________________
॥४९॥
श्रीहैमश०१६ इति ॥ ३१ ॥ परिपन्थात्तिष्ठति च ।। ६।४।३२ ॥ परिपन्थशब्दाद्वितीयान्तात्तिष्ठाते प्रति चायें इकण् प्रत्ययो भवति । परिपन्थं तिष्ठति हन्ति वाप०अ०ल.
पारिपन्थिकचौर । अत एव निर्देशात् परिपथशब्दस्पेकणोऽन्यत्रापि वा परिपन्थादेशः । तेन परिपन्थं गच्छति परिपन्थं पश्यति इसायपि भवति ॥ ३२॥ परिपथात् ॥६।४।३३ ॥ तिष्ठतीति वर्तते । परिपथशब्दादातीयान्तात्तिष्ठत्यर्थे इकण प्रत्ययो भवति । परिवर्जने सर्वतोभावे वा । पथः परि सर्वतः पन्यानं वा परिपथम् । परिपथं तिष्ठति पारिपथिकः । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः ॥ ३३ ॥ अवृद्धग्रेहति गर्यो ॥६।४।३४॥ तमिति द्वितीयान्तादिशब्दवर्जितावहत्यर्थे इकण प्रत्ययो भवति योऽसौ गृह्णाति स चेदन्यायेन ग्रहणाद्यों निन्यो भवति । द्विगुणं गृह्णाति द्वगुणिकः । त्रैगुणिकः । वृधुषी वृद्धि गहाति वाधुपिकः । अल्पं दत्वा प्रभूतं गृहमपन्यायकारी निन्द्यते । अद्धेरिति किम् । वृदि गृह्णावीति वाक्यमेव । गर्दै इति किम् । दत्तं गृह्णाति ॥ ३४ ॥ कुसीदादिकद् ॥६।४ । ३५ ॥ तमिति द्वितीयान्तात्कुसीदशब्दागर्वे गुरुत्यर्थे इक प्रसयो भवति । कुसीद वृद्धिस्तदर्थ द्रव्यमपि कुसीदम् । तनहाति कुसीदिकः। कसीदिकी । कारो व्यर्थः ॥ ३५ ॥ दशैकादशादिकश्च ॥६।४ । ३६ ॥ तमिति द्वितीयान्ताद्दशैकादशशब्दाद्गो गृहत्यर्थे इकश्चकारादिकट् च प्रत्ययो भवति । दशभिरकादश दशैकादशाः । तागृहाति दर्शकादशिकः । दशैकादशिका । दशैकादशिकी । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान गृह्णाति। अन्ये दशैकादश गृहातीति विगृहन्ति । तदपि अवाधकान्यपि निपातनानि भवन्तीति न्यायादपपद्यते ॥३६॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥६।४ । ३७ ॥ गये इति निवृत्तम् । अर्थात्पदात्पदशब्द उत्तरपदं यस्य तस्मात् ललामात् प्रतिकण्ठाच द्वितीयान्ताद्गह्मत्यर्थे इकण् प्रत्ययो भवति । अर्थ गृहाति आर्थिकः । पई पादिकः । पदोचरपद, पूर्वपदं पौर्वपदिकः । औचरपदिकः । आदिपदिकः । आन्तपदिकः । ललाम लालामिकः । मतिकण्ठं प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न भवति । प्रतिगतः कण्ठं प्रतिकण्ठः तं गृहाति । उत्तरपदग्रहणाद्वहुमत्ययपूर्वान्न भवति । बहुपदं गृहाति ॥ ३७॥ परदारादिभ्यो गच्छति ।।६।४।३८॥ परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थ इकण प्रत्ययो भवति । परदारान् गच्छति पारदारिकः। गौरदारिकः । गौरतल्पिकः । समकां गच्छति सामकिकः । भ्रातृजायिकः । परदारादयः प्रयोगगम्याः ॥ ३८ ॥ प्रतिपथादिकश्च ॥ ६।४।३९ ।। प्रतिपथशब्दाद्वितीयान्ताद्वच्छत्यर्थे इकः प्रत्ययो भवति । चकारायथापाप्त इकण् । पन्धान प्रति पयोऽभिमुखमिति वा प्रतिपथम् । तद्गच्छति प्रतिपथिकः प्रातिपथिको ॥-परि-1-परिपन्थमिति । पय परिशब्दो वजनार्थ तदा 'पर्यपाभ्या वये' इति पञ्चमी । 'पर्यपाड्यहि ' इति समास । यदा तु परित पन्थानमिति सर्वतोऽर्थ परि तदा 'सौभयाभिपरिणा तसा' द्वितीया । सूत्रसामर्थ्यादव्ययीभाव नस्ल पथ्यपोऽत् ' ॥-अयु--||-वृषीमिति । प्रयुक्त धन पुष्णातीति प्रयुक्तधनपोपी तस्य पोदरादित्वात् वृधुपीशब्द आदेश ॥-अर्थ-॥ ललिणो नित्यण्वन्तात् कर्मणि ग्रे ललस्तममति प्राप्नोति ललाम ।-प्रतिफण्ठमिति । कण्ठ प्रति प्रातकण्ठ ' लक्षणेनाभिप्रति-' इत्यव्ययीभाव । कण्ठकण्ठ प्रति — योग्यतापीप्सा-' इति पा समास ॥-प्रतिगत कण्ठमिति । 'प्राण-' इति समारात्तत्पुरुष ॥-पर-॥-भ्रातृजायिक इति । प्रातु सकापार प्रातरि वा जायेति कृत्यन् । पष्ठीसमासे तु 'ऋता विधा-' इत्यलुप् स्यात् ॥४९॥