________________
दीप प्रदीप अश्वपत्र इत्यपूपादिः । अपूपादिषु येऽन्नभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येन अर्थान्तरटनी प्रत्ययार्थमुपादानम् । केचित्तु अपूपादिपठि- १६ १ तात्रभेदव्यतिरिक्तानामन्त्रभेदानां तदन्तविधि नेच्छन्ति । यवमुरीयम् पिष्टमुरीयम् । यो न भवति ॥ २९॥ *उवर्णयुगादेर्यः ॥७।१ । ३०॥ उवर्णा
न्तायुगादिभ्यश्चा तदोऽर्थेषु यो भवति.। ईयापवादः। उवर्ण, पाडूवे इदं शङ्कव्यं दारु । पिचव्यः कासः। परशव्यमयः । कमण्डलव्या मृत्तिका । चरन्यास्तण्डुलाः। सकन्या धानाः । युगादि, युगाय हितं युगाथै युगोऽस्य स्यादिति वा युग्यम् । इविष्यम् । सादेश्वेत्यधिकारात्मयुग्यम् । अतियुग्यम् । युग हविस् अष्टका बहिस् मेगा बुच बीज कूप क्षर अक्षर खद स्खद विष दाश खर असुर दर अवन् गो । इति युगादिः । 'गोः स्वरे यः' (६-२-२७) इत्यनेनैव सिद्धे गोग्रहणं तदन्तार्थम् । तेन सुगव्यम् अतिगन्यम् इत्यपि सिद्धम् । इह यग्रहणं बाधक-बाधनार्थम् । सनङ्गो इदं सनङ्गव्यं चर्म । अत्र हि परत्वात 'चर्मण्यञ् (७-१-४५) इति प्राप्नोति ॥ ३० ॥ नाभेर्न चादेहांशात् ॥ ७।१।३१ ॥ नाभिशब्दाददेहांशवाचिन आ तदो वक्ष्यमाणेष्वर्थेषु यः प्रत्ययो भवति नाभिशब्दस्य च नम् इत्यादेशो भवति । नाभ्यै नाभये वा हितं नभ्यमञ्जनम् । नभ्योऽक्षः । नाभये इदं नभ्यं दारु । अरकमध्यवर्ती अक्षधारणश्वकावयवो नाभिस्तदर्थ नभ्यम् । यत्तु अरकगण्डरहितं चक्रम् एककाहं तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् । नभ्यो वृक्षः नभ्या शिंशपेति नभ्यार्थे वृक्षादौ ताच्छब्द्यान्नभ्यत्वम् इन्द्रार्थायां स्थूणायामिन्द्रवत् । अदेहांशादिति किम् । नाभये हितं नाभ्यं तैलम् । अत्र नभादेशो न भवति । यस्तु 'पाण्यङ्ग-(७-१-३७) इत्यादिना भवति ॥ ३१ ॥ *न् चोधसः ॥ ७ । १।३२ ॥ ऊधस्शब्दात् आ तदोऽर्थेषु यः प्रसयो नकारश्चान्तादेशो भवति । अईयापवादः । ऊधसे हितम् ऊधन्यम् ॥ ३२ ॥ *शुनो वश्चोदूत् ॥७॥१॥ ३३ ॥ श्वनशब्दादा तदोऽर्थेषु यः प्रययो भवति वकारश्च उकार ऊकाररूपो भवति । अभेदनिर्देशः सर्वादेशार्थः। शुने हितं शुन्यम् । शून्यम् । नामि ऊधस् श्वनशब्दान् युगादिषु पठित्वापि शक्यः प्रत्ययः आदेशार्थास्तु योगाः॥३३॥ कम्बलान्नानि ॥७॥१॥३४॥ कम्बलशब्दादा तदोऽर्थेषु यः प्रत्ययो भवति ईयापवादः नाम्नि संज्ञायां विषये । कम्बलोऽस्य स्यात् कम्बल्यं परिमाणम् ऊर्णापलशतमुच्यते । अशीतिशतमित्यन्ये । पद्पष्टिशतमित्यपरे । नाम्नीति किम् । कम्बलीया ऊर्णा ॥ ३४ ॥ तस्मै हिते ॥ ७ । १ । ३५ ॥ हित उपकारकः । आमिश्रित झोरं काजिकेन यस्या सा आमिश्रितक्षौरा गतार्थत्वात् काजिकशब्दस्य लोपः । पृषोदरादित्वादामिक्षादेशः ॥-अर्थान्तरवृत्ताविति । अपूपाकारं धर्माद्यपूपमित्येवम् ॥ तदन्तविधि | मिति । कोऽर्थः । ये अपूपादिषु पठिता अन्मभेदास्तेषां तदन्ताना विधिर्भवति । अन्नभेदवाचिना तु अपूपादिवऽपठिताना तदन्तविधिन भवतीत्यर्थ ॥-उव-॥-बाधनाथमिति । उवर्णान्तत्वादनेन यः प्राप्तस्त बाधित्वा चर्मण्यञ् प्राप्त इति तद्बाधनार्थम् ॥-नाभे-॥-एककाष्ठमिति । पापाणानयनशकटस्य रहद् इति प्रसिद्धस्य ॥-नभ्यो वृक्ष इति । शाखायेव नाभये हित न समस्तो वृक्ष इति प्रश्नाशय. ॥-- चोध-॥-ईयापवाद इति । यदा प्राण्यड्गवाची तदा य सिद्ध एव नकारादेशोऽनेन विधीयते । यदा तु न प्राण्यद्गवाची किंतु तदाकर किंचिदभ्रादि विवक्ष्यते तदा ईयः प्राप्नोति अतस्तदपवादः ॥-शुनो-॥-युगादिग्विति । नाभ्यूधसोः प्राण्यङ्गत्वाभावे युगादिपाठ आश्रीयेत । प्राण्यगाथरवे तु 'प्राण्यड्गरथ-'इत्यनेनैव य' सिध्धेत् ॥ तस्मै