________________
। खैराध्ययने माभूत् । अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति । एक रूपमध्ययने वृत्तमस्य ऐकरूपिकः । ऐकग्रन्थिकः ॥ १७ ॥ यतुस्वरपूर्वादिकः
॥६।४।६८॥ बहुस्वरं पूर्वपदं यस्य तस्मानाम्नः प्रथमान्तादरयेति पष्ठयर्थे इकः प्रत्ययो भवति यत्चत्पावशान्तं तद्वत्तोपपाठगेऽनुयोगे भवति । एकादशान्यान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशान्यिकः । एकादशान्यिका स्त्री । द्वादशान्धिकः । द्वादशान्यिका स्त्रीत्रयोदशान्यिकः । त्रयोदशान्यिका। चतुर्दशान्यिक: । चतुर्दशान्यिका । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादश रूपाण्यध्ययने वृत्तान्यस्य द्वादशरूपिकः ॥ ६८ ॥ भक्ष्यं हितमस्मै ॥ ६ । ४ । ६९ ॥ तदिति वर्तते। तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थ इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्भक्ष्य हितं भवति । अपूपा भक्ष्यं हितपस्मै आपूपिकः। शाकुलिकः । मौदकिकः । गौडधानिकः । भक्ष्यामिति किम् । देवदत्तो हितोऽस्मै । हितमिति किम् । अपूपा भक्ष्यमहितमस्मै । हितार्थों भक्षणक्रिया च तद्धितवृत्तावेवान्तर्भवति ॥ ६९ ॥ नियुक्तं दीयते ॥ ६ । ४ । ७० ॥ तदिति अस्मै इति च वर्तते । तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण प्रत्ययो भवति यत्तत्प्रथमान्तं तचेनियुक्तमव्यभिचारेण नित्यं वा दीयते । अग्रभोजनमस्मै निमुक्तं दीयते आग्रभोजनिकः । आगफलिकः । मासिकः । आपिकः । शाष्कुलिकः । ग्रामिकः । आग्रहारिकः । अस्मै इत्येव । रजकस्य वस्त्रं नित्यं दीयते । अय॑ते इत्यर्थः ॥ ७० ॥ श्राणामांसौदनादिको वा ॥६।४।७१ ॥ श्राणामांसौदन इत्येताभ्यां तदस्मै नियुक्तं दीयत इत्यस्मिन् विषये इकः प्रत्ययो वा भवति । श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी। श्राणिका | मांसौदनिकः । मांसोदनिका । पक्षे इकण । श्राणिकी । मांसौदनिकी । इकेकणोः स्त्रियां विशेषः । अन्ये विकं नेच्छन्ति ॥ ७१ ॥ भक्तौदनादाणिकद् ॥ ६ । ४ । ७२ ॥ भक्त ओदन इत्येताभ्यां यथासंख्यमण् इकट् प्रत्ययौ वा भवतः तदस्मै नियुक्तं दीयते इत्यस्मिन्विषय । भक्तमस्मै नियुक्तं दीयते भाक्तः । औदनिकः । औदनिका । पक्षे इकण् । भाक्तिकः । औदनिकः । ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ ७२ ॥ नवयज्ञादयोऽस्मिन्वर्तन्ते ॥६।४ । ७३ ॥ नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण प्रत्ययो भवति । नवा यज्ञा अस्मिन्वर्तन्ते नाबयज्ञिकः । पाकयज्ञिकः । नवयज्ञादयः प्रयोगगम्याः॥ ७३ ॥ तत्र नियुक्ते ॥६।४।७४ ॥ तत्रेति समभ्यन्तान्नियुक्तेऽर्थे इकण् प्रत्ययो भवति । नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । प्रत्ययार्थश्चायम् । स तु प्रकृत्यर्थोपाधिः । शुल्कशालायां नियुक्तः शौल्कशालिकः । आपणिकः । आतरिकः । दौवारिकः । आक्षपटलिकः ॥ ७४ ॥ अगारान्तादिकः ॥ ६॥ ४ । ७५ ॥ अगारान्ताचन नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः । देवागारिका । भाण्डागारिकः । भाण्डागारिका । आयुधागारिकः । आयुधागारिका । कोठागारिकः । कोष्ठागारिका ॥ ७ ॥ तयोश्च परत प्रथमैकवचनम् ॥-भक्ष्यम्-॥ अथास्येत्यनुवर्तमानस्य हितमित्येतद्योगेऽर्थवशात् हितसुखाभ्याम् । इति चतुर्थीपरिणामेनास्मायिति लभ्यते इति किमर्थमस्योपादानम् । सत्यम् । उत्तरार्थत्वाददोषः । उत्तरत्र हि नियुक्त दीयते इति पष्ठपन्तस्यापि संबन्धोपपत्तेरस्मै इति न लभ्यते इति सप्रदानप्रतिपत्त्यर्थम् अस्मायिति कर्तव्यं तदुत्तरार्थ सदिह सूत्रेपि