________________
श्रीम ॥ ५९ ॥
| योगविभागकरणात् संज्ञायां पञ्चैव पञ्चकाः त्रय एव त्रिका इति स्वार्थे एव वा प्रत्ययो भवति ॥ १७२ ॥ विंशत्यादयः || ६ । ४ । १७३ ॥ विंशत्यादयः शब्दा नाम्नि विषये तदस्य मानमित्यर्थे साधवो भवन्ति । द्वेदेशदर्ये विभावः शतिश्व प्रत्ययः । द्वौ दशतौ मानमपां संख्येयानामस्य वा संख्यानस्य विंशतिः । खभावः शच्च प्रत्ययः । त्रयो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य त्रिशत् । चतुरचत्वारिंभावः शच्च प्रत्ययः । चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य चत्वारिंशत् । पञ्चन आत्वं चापञ्च दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पञ्चाशत् । पपस्तिः पप्च । पद् दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पष्टिः । सप्तनस्तिः। सप्त दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य सप्तति । अष्टनोशी च । अष्टौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य | अशीतिः । नवनस्तिः। नव दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य नवतिः। दशनः शभावस्तश्च प्रत्ययः । दश दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य शतम् । दश शतानि मानमेषां संख्येयानामस्य वा संख्यानस्य सहसम् । एवं दश सहस्राण्ययुतम् । यशायुतानि नियुतम्। दश नियुतानि प्रयुतम् । दश प्रयुतान्यर्बुदम्। | दशार्बुदानि न्यर्बुदम् । बहुवचनालक्ष कोटिखर्वनिखर्वादयो भवन्ति । पञ्च पादा मानमस्याः पङ्क्ति छन्दः । पिपीलिकापङ्क्तिरित्यादौ तु पण विस्तारे इत्यस्मात् क्त्यन्ताद्भवति । यदत्र लक्षणेनानुत्पन्नं तत्सर्वं निपातनात्सिद्धम् ॥ लिङ्गसंख्यानियमश्च विंशत्याद्या शतादिति सिद्धः ॥ १७३ ॥ शं चत्वारिंशम् ॥ ६ । ४ । १७४ ॥ त्रिंशचत्वारिशदित्येताभ्यां तदस्य मानमित्यर्थे डण् निपात्यते प्रत्ययान्तं चेत्कस्यचिन्नाम भवति । त्रिशदध्याया मानमेषां शानि चात्वारिंशानि कानिचित् ब्राह्मणान्येवमुच्यन्ते ॥ १७४ ॥ पञ्चदशद्वर्गे वा ॥ ६ ॥ ४ । १७५ ॥ पञ्चदशादित्येतौ शब्दौ तदस्य मानमित्येतस्मिन् विषये वर्गेऽभिधेये डत्प्रत्ययान्तौ निपात्येते वा । पक्षे को भवति । पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः । पञ्चको वर्गः । दशद्वर्गः। दशको वर्गः ॥ १७५ ॥ स्तोमे डट् ॥ ६ ॥ ४ । १७६ ॥ संख्यावाचिनः प्रथमान्तात्तदस्य मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट् प्रत्ययो भवति । ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः । विंशः । पञ्चविंशः । त्रिंशः । पञ्चदशी पङ्क्तिः । डकारोऽन्त्यस्वरादिलोपार्थः । टकारो ङङ्घर्थः ॥ १७६ ॥ तमर्हति ॥६ । ४ । १७७ ॥ तमिति द्वितीयान्ताददर्थे यथाविधि प्रत्ययो भवति । श्वेतच्छन्नमर्हति वैतच्छत्रिकः । वैषिकः । वाखिकः । वाखयुगिकः । अभिपेचनिकः । वालीवर्दिकः । चामारिकः । शत्यः शतिकः । साहसः । भोजनमईति पानमर्हतीत्यादावनभिधानान्न भवति ॥ १७७ ॥ दण्डादेः ||६|४ | १७८|| दण्डादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यः प्रत्ययो भवति इको|पवादः । दण्डमर्हति दण्ड्यः । मुसल्यः । दण्ड मुसल मेधा वध मधुपर्क अर्थ मेघ (थ) उदक इभ कशा युग। इति दण्डादिः || १७८ ॥ यज्ञादियः || ६ |४| १७९ ॥ यज्ञशब्दाद्वितीयान्तादत्यर्थे इयः प्रत्ययो भवति । यज्ञमर्हति यज्ञियो देशः । यज्ञियो यजमानः। यज्ञो नाग कियासमुदायः कश्चित् तदभिव्यङ्ग्यं वापूर्वम् इत्याहुः ॥ १७९ ॥ पात्रात्तौ ॥ ६ ॥ ४ ॥ १८० ॥ पात्रशब्दाद्वितीयान्तादईत्यर्थे तौ य इय इत्येतौ प्रत्ययौ भवतः । पात्रमर्हति पात्रयः । पात्रियः ॥ १८० ॥ दक्षिणा1 दश वर्वाणि निखर्वम् प्रयुतानि | ॥ - - विंश - - ॥ -- - बहुवचनादिति । दशायुतानि
लक्ष दश
कोटि दशावजानि खर्व्वम् 1
통영이
॥ ५९ ॥
"