________________
श्रीईमश० 1148 11
सिको व्यभि ॥ १०६ ॥ भृताधीष्टे च ।। ६ । ४ । १०७ || कालादिवि वर्तते । सरमै इति तादर्ध्य चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण् मत्ययो भवति । भृतो वेतन कीतः । अधीष्टः सत्कृत्य व्यापारितः । मासाय भृतः मासिकः कर्मकरः । मासं कर्मणे भृत इन्यर्थः । मासायाधीष्टो मासिक उपाध्यायः । मासमध्यापनायाधीष्ट इत्यर्थः । एवं वार्षिकः । सांवत्सरिकः । चकारस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टे चेति सूत्रत्रयस्याप्युत्तरत्रानुवृत्यर्थः ॥ १०७ ॥ षण्मासादयसि क ॥ ६ । ४ । १०८ ॥ पण्मासशब्दात् कालवाचिनस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टे चेत्यस्मिन्विषयेऽवयति गम्यमाने ण्य इक इत्येतौ प्रत्ययौ भवतः । षड्भिर्मासैर्निर्वृत्तः पण्मासान् भावी भूतो वा षण्मासेभ्यो भृतोऽवीष्टो वा पाण्मास्यः । पण्मासिकः । अवगमीति किम् । पण्मासान् भूतः पण्मास्यः । ' पण्मासाद्ययणिकण ' ( ६-४-११५) इति यः ॥ १०८ ॥ समाया ईनः || ६ । ४ । १०९ ॥ समाशब्दात्तेन निर्वृत्त इत्यादिपञ्चकविषय इनः प्रत्ययो भवति । समया निर्वृत्तः समा भूतो भावी वा समायै भूतोऽधीष्टो वा समीनः ॥ १०९ ॥ रात्र्यहः संवत्सराच द्विगोर्वा ॥ ६ । ४ । ११० ॥ रात्रि अहन् संवत्सर इत्येतदन्तात्समाशब्दान्ताच्च द्विगोस्तेन निर्टत्त इत्यादिपञ्चकविषये ईनः प्रत्ययो वा भवति । द्वाभ्यां रात्रिभ्यां निर्वृत्तो द्वे रात्री भूतो भावी वा द्वाभ्या रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीणः । त्रिरात्रीणः । एवं व्यहीनः । द्विसंवत्सरीणः । द्विसमीनः । पक्षे इकण् । द्वैरात्रिकः । द्वैयह्निकः । द्वैयहिक इति तु व्यहशब्दात्समाहारद्विगोरिकणि भवति । द्विसांवत्सरिकः । ' मानसवत्सरस्य ' ( ७-४-१९ ) इत्यादिनोत्तरपदवृद्धिः । द्वैसमिकः । रात्र्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वा अनवकाशत्वादीन एव भवति । तथा च समासान्तसंनियोगे उच्यमानः 'सर्वागसंख्याव्ययात' (७-३-११८) इत्यद्वादेशो न भवति । समान्तात्पूर्वेण नित्ये माझे शेपेभ्योऽमाप्ते विकल्पः ॥ ११० ॥ वर्षादश्व वा ॥ ३|४|१११ ॥ वर्षशब्दो यः कालवाची तदन्ताद्द्द्विगोस्तेन निर्वृत्त इत्यादिपञ्चकविषयेऽकारश्चकारादीनथ वा भवति । पक्षे इकण् | एवं त्रैरूप्यं भवति । द्वाभ्यां वर्षाभ्यां निर्वृत्तो द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा द्विवर्षः । द्विवर्षीणः । द्विवार्षिकः त्रिवर्षः । त्रिवर्षीणः । त्रिवार्षिकः । ' संख्याधिकाभ्यां वर्षस्याभाविनि ' (७-४-१८) इत्युरपदवृद्धिः । भाविनि तु प्रतिषेधात् द्वैवर्षिकः । त्रैवर्षिकः ॥ १११ ॥ प्राणिनि भूते || ६ | ४ | ११२ ॥ कालवाचिवर्षशब्दान्तावद्विगोर्भूतेऽर्थे अः प्रत्ययो भवति स चेद्धृतः गाणी भवति । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो स्वसत्तयेत्यपेक्ष्यते । सतश्च भूतभाविनोऽर्थस्य स्वया सत्तया व्याप्स्यमान कालो येन भूतभाविनाऽर्थेन स तथोक्त । इह काल इति य' काले वर्त्तते तत प्रत्यय उन काल एवं वर्त्तते काला व्यभिचरति त प्रत्यय । किचात यदि काले वो वर्त्तते तत प्रत्ययो रमणीय वर्ष भूत शोभन वर्ष भूत इति रमणीयादेरपि प्राप्नोति । यदा य. काल एव वर्त्तते तत प्रत्यय तदा पष्टि वर्षाणि भूतो पाष्टिक द्विषष्टिवर्षाणि भूतो द्विपाष्टिक साप्ततिको द्विसाहतिक इति न स्यात् । तत्र सख्याया कालवृत्ते प्रत्ययो वक्तव्य । उच्यते । य काले वर्त्तते ततः प्रत्यय' । तेन पाष्टिक इत्यादी कालवृत्ते सख्याया. प्रत्यय सिद्धो भवति । रमणीय वर्ष भूत इत्यादी स्वनभिधानात्र भवति ॥ - राज्य - ॥ बाधित्वेति । रात्रिशब्दात् सख्यातक इत्यनेन प्राप्तम् अहस्तु सर्वाश इत्यनेन ॥ अनवकाशत्वादिति । अन्यथा राज्यन्ताहरन्ताभावान एकदेशेत्यपि नोपतिष्ठते न्यायानामनित्यत्वात्
समासान्त भवति ।
प०अ०ल०
1148 11