________________
BOBeerera
हिमश० ||तृतीयान्ताव क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । प्रस्थेन क्रीतं मास्थिकम् । सतया साप्ततिकम् । आशीतिकम् । नैष्किकम् ।। प०अ०ल. ॥५७॥
पाणिकम् । पादिकम् । त्रिंशकम् । विशकम् । द्विकम् । त्रिकम् । शत्यम् । शतिकम् । मूल्यैरिति किम् । देवदत्तेन क्रीतम् । पाणिना क्रीतम् । वृत्तौ संख्याविशेषानवगमात् द्विवचनबहुवचनान्तान भवति । प्रस्थाभ्यां प्रस्थैर्चा कीतमिति । यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । द्वाभ्या क्रीतं द्विकम् । त्रिकम् । द्वाभ्यां प्रस्थाभ्यां क्रीतं द्विपस्थम् । त्रिमस्थम् । यथा मुरैः क्रीतं मौद्रिकम् । माषिकम् । न छेकेन मुद्रेन भाषेण वा क्रयः संभवति ॥ १५० ॥ तस्य वापे ॥६।४ । १५१ ।। तस्येति षष्ठचन्ताद्वापेऽर्थे यथाविधि इकणादयो भवन्ति । उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः पास्थिकम् । द्रौणिकम् । मौद्रिकम् । शल्यम् । शतिकम् । खारीकम् ॥१५२॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥ ६।४। १५२ ॥ वातादिभ्यस्तस्येति षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथाविहितमिकण प्रत्ययो भवति । शाम्यति येन तच्छमनस् । कुप्यति येन तत्कोपनम् । वातस्य शमनं कोपनं वा वाविकम् पैत्तिकम्। श्लैष्मिकमासानिपातिकम । पथ्यमपथ्यं च द्रव्यायेवमभिधीयते प्रकरणातु विशेषगतिः ॥१५२॥ हेतौ संयोगोत्पाते ॥६॥४॥ ॥१५३॥ तस्येति षष्ठयन्ता तावथें यथाविहितं प्रत्ययो भवति योऽसौ हेतुः स चेत् संयोग उत्पातो वा भवति।हेतुनिमित्तम् । संयोगः संबन्धः । पाणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः । शतस्य हेतुरीश्वरसंयोगः शत्यः शतिकः । साहसः । उत्पात, सौमग्रहणस्य हेतुरुत्पातः सोमनहणिको भूमिकम्पः । सांग्रामिकमिन्द्रधनुः । सौभिक्षिकः परिवेषः । शतस्य हेतुर्दक्षिणाक्षिस्पन्दनम् शत्यं शतिकम् । साहस्रम् । संयोगोत्पात इति किम् । शतस्य हेतुश्चैत्रः ॥ १५३ ॥ पुत्रायेयौ ॥६।४ । १५४ ॥ पुत्रशब्दातस्येति षष्ठ्यन्तादेतावर्थे य ईय इत्येतो प्रत्ययौ भवतः स चेद्धेतुः संयोग उत्पातो वा भवति । पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः पुत्रीयः ॥ १५४ ॥ दिस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणाश्चादेः॥६॥ ४ । १५५ ॥ संख्यापरिमाणाचादिवर्जिताद्विस्वरान्नान्नो ब्रह्मवर्चसशब्दाच तस्येति षष्ठ्यन्तादेवावर्थे य. प्रत्ययो भवति स चेद्धेतुः संयोग उत्पातो वा भवति । इकणादीनामपवादः । धनस्य हेतुः संयोग उत्पातो वा धन्यः । यशस्यः । आयुष्यः । वात्या विद्युत् । ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । कथं गोर्हेतुः संयोग उत्पातो वा गव्यः। द्विस्वराभावात गोः स्वरे य.' (६-१-२७) इति भविष्यति । द्विस्वरेति किम् । विजयस्य हेतु संयोग उत्पातो वा वैजयिकः । आभ्युदयिकः । ब्रह्मवर्चसग्रहणमद्विस्वरार्थम् । असंख्यापरिमाणाश्चादेरिति किम् । संख्या, पश्चानां हेतुः संयोग उत्पातो वा पञ्चकः । सप्तकः । परिमाण, प्रास्थिकः । खारीकः । 'उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या वाह्या तु सर्वतः । इति संख्यापरिमाणयोर्विशेषः । अश्वादि, आचिकः । गाणिकः । वासुकः । अश्व गण वसु वस्त्र ऊों उमा भङ्गा वर्षा निर्देशो लाघवार्थ । स्वरूपग्रहणम्युदासार्थश्च ॥-सण्याविशेषाऽनवगमादिति । प्रत्यये सति न ज्ञायते वृत्तिस्विचनेन बहुवचनेन वा कृतेत्येकवचनान्तादवे प्रत्यय इत्यर्थः ॥-बिस्व ॥-ऊर्ध्वमानमिति || इर सत्याग्रहण किमर्थ परिमाणमहगेनैव सरूपा गृह्यते । सख्या हि परिमाण भवति । परिमीयते परिस्यिते इयत्तावधार्यते येन तादि परिमाण सरूपयापि पेपत्तावधार्यत इत्याह-संख्येति