SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ CNNM वा ॥ ३९ ॥ *माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ । ४ । ४० ॥ तमिति पर्तते । माथ उत्तरपदं यस्य तस्मान्नाम्नः पदवीशब्दादाक्रन्दशब्दाच्च द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति । दण्डमार्थं धावति दाण्डमाथिकः । शौदलमाथिकः । माथशब्दः पथिपर्यायः । दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावृति पादविकः । आक्रन्दन्ति यत्र स देश आक्रन्दः आक्रन्द्यते इति ना आकन्दः आतयनं शरणमुच्यते । आक्रन्दं धावति आक्रन्दिकः। उत्तरपदग्रहणाद्रहुमृत्ययपूर्वान्न भवति । वहुमार्थं धावति ॥ ४० ॥ पञ्चात्यनुपदात् || ६ । ४ । ४१ ॥ पातीति गकृतिविशेषणम् । पश्चादर्थः पश्चात् । पश्चादर्थे वर्तमानादनुपदशब्दा द्वितीयान्ताद्धावत्यर्थे इकण प्रत्ययो भवति । पदस्य पश्चादनुपदम् । अनुपदं धावति आनुपदिकः । प्रत्यासत्या धावतीत्यर्थः । पचतीति किम् । अनुपदं धावति । अत्र ' दैर्येऽनु. १ ( ३-१-३४) समीपे ' प्रात्यव - ' ( ३--१ - ४७ ) इत्यादिना वा समासः ॥ ४१ ॥ सुलातादिभ्यः पृच्छति ॥ ६ ॥ ४ । ४२ ॥ तमिति वर्तते । सुनातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् प्रत्ययो भवति । सुत्रातं पृच्छति सौस्नातिकः । सौखरात्रिकः । सौखशायनिकः । सौखशाय्यिकः । सुस्नातादयः प्रयोगगम्याः ॥ ४२ ॥ प्रभूतादिभ्यां ब्रुवति || ३ | ४ |४३|| प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । प्रभूतं ब्रूते प्राभूतिकः । पर्याप्तं ब्रूते पार्याप्तिकः । वैपुलिकः । वैचित्रिकः । नैपुणिकः । क्रियाविशेषणादयमिष्यते । तेनेह न भवति । प्रभूतमर्थ व्रते पर्याप्तमर्थ छूत इति । कचिदक्रियाविशेषणादपि । स्वर्गमनं ब्रूते सौवर्गमनिकः । स्वागतिकः । *सौवस्तिकः । प्रभूतादयः प्रयोगगम्याः ॥ ४३ ॥ माशब्दइत्यादिभ्यः ॥ ६ ॥ ४ ॥ ४४ ॥ माशब्द इत्यादिभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । इति शब्दो वाक्यपरामशार्थः । माशब्द इति ब्रूते माशब्दिकः । मा शब्दः क्रियतामिति श्रुत इत्यर्थः कार्यःशब्द | इति ब्रूते कार्यशब्दिकः । नित्यः शब्द इति ब्रूते नैत्यशब्दिकः। मा शब्द इत्यादयः प्रयोजनम्याः । वाक्यात्मत्ययविधानार्थं वचनम् ||४४ || शाब्दिकदार्दरिकलालाटिक| कौकुटिकम् || ६|४|४५ ॥ शाब्दिकादयः शब्दा ययास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते । शब्दं करोति शाब्दिकः। यः कथिच्छन्दं करोति न स सर्वः शाब्दिकः किं तर्हि यः शब्दं जानाति वैयाकरणः स एवाविनष्टं अन्दमुच्चारयन् शाब्दिक उच्यते। एवं दार्दरिकः । ददेरो घटो वादित्रं च तत्र वादित्रं कुर्वन्नेवमुच्यते। ललाटं पश्यति लालाटिकः। ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येन्ननुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति न स्वामिकार्येषूपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपमसादलक्षणाय यः पश्यति स लालाटिकः । कुक्कुटी पश्यति कौकुटिकः । कुकुटीसन्देन कुक्कुटीपातो लक्ष्यते । तेन च देशस्याल्पता । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपे देशे चक्षुः संयग्य पुरो युगमात्र देशमेशी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौकुटिकः। दाम्भिकचेष्टा वा मिथ्याशौचादिः कुकुटी । तामाचरन कौकुटिकः । हृदयावययो वा कुक्कुटी तां पश्यति कौकुटिको भिक्षुः । निभृत इत्यर्थः । तदेतत्सर्वं निपातालभ्यते ॥ माथोत्तरपद - ॥ - दण्डमाथ इति । मध्यते अवगायते पादै धनि माथ. । दण्ड इव माथ। उपमान सामान्यैरेवेति नियमादप्राप्तोपि 'मयूरव्यंसक' इति स ॥-प्रभू - |सौवस्तिक इति । स्वस्तीति ब्रूते व्युत्पत्तिपक्षे व पदान्तात्' इति भव्युत्पत्तिपक्षे तु 'द्वारादे' इत्यीत् ॥ - माश - ॥ वाक्यादिति । पूर्वेण हि पदात्प्रत्यय इत्यर्थः MAALV CAD.
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy