________________
222
।
पदं द्रष्टुं शक्यते । तुरप इति तुलाशब्दात्संमितेऽर्थे यः । तुलया संमित तुल्यं भण्डम् । निपातनं रूड्यर्थम् । तेन न तुला संमित एवोच्यते किंतु सदृशार्थोऽपि तुल्यशब्दः । गिरिणा तुल्यो हस्ती । मूल्यमिति मूलशब्दात्मथमान्त दस्येति पयर्थे यः तच यद्युत्पादनयोग्यं भवति । सूत्रमेषामुत्पाव्यं मूल्या मुद्द्राः । तृतीयान्ताच्चानाम्ये समे च । मूलेनानाम्यं मूल्यम् । मूलं पटाद्युत्पत्तिकारणम् । तेनानाम्यं यत्पदादेर्विक्रयात्माप्यते सुवर्णादि तन्मूल्यम् । मूलेन समो मूल्यः पटः । उपादा| नेन समानफल इत्यर्थः । वश्य इति वशशब्दाद्वितीयान्ताद्गोऽर्थे यः । वरां गतो वश्यो गौर्विधेयः । इच्छानुवर्तीति यात् । निपातनं रुच्यर्थे तेनेह न भवति । वशं गतः । इच्छां प्राप्तः । अभिमेतं गत इसर्थः । पथ्य इति पथिन्शब्दादनपेते यः । पथोऽनपेतं पथ्यम् ओदनादि । निपातनादिह न भवति । पयोऽनपेतं शकटादि । वयस्य इति वयःशब्दात्तृतीयान्तात्तुल्येऽर्थे यः । वयसा तुल्यो वयस्यः सखा । निपातनादिह न भवति । वयमा तुल्यः शत्रुः । धेनुष्येति धेनुशब्दाद्विशिष्टायां नौ यः पोऽन्तश्च । धेनुष्या या गोमता गोपालायाधमर्णेन चोत्तमर्णाय आ ऋणपदानादोहार्थं धेनुदयते सा धेनुरेव धेनुष्या । पीतदुग्वेति यस्याः प्रसिद्धिः । गार्हपत्य इति गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे ञ्यः प्रत्ययः । गृहपतिना संयुक्तो गार्हपत्य एवंनामा कश्चिदग्निः । निपातनादन्यत्र न भवति । जन्य इति जनीशब्दादधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच पष्ठ्यन्ताल्पेऽर्थे यः । जनीं वहन्ति जन्याः जामातुर्वयस्या उच्यन्ते । जनस्य जल्पः जन्यः । निपातनादन्यत्र भवति । धर्म्य इति धर्मशब्दात्तृतीयान्तात्माप्येऽर्थे पञ्चम्यन्ताच्चानपेतेऽर्थे यः । धर्षेण प्राप्यं धर्म्यम् सुखम् । धर्मादनपेतं च धर्म्यम् । यद्धर्ममनुवर्तते ॥ ११॥ नौविषेण तार्यवध्ये ॥ ७ । १ । १२ ॥ नौविष इत्येताभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये चार्थे यः प्रत्ययो भवति । नावा तार्थे नाव्यमुदकम् । नान्या नदी । विषेण वध्यो ववाह विषयः ॥ १२ ॥ न्यायार्थादनपेते ॥ ७ । १ । १३ ॥ न्याय अर्थ इत्येताभ्यां निर्देशादेव पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः प्रत्ययो भरति । न्यायादनपेतं न्याय्यम् । अर्थादनपेतमर्थ्यम् ॥ १३ ॥ मतमदस्य करणे || ७ | १ | १४ || मतमदशब्दाभ्यां निर्देशादेव षष्यन्ताभ्यां करणेऽर्थे यः प्रत्ययो भवति । इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । करणं साधकतमं कृतिर्वा । मतस्य करणं मत्यम् । मदस्य करणम् मद्यम् ॥ १४ ॥ तत्र साधौ || ७ | १ | १५ ॥ तत्रेति सप्तम्यन्तात्साधावर्थे यः प्रत्ययो भवति । साधुः मवीणो योग्य उपकारको वा । सामनि साधः सामन्यः । वेपनि साधुर्वमन्यः । कर्मणि कर्मण्यः । सभायां सभ्यः । शरणे शरण्यः ॥ १५ ॥ पथ्यतिथिवसतिस्वपतेर्येण ॥ ७ । १ । १६ ।। पथिन अतिथि वसति स्वपति इत्येतेभ्यस्तत्र साधौ एयण् प्रत्ययो भवति । पथि साधु पाथेयम् | आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ १६ ॥ भक्ताण्णः ॥ ७ । १ । १७ ॥ भक्तशब्दात्तत्र साधौ णः प्रत्ययो | भवति । भक्ते साधुर्भाक्तः शालिः । भाक्तास्तण्डुलाः ॥ १७ ॥ पर्षदो प्यणी ॥ ७ । १ । १८ ॥ पच्छन्दात्तत्र साधौ ण्यणेत्येतौ प्रत्ययौ भवतः । पर्षदि साधुः पार्षयः । पार्षदः । परिषदोऽपीच्छन्त्यन्ये । पारिपवः । पारिषदः ॥ १८ ॥ सर्वजनापण्येनत्रौ ॥ ७ । १ । १९ || सर्वजन शब्दात्तत्र साधौ य ईनञ् इत्येतौ मनन मतम् धातूनामनेकार्थत्वेन मतशब्द.
- मत - ॥ साम्यमिति 1
साम्येऽपि
यथा
मतीकृता
समीकृतेत्यर्थः