________________
III
कडङ्गरस्थालीविलादीययौ ॥६॥ ४॥ १८१ ॥ दक्षिणाकडङ्गर रथालीविल इत्येतेभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे इय य इत्येती प्रत्ययौ भवतः । दक्षिणामहति दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयो कडङ्गयों गौः । कडङ्गरं मापादिकाष्ठम् । स्थालीविलीयाः स्थालीविल्यास्तण्डुलाः पाकाहा इत्यर्थः॥ १८१॥ छेदादेर्नित्यम् ॥६।४।२८२ ॥ नित्यमित्यहतीत्यस्य विशेषणम् । छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यमहति छैदिकः । भैदिकः । छेद भेद द्रोह दोह नर्त गोनत कर्ष विकर्ष प्रकर्ष विभकर्ष प्रयोग विषयोग संप्रयोग प्रेक्षण संप्रश्न विप्रश्न । इति छेदादिः ॥ १८२ ॥ विरागादिरजश्च ॥ ६ । ४ । १८३ ॥ विरागशब्दाद्वितीयान्तानित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति । नित्यं विरागमर्हति वैरशिकः ॥ १८३ ॥ शीर्षच्छेदाद्यो वा ॥ ६ । ४ । १८४ ॥ शीर्पच्छेदाद्वितीयान्तान्नित्यमहत्यर्थे यः प्रत्ययो वा भवति । पक्षे इकण् । शीर्पच्छेदं नित्यमर्हति शीर्पच्छेद्यः चौरः । शेर्पच्छेदिकः ॥ १८४ ॥ शालीनकौपीनात्विजीनम् ॥ ६।४। १८५ ॥ शालीन कौपीन आत्विजीन इत्येते शब्दास्तमहत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते । नित्यमिति निवृत्तम् । निपातनस्येष्टविषयत्वात् । शालीन इति शालाप्रवेशनशब्दादीनञ् उत्तरपदस्य च लुक् । शालामवेशनमर्हति शालीनः । अकारस्य वृद्धिनिमित्तत्वात्पुंवद्भावो न भवति । शालीनाभार्यः । शालीनशब्दोऽधृष्टपर्यायः । कौपीन इति कूपप्रवेशानमर्हति कौपीनः। कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते।आविजीन इति ऋत्विज्शब्दात ऋत्विधर्मशब्दाद्वा ईनज् प्रत्ययः कर्मशब्दलोपश्च निपात्यते । ऋत्विजमहत्यात्विजीनो यजमानः । ऋत्विकर्माहति आत्विजीनः ऋविगेव ॥ १८५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां लिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ षष्ठरयाध्यायस्य चतुर्थः पादः॥६॥४॥ भूमि कासगवि स्पगोमयरसैरासिञ्च रत्नाकरा मुक्ता| स्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुम्भीभव॥धृत्वा कल्पतरोदलानि सरलैग्विारणास्तोरणान्याधत्तस्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥१॥
-शाली-||-गोपनीयेति । उपस्थधब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुगप्रतिपत्यर्थ गोपनीयग्रहणम् ॥ इत्याचार्य० पष्ठस्याध्यायस्य चतुर्थ. पादः ॥