________________
अश्मन् । इत्यवादिः ॥ १५५ ॥ पृथिवी सर्वभूमेरीशज्ञातयोश्वाञ् ॥६।४ । १५६ ॥ पृथिवी सर्वभूमिशब्दाभ्यां पष्ठयन्ताभ्यामीशज्ञातयोस्तस्य हेतुस्संयोग उत्पात इत्यस्मिन् विषये चान् प्रत्ययो भवति । ईशः स्वामी। पृथिव्या ईशः पार्थिवः । सर्वभूमेः सार्वभौमः । सर्वभूमेरनुशतिकादित्वादुभयपदद्धिः। पृथिव्या ज्ञातः पार्थिवः । कर्तरि पष्ठी संवन्धविवक्षायां वा । एवं सार्वभौमः । पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । सार्वभौमः । ईशज्ञातयोरिति द्विवचनं हेतुविशेपणत्वशक्षा व्यवच्छेदार्थम् ॥ १५६ ॥ लोकसर्वलोकाज्ज्ञाते ॥ ६ । ४ । १५७ ॥ लोकसर्वलोकशब्दाभ्यां तस्येति पयन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकण् प्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकः । सर्वलोकशब्दस्यानुशतिकादित्वादभयपदद्धिः ॥ १७ ॥ तदत्रास्मै वा वृद्धथायलामोपदाशुल्क देयम् ॥ ६ । ४।१५८ ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे अस्मै इति चतुर्थ्यर्थ वा यथाविहितं प्रत्ययो भवति यत्वलाथमान्तं तच्चेद्वद्धिरायो लाभ उपदा शुरकं वा देयं भवति । अधमर्णेनोत्तमय ग्रहीतधनातिरिक्त देयं वृद्धिःग्रामादिषु खामिग्राह्यो भाग आयः । पटादीनामुपादानं मूल्योतिरिक्त प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः । लश्च उत्कोट इति यावत् । वणिजां रक्षानिवेशो राजभागः शुल्कम् । पञ्चास्मिन् शते वृद्धिः
पञ्चकं शतम् । पञ्चारिमन् ग्रामे आयः पञ्चको ग्रामः । पञ्चास्मिन् पटे लाभः पश्चकः पटः । पञ्चास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः । पञ्चास्मिन् शते Sशुल्कं पञ्चकं शतम् । एवं शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयम् शसं शतिकम् । साहस्रम् । प्रास्थिकम् । द्रौणिकम् । अस्मै, पञ्चास्मै देवदत्ताय
वृद्धिरायो लाभ उपदा शुल्कं वा देयम् पञ्चको देवदत्तः । शत्यः । शतिकः । साहस्रः । प्रास्थिकः । द्रौणिकः । वृद्ध्यादिग्रहणं किम्॥पञ्च मूल्यमस्मिन्नस्मै वा दीयते १३ ॥ १५८ ॥ पूरणा दिकः॥६।४।१५९ ॥ पूरणप्रत्ययान्तादर्धशब्दाच तदिति प्रथमान्तादस्मिन्नस् वा दीयत इयर्थयोरिकः प्रत्ययो भवति यत्तत्पथमान्तं
वृद्ध्यादि चेत्तद्भवति । इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयम् द्वितीयिकः । तृतीयिकः । पञ्चमिकः । पष्ठिकः । अर्ध, अधिकः । अधिका स्त्री । अर्धशब्दो रूपकार्थे रूढः ॥ १५९ ॥ भागायेकौ ॥ ६ । ४ । १६० ॥ भागशब्दात्तदस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयमिति विपये य इक इत्येतौ प्रत्ययौ भवतः । इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः । भागिका भागिका स्त्री । भागशब्दोऽपि रूपकार्धस्य वाचकः ।। १६० ॥ तं पचति द्रोणाद्वाज् ॥ ६ । ४ । १६१ ॥ तमिति द्वितीयान्तावोणशब्दात्पचत्यर्थे अच् मययो वा भवति । पक्षे इकण् । द्रोणं पचति । द्रौणः । द्रौणिकः । द्रौणी द्रोणिकी स्थाली गृहिणी वा । द्वौ द्रोणौ पचति द्विद्रोणी । 'अनाम्न्यद्विः प्लुप् (६-४-१४१ ) इति अभिकणो॰ए ॥ १६१ ।। -संभवद्वहरतोश्च ॥ ६।४।१६२ ॥ तमिति द्वितीयान्तान्नान्नः पचति संभवदवहरतोश्वार्थयोर्यथाविहितमिकणादयो भवन्ति । तत्राधेयस्य प्रमाणानतिरेकेण ॥-पृथिवीसर्वभूमे-॥-व्यवच्छेदार्थमिति । हेतुविशेपणत्वे हि रायोग उत्पात ईश ज्ञातेत्यर्थचतुष्टय विज्ञायत ततश्च स चेदतु सयोग उत्पात ईशो ज्ञाता था भवतीत्यर्थः स्यात्॥पूर-॥-इकणिकटोरिति । पुरणप्रत्ययान्तेभ्य. पूणेषण । अर्द्धात्तु ' कसार्धात् ' इतीकट् ॥-सभ---||-अकर्मक इति । यथा प्रस्थोन सभवति माति नातिरिच्यत इति अकर्मक ।
VERNMMANAVARANAS
MONDA
Swaroo
-
--
CONDORE
-
--
-----