________________
भ्यस्तदस्य पण्यमित्यस्मिन् विपये इकमायो भवति । किशरादयो गन्धद्रव्यविशेषवचनाः किशरं किसरो वा पण्यमस्य किशरिकः । किशरिकी सी। तगरिका। तगरिकी स्त्री । किशर तगर स्थगर उशीर हरिद्रा हारेगु हरिद्वपर्णी गुग्गुलु गुग्गुल नलद। इति किशरादिः॥ टकारो उन्यर्थः ॥ ५५ ॥ शलालनो वा ॥३ 48 लालशब्दावन्धविशेपवाचिनस्तदस्य पण्यमित्यास्मिन् विपये इकट् प्रत्ययो भवति वा । शलाल पण्यमस्य शलालुकः । शलालकी । पक्षे इकण । शालालकी ॥५६॥ शिल्पम् ॥६।४।५७ ॥ तदस्येति वर्तते । तदिति प्रथमान्तादरयेसर्थे इकण प्रत्ययो भवति यत्तत्मथमान्तं तच्चेच्छिल्पं भवति । शिल्पं कौशलम विज्ञानप्रकर्षः । अनेन तन्निवर्त्यः क्रियाविशेपो लक्ष्यते । नृत्तं शिल्पमरय नार्तिकः । गीतं गैतिकः। वादनं वादनिकः । मृदङ्गो मृदङ्गवादनं शिल्पमस्य पाडिका पाणविकः । मौरजिकः । वैणिकः । मदनादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति +न द्रव्यवृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनाभिधानान्न भवति । अत एव कुम्भकारादावभिधेये मृदङ्ग करणादिभ्य एव प्रत्ययः। मृदङ्गकरणं शिल्पमस्य मार्दङ्गकरणिकः । वैणाकरणिकः । मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः ॥ ५७ ।। मड्डुकझझरादाण ॥ ६ । ४ । ५८॥ मड्डुकझर्झर इत्यताभ्यां तदस्य शिल्पामेत्येतस्मिन् विषये अण् प्रत्ययो वा भवति । मड्डुकवादनं शिल्पमस्य माड्डुकः । झाझरः । पक्षे इकण । माड्डुकिकः । झारिकः॥५८ ॥ शीलम् ॥ ६ । ४ । ५९ ॥ | तदिति प्रथमान्तादस्येति पष्टयर्थे इकण प्रत्ययो भवति यत्तत्पथमान्तं तच्चेच्छीलं भवति । शीलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिरिति यावत् । अपूपा | | अपूपभक्षणं शीलमस्य आपूपिकः । शालिकः । मौदकिक । ताम्बूलिकः । परुपवचनं शीलमस्य पारुपिकः । एवमाक्रोशिकः । मृदङ्गादिवदपूपादयः शब्दाः | क्रियावृत्तयः प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥ ५९॥ अस्थाच्छच्चादेरञ् ॥ ६।४ । ६० ॥ अप्रत्ययान्तात्तिष्ठतेछत्र इत्यादिभ्यश्च तदस्य शीलमित्यस्मिन् विपयेऽञ् प्रत्ययो भवति । आस्था शीलमस्य आस्थः । सांस्थः । आवस्थः । सायास्थः । वैयवस्थः । नैष्ठः । वैष्ठः ।
उपसर्गादातः । (५-३-११०) इत्यः । आन्तस्थः । भिदादित्वाद । छन्त्रादि, छचं शीलमस्य छात्रः । छवशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छप्रक्रियातुल्या | गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् । शिप्यो हि छन्नवद् गुरुच्छिद्रावरणादिप्रवृत्त छान्न इत्युच्यते । -अभ्यासापेक्षाsपि किया शीलमित्यच्यते।यथा शीलिता विद्येति।चुराशीलः चौरः ।तपशील: तापसः कर्मशील कामः । स्त्रियां छात्री चौरी तापसी । छत्र चुरा तपस् कर्मन् शिक्षा चक्षा चिक्षा शिल्पम् । -मृदङ्गादिशब्दा इति । आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति धैयाकरणिकादग ॥-न द्रव्यवृत्तय इति । द्रव्यस्य शिल्पायोगाद्विपयाया' क्रियाया. शिल्पत्वमिति वादनार्थवृत्तय इत्युक्तम् ॥-कुम्भकारादाविति । केचिद्ग्रामेषु मुन्मया मृदसा भवन्ति । तेषा कुम्भकारादुत्पत्ति ॥-करणादिभ्य एवेति । न तु मृदाशब्दादित्यर्थः ॥-अस्था-॥ भड्चासौ स्थाश्च ॥ छत्रम् आदिर्यस्य अस्थाश्च छयादिश्च तस्मात् । अन्तर्मध्ये स्थान भिदायद्धि'व्यत्यये लुग्या' इति रलोप । अन्तस्थान वा अन्तस्था शीलमस्य ॥-अभ्यासापेक्षापीति । शील हि पाणिनां स्वभाव. । छात्रस्य तु न स खभाव इत्याशयोक्तम् ॥-चुक्षेति । चुक्षिः सौत्रो निर्मलीकरणे चुक्षा शौचम् चिक्षेति केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति धात्वन्तर