________________
सर्पिष्षु । धनुष्षु । दोष्षु । अत्र सो रुत्व, तस्य सत्वं, सुपः घत्वं ततोऽनेन पूर्वसस्य पत्वम् । टवर्गेण, पापदिप | वंभपि ॥ ६१ ॥ * न शात् । १ । ३ । ६२ ॥ शकारात्परस्य तवर्गस्य स्थाने यदुक्तं तन्न भवति । किमुक्तम् । चवर्ग: । अश्नाति । अश्नुते । विश्व' | प्रश्नः ||३२|| * पदान्ताट्टवर्गादनामनगरीनवतेः । १ । ३ ॥ ६३ ॥ पदस्यान्ते वर्तमानाट्टवर्गात्परस्य नाम्नगरीनवतिसंवन्धिवर्जितस्य तर्वगस्य सकारस्य च यदुक्तं तन्न भवति । किमुक्तम् । टवर्गषकारौ । षट्तयम् । मधुतिरति । मधुलिट् घुडति । मधुलि दुनोति । मधुलि धुनोति । पण्नयाः । मधुलिट् सीदति । मधुलि साये । मधुलिट् स्यात् । मधुलिट्सु । टवर्गादिति किम् । चतुष्टयम् । सर्पिष्ट्वम् । पदान्तादिति किम् । ईट्टे । अनामनगरीनवतेरिति किम् । षण्णाम् । घण्णगरी । षण्णवतिः। *नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव | नाम || ६३ ॥ षि तवर्गस्य । १ । ३ ॥ ६४ ॥ पदान्ते वर्तमानस्य तवर्गस्य स्थाने षकारे परे यदुक्तं तन्न भवति । किमुक्तम् । टवर्गः । तीर्थकृत् पोडशः शान्तिः । भवान् पण्डः । पीति किम् । तट्टीकते । तत्रर्गस्येति किम् । सर्विष्णु ॥ ६४ ॥ *लि लौ । १ । ३ । ६५ ॥ पदान्ते वर्तमानस्य तवर्गस्य स्थाने लकारे परे स्थान्यासन्नावनुनासिकाननुनासिकौ लकारौ भवतः । तल्लुनाति । भवाऍ लुनाति । 'आसन्नः' ( ७ । ४ । १२० ) इत्येव सिद्धे द्विवचनमन्यत्राऽनुनासिकस्यापि स्थानेऽननुनासिकार्थम् । तेन 'वाष्टन आः स्यादौ ' (१ । ४ । ५२ ) इत्यादावननुनासिक* एव भवति ॥ ६५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ ३ ॥
चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः ॥ परकीर्तित्रवन्तीनां न प्रवेशमदत्त यः ॥ १ ॥
चतुर्थः पादः
* अत आः स्यादौ जस्भ्यांये । १ । ४ ॥ १ ॥ स्यादौ जसि भ्यामि यकारे च परेऽतोऽकारस्याकारो भवति । *वृक्षाः । पृक्षाः । *आभ्याम् ।
ठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावात् इति । सर्पिष्षु इत्यादिषु पदान्तत्वात् नाम्यन्तस्थेत्यादिना पत्व न भवति प्रकृते सस्य ॥ न शात् ॥ तवर्गस्येति । असभवात् सस्येति न व्याख्यातम् ॥ पदान्तात् ॥ तवर्गस्येति । उत्तरत्र तवर्गस्येति भणनात् तवर्गस्य सस्य चेति लभ्यतेऽत्र ॥ -- नामित्यामादेशस्येति । अनुप्रत्ययान्तस्य धनन्तस्य च नमतेरवयव एक अपरथामादेश । अत्र व आमादेशो नाम तस्यैवार्थवत्त्वात्प्रत्ययाप्रत्यययो प्रत्ययस्यैवेति न्यायाद्वा ग्रहणमित्याह - पड्नाम नामशब्दो नकारान्तोऽकारान्तो वाव्यय इति ॥ - लि लौ ॥ -- अनुनासिक एव भव तीति । विपरीत नियमस्तु निरनुनासिकस्य सानुनासिक इति 'हृदयस्य हृळास' इत्यत्र हृल्लासेति करणान्न भवति । प्रायिक चैतज् ज्ञापकम् । तेन 'समानाना तेन दीर्घ इत्यादी आसन्न एव भवतीति ॥ इति प्रथमस्याध्यायस्य तृतीय पाद ॥ अत आ स्यादाविति ॥ अत्र प्रत्ययाप्रत्यययोरिति सिद्धे स्यादिग्रहण 'णघमसत्वरे' - इत्यादी प्रयोजनार्थम् । तेन राजभ्यामित्यादौ नलोपस्य