एतदेव हि प्राधान्य ययुगपत्कालोपकारकपंयन्धसहत्व नाम । एव हितार्थे नश्यांपेक्षेऽपि प्रत्ययोत्पत्तिरविदा॥-ग्राण्य-|-शंखनाभ्यामेति । शशो नाभिश्व देहाशा तत शखश्च नाभा 'प्राणितांगाणाम्' इति समाहारे शखनाभिने हितम् शखाकारा नाभिर्वा तदा | पाखनाभपे हितम् ॥-अव्य--अजथ्येति । पिरकरणमामात् 'स्वाङ्गान्तीर् -'इस्यनेन निपिहोऽपि 'क्यडूमानि'-इत्यनेन पुबद्भाव ॥-पञ्च--रथकारपञ्चमस्येति । द्वादशधा भितस्य खस चैवमेव च मध्ये न पततौति रथकारस्थ पृथपुपादानम् यत आरथकृन्मिश्रजातय इत्युक्तन् । रथकारस्य तु कि लक्षणमिति चेत् । उच्यते । माहिष्येण तु जात. स्यात् करण्या रथका
॥३॥