________________
स०अम
प्रत्ययौ भवतः। सार्वजन्यः । मार्वजनीनः ॥ १९ ॥ प्रतिजनादेरीनम् ॥ ७॥१॥२०॥ प्रतिजनादिभ्यस्तत्र साधावीनञ् प्रत्ययो भवति । प्रतिजने साधुः मातिजनीनः । अनुजने साधुः आनुजनीनः । इदंयुगे साधुः ऐदंयुगीनः । प्रतिजन अनुजन विश्वजन पाञ्चजन महाजन इदंयुग संयुग समयुग परयुग परकुल *परस्यकुल • अमुष्यकुल इति प्रतिजनादिः ॥२०॥ कथादेरिकण् ॥ ७॥१॥ २१ ॥ कयादिभ्यः सप्तम्यन्तेभ्यः साधावर्थे इकण् प्रत्ययो भवति । कथायां साधुः कायिकः । वैकथिकः । कथा विकथा विश्वकथा संकथा वितण्डा जनेबाद जनवाद (जनोवाद) भृशोवाद जनभृशोवाद वृत्ति संग्रह गुण गण आयुर्वेद गुड कुल्माप गुल्मास इक्षु सक्तु वेणु अपूष मांसौदन मांस ओदन संग्राम संघात संवाह प्रवास निवास उपवास इति कथादिः ॥ २१॥ देवतान्तात्तदर्थे ॥ ७॥ १। २२ ॥ देवतान्ताच्छब्दरूपातदर्थेऽर्थे यः प्रत्ययो भवति। "अर्थाचतयन्तात प्रत्ययः । अग्निदेवतायै इदमनिदेवत्यम् । पितृदेवत्यम् । देवदेवत्यम् । देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी संप्रदानमुच्यते ॥२२॥ पाद्याये ॥७॥१॥२३॥ पाय अयं इत्येतो तदर्थे यप्रत्ययान्तौ निपात्यते । पादार्थमुदकं पायम् । निपातनादेव ये पदादेशो न भवति । अर्को मूल्यं पूजनं वा। अर्याध रत्नमय॑म् ॥२३॥ पयोतिथेः ॥७१॥२४॥ अतिथिशब्दाचदर्थे ण्या प्रत्ययो भवति । अतिथ्यर्थमातिथ्यम् ॥ २४ ॥ सादेश्वा तदः ॥७॥१॥ २५ ॥ अधिकारोऽयम् यदित ऊर्ध्वमनुक्रमिष्यामस्तव आ तदस्तदिति मूत्र यावत्केवलस्य सादेव विधिर्वेदितव्यः॥ २५॥ हलस्य कर्षे ॥७॥१॥२६॥ इलशब्दात्केवलात्सादेश्व निर्देशादेव षष्ठयन्ताकऽर्थे या प्रत्ययो भवति । इलस्य को हल्या इल्यो वा योदिहल्या। त्रिहल्या । परमहल्या । उत्तमहल्या । बहुहल्यः । यत्र हलं *कृष्ट स मार्गः कर्षः । कृष्यते इति कर्षः क्षेत्रमित्यन्ये ॥ २६ ॥ सीतया संगते ॥७।१ । २७ ॥ सीताशब्दात्केवलात्सा। देव निर्देशादेव तृतीयान्तात्संगतेऽर्थे यः प्रत्ययो भवति । सीतया संगतं सीसम् । द्वाभ्यां सीताभ्यां संगतं द्विसीत्यम्। त्रिसीत्यम् । परमसीत्यम् । यस्य पूर्णोऽवधिः
॥ २७ ॥ ईयः ॥ ७ ॥ १॥ २८ ॥ आ तद इत्यनुवर्तते । यदित ऊर्ध्वमनुक्रमिष्यामस्तवातदोऽर्थेषु ईय इत्यधिकृतं वेदितव्यम् ॥ २८ ॥ हविरन्नभेदापूपादेयों वा ॥ ७ ॥ १ ॥ २९ ॥ हविर्भदवाचिभ्योऽन्नभेदवाचिभ्योऽपूपादिभ्यश्च शब्देभ्यः आ तदोऽर्थेषु वा यः प्रत्ययोऽशिक्रियते । ईयापवादः । हविर्भेदः आमिक्षायै इदं द्धि आमिक्ष्यम् । आमिक्षीयम् । पुरोडाशाय इमे पुरोडाश्याः पुरोडाशीयास्तण्डुलाः । इविस्शब्दात्तु परत्वायुगादिपाठान्नित्यमेव यः । अन्नभेद, ओदनाय इमे ओदन्या ओदनीयास्तण्डुलाः। कृशरायै कृशाः कृशरीयास्तण्डुलाः। सुरायै सुर्याः सुरीयास्तण्डुलाः। अपूपादि, अपूपायेदमपूप्यम् अपूपीयम् । तण्डुलाय तण्डुल्यम् तण्डुलीयम् । सादेश्वेत्यधिकारात्तदन्तादपि भवति । यवापूप्यम् यवापूपीयम् । ब्रीहितण्डुल्यम् व्रीहितण्डुलीयम् । उवर्णान्तातु हविरनभेदात्परत्वान्नित्यो । यो भवति । चरव्यास्तण्डुलाः । सक्तव्या धानाः । अपूप तण्डुल ओदन पृथुक अभ्यूषअभ्योप अवोष किण्व मुसल कटक शकट कर्णवेष्टक ईगल इल्वल स्थूणा यूप सूप
-प्रति-॥-परस्यकुलेति । गणपाठास्पछयलुम् । 'पष्ठया क्षेपे इति वा यदा परकुललबन्धित्वेनाक्षिप्यते । एवमनुष्यकुलेति ॥-देव-॥-अर्थादिति तदर्थ इति । प्रत्ययार्थादेवेत्यर्थः ॥ हल-॥-कृष्टमिति । कृष्ट गतमित्यर्थः । कर्ष इत्यधिकरगे घन न तु का इति पलस्प चतुर्थों भाग. परिमाणमिह गृसते अनभिधानात् ॥-हवि-1-आमिक्षेति ।
॥२॥