________________
མ་མ་
वा वार्षिकम् मासिकमित्यादि भवति । प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगो परस्य लुप् न भवति । द्वयोर्मासयोर्देवं कार्य वा द्वैमासिकम् | त्रैमासि कम् ॥ ९८ ॥ व्युष्टादिष्व ॥ ६ । ४ । ९९ ॥ व्युष्टादिभ्यो निर्देशादेव सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण मत्ययो भवति । व्युष्टे देवें कार्य वा वैष्टम् ! नैत्यम् । व्युष्टसाहचर्यान्नित्यशब्दः कालवाची गृह्यते ततः सप्तम्यपवादेन 'कालाध्वनोर्व्याप्तौ ' (२-२- ४२ ) इत्यनेन द्वितीयाविधानात् नित्यं देयं कार्य वेति द्वितीयान्तादेव प्रत्ययः । अन्ये तु सप्तम्यन्तादपीच्छन्ति । नित्ये विपुत्रति पथिराचरैर्मुहूर्तेरनाक्रम्यमाणे देवं कार्य वा नैत्यम् । व्युष्ट नित्य निष्क
प्रवेश तीर्थ संग्राम संघात अग्निपद पीलुमूल प्रवास उपवास । इति व्युष्टादिः । बहुवचनादाकृतिगणोऽयम् ॥ ९९ ॥ यथाकथाचाण्णः || ६ | ४ | १०० ॥ यथाकथाच शब्दोऽव्ययसमुदायोऽनादरेणेत्यर्थे वर्तते तस्मादेये कार्ये चार्थे णः प्रत्ययो भवति । यथाकथाच दीयते याथातथाचम् | याथाकथाचा दक्षिणा ॥ १०० ॥ तेन हस्ताद्यः ॥ ६ ॥ ४ । १०१ ॥ तेनेति तृतीयान्ताद्धस्तशब्दादेये कार्ये चार्थे यः प्रत्ययो भवति । हस्तेन देयं कार्य वा हस्त्यम् ॥ १०१ ॥ ★ शोभमाने || ६ | ४ | १०२ ॥ तेनेति तृतीयान्ताच्छोभमानेऽर्थे इकण् प्रत्ययो भवति । कर्णवेष्टकाभ्यां शोभत कार्णवेष्टकिकं मुखम् । एवं वास्त्रयुगिक शरीरम् । औपाहिको पादौ । असमर्थन ममासो ऽप्यस्मिन्विपये भवति। कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् । अवायुगम् ॥ १०२ ॥ कर्मवेषायः ॥ ६ ॥ ४ । १०३ ॥ कर्मन् वेष इत्येताभ्यां तृतीयान्ताभ्यां शोभमानेऽर्थे यः प्रत्ययो भवति । कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । पूर्ववन्नञ्समासो भवति । अकर्मण्यः । अवेष्यः । केचिद्वेषस्थाने वेशं पठन्ति । वेश्या नर्तकी ॥ १०३ ॥ कालात्परिजय्यलभ्यकार्य सुकरे || ६ । ४ । १०४ || कालविशेषवाचिनः शब्दा चेनेति तृतीयान्तात्परिजय्ये लभ्ये कार्ये सुकरे चायें इकण प्रत्ययो भवति । | परितो जेतुं शक्यं परिजय्यम् । शक्ते कृत्यः । लभ्यकार्ययोः शक्तेऽहें या । अकृच्छेण क्रियते यत्तत्सुकरम् । मासेन परिजय्यो मासिको व्याधिः । आर्धमासिकः । सांवत्सरिकः । मासेन लभ्यो मासिकः पटः । मासेन कार्य मासिकं चान्द्रायणम् । मासेन सुकरः मासिकः प्रासादः । कालादिति किम् । चैत्रेण परिजय्यम् ॥ १०४ ॥ निर्वृत्ते || ६ | ४ । १०५ ॥ तेनेति कालादिति च वर्तते । कालवाचिनस्तृतीयान्तान्निर्वृत्तेऽर्थे इकण् प्रत्ययो भवति । अह्ना निर्वृत्तमाहिकम् । मासिकम्। आर्धमासिकम् | सांवत्सरिकम् । योगविभाग उत्तरत्रास्यानुवृत्त्यर्थः ॥ १०५ ॥ तं भाविभूते । ६ । ४ । १०६ ॥ कालादिति वर्तते । तमिति द्वितीयान्तात्कालवाचिनो भाविनि भूते चार्थे इकण् प्रत्ययो भवति । स्वसत्तया व्याप्स्यमानकालो भावी । व्याप्तकालो भूतः । मासं भावी मासिक उत्सवः । मासं भूतो मा
॥ व्युष्टा ॥ विषुवतीति । विपुनीम मुहूर्त । सोऽस्यास्ति विषुवत् । समरात्रिदिव काल पुंनपुंसक । यद्वैजयन्ती ' पुरीतत् महिमा हेम विषुवत् कर्म लोन दो' नृपण्डलिङ्गा ॥ शोभ-|कर्णवेष्टकाभ्यामिति । कर्णौ वेष्टते कर्म्मणोऽण् । तावेव कर्णवेष्टको ताभ्याम् । अथवा वेष्टते णक बेष्टको कर्णयावष्टको ताभ्यान् ॥ असमर्धेति । अन हि नन् शोभमाने इत्यनेन सद्धत्वादसमर्थ । तत्समासोपि गमकत्वादभिधानाद्भवतीत्यर्थः ॥ अकार्णवेष्टकिकमिति । इकणमानीय पद्मासन्समास ॥ निर्वृ-- ॥ अत्र सूत्रे अन्ये कालादिति न मन्यन्ते तन्मते तारिखका ऐर्यापथिकीत्यादयः स्वमते 'प्रयोजनम्' इल्पनेन सिद्धा. ॥ तं भा ॥ व्यास्यमानेति । उवाप्स्यमान. कालो येन भाविना उत्सवेन स व्याप्स्यमान. कालो भावी ॥ व्याप्तकाल इति । अत्रापि