________________
श्रीमन्ना वारिपथिकः । स्थालपथिकः । जाइलपथिकः ॥९॥ स्थलादेमंधुकमरिचेऽण् ॥६।४ । ९१ ॥ स्थलपूर्वपदात्पचिन्नन्तात्तृतीयान्तादाहृतेऽर्थेऽण् प्रत्ययो |
प०अ०ल. भवति तच्चेदाहृतं मधुकं मरिचं वा भवति । स्थलपथेनाहतं मधुकं मरिचं वा स्थालपथम् । मधुकमरिच इति किम् । स्थालपथिकमन्यत् ॥ ९१॥ तुरायणपारायणं यजमानाधीयाने ॥ ६॥ ४ ॥ १२॥ आभ्यां निर्देशादेव द्वितीयान्ताभ्यां यथासंख्यं राजमानेऽधीयाने चार्थे इकण प्रत्ययो भवति । तुरायणं नाम यजस्तं यजते तौरागणिकः । पारायणमधीते पारायणिकः ॥ १२ ॥ संशयं पाते ज्ञेये ॥६।४ । ९३ ॥ संशयमिति द्वितीयान्तात्माप्तेऽर्थे इकण प्रत्ययो भवति स चेत्माप्तोऽर्थो ज्ञेयो भवति । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमों न जाने स्थाणुरुत पुरुष इति । सांशयिकश्चैत्रो न जाने जीवति उत मृत इति । ज्ञेय इति । किम् । संशयितरि माभूत । सोऽपि हि संशयं प्राप्तो भवति । तस्य तत्र भावात् ॥ ९२ ॥ तस्मै योगादेः शक्ते ॥ ६ । ४ । ९४ ॥ योगादिभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः वाक्तेऽर्थे इकण् प्रत्ययो भवतियोगाय शक्तः यौगिकतासांतापिकः । योग सन्ताप सन्नाह संग्राम संयोग संपराय संघाल संपाद | संपादन संक्रम संपेप संवेश संमोदन निष्पेष निःसर्ग निर्घोष निसर्ग विसर्ग उपसर्ग प्रवास उपवास सक्तु मांस ओदन मांसौदन सक्तुमांसौदन । इति योगादिः ॥९४ ॥ योगकर्मभ्यां योकौ ॥६ । ४ । ९५ ॥ आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं य उकञ् इसेतो प्रत्ययौ भनतः । योगाय शक्तः योग्यः । कर्मणे शक्तं कामुकम् । एवं योगशब्दस्य द्वैरूप्यम् ॥ १५॥ यज्ञानां दक्षिणायाम् ॥ ६॥ ४ ॥ ९६ ॥ यज्ञबाचिभ्यो निर्देशादेव षष्ठयन्तेभ्यो दक्षिणायागर्थे इकण् प्रत्ययो भवति । यज्ञकर्मकृतां वेतनादानं दक्षिणा । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । बाजपेयिकी । राजनयिकी । नावयज्ञिकी । पाश्चौदनिकी । ऐका| दशाहिकी । द्वादशाहिकी । वाजपेयिकी । बहुवचनं स्वरूपविधेयुदासार्थम् ॥ ९६॥ तेषु देये ॥६।४ । ९७ ॥ यज्ञवाचिभ्यस्तेष्विति निर्देशादेव साम्यन्ते- १ | भ्यो देयेऽर्थे इकण् प्रत्ययो भवति।अनिष्टोमे देयम् आग्निष्टोमिकम्वाजपेयिकं भक्तम्।।९७॥ काले कार्ये च भववत् ॥६।४।९८||कालवाचिनो निर्देशादेव सप्तम्यन्ताईये
कार्ये चार्थे भववत्सत्यया भवन्ति । यकाभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवेऽर्थे भवन्ति ताभ्यः प्रकृतिभ्यस्तेन विशेषेण कार्ये देये चार्थे ते प्रत्यया भवन्ति । बद्धि | सर्वसादृश्यार्थभायथावर्षासु भवं वार्षिकम् मासिकम् शारदिकम् श्राद्ध कर्म शारदिकः शारदो वा रोग आतपो वा नैश नैशिकम् प्रादोषं प्रादोषिकम् शौवास्तिकम् चिरत्नम् || | परुत्नम् पुराणम् पूर्वाडेतनम् सायंतनम् चिरन्तनम् पौषम् शैशिरस् सान्ध्यम् सांवत्सरम् फलं पर्व वा हैमन्तम् हैमनम् मावृषेण्यमिति भवति एवं वर्षासु देयं कार्यं || | ||-यशा ॥-नावयशिकीति । नवाना यज्ञाना दक्षिणा तद्धितविषये स ॥-पाञ्चौदनिकीति । पञ्चसु ओदनेषु भवः अण् तस्य लुप् । पञ्चौदनस्य दक्षिणा ॥-ऐकादशाहिकीति । एमादशानामहां समाहार । ' द्विगोरसाह्न ' इत्यट् । एकादशाहेन निर्वयो यागोप्येकादशाह । तस्य दक्षिणा ॥-दैवाजपेयिकीति । दूयोर्वाजपेययोदक्षिणा इति तद्धितविपये द्विगु ॥-तेषु-॥ ननु | वदग्निष्टोमे देव तदग्निष्टोमे भवति तन्त्र 'ऋगृद्विस्वरयागेभ्य ' इतीकण भविष्यात किमर्थमिद वचनम् । उच्यते । तत्र 'तस्य व्याख्याने च-' इत्यतो ग्रन्थादित्यधिकृतेऽग्निष्टोमादिविधायके ग्रन्थे । वर्चमानादमिष्टोमादेरिकण् विहित । इह त्वात्मन इति विषयभेद । किंच द्वयोर्वाजपेययोदेय द्वैवाजपेयिफमिति इकण न स्यात् । अत्र तु 'सख्यादेश्व-' इति भवति। देयत्व च प्रत्ययाओं यथा स्यादिति वचनम् ||१|॥ ५३