________________
हरति विवधिकः । विवधिकी । वीवधिकः । वीवधिकी । पक्षे इकण वैवधिकः वर्वाधकी। विवधवीवधशब्दौ समानायौँ पथि पर्याहारे च वर्तेते ॥ २५ ॥ १३ कुरिलिकाया अण् ॥६।४।२६ । कुटिलिकाशब्दात्तृतीयान्ताद्धरत्यर्थेऽण् प्रत्ययो भवति । कुटिलिकाशब्देनाओवका लोहादिमयी अङ्गाराकर्पणी यष्टिा कुटिला गतिर्वा पलालोत्क्षेपणोऽग्रेवको दण्डो वा परित्राजकोपकरणविशेपो वा चौराणां नौगृहायारोहणार्थ दामाग्रप्रतिवद्ध आयसोऽद्धोकुशो वोच्यते । कुटिलिकया हरत्यारान् कौटिलिकः कारः । कुटिलिकया हरति व्याधं कौटिलिको मृगः । कुटिलिकया हरति पलालं कौटिलिका कर्पकः । कुटिलिकया हरति पुष्पाणि कौटिलिकः परिव्राजकः । कुटिलिकया हरति नावं कौटिलिकश्चौरः ॥ २६ ॥ ओजासहोरमसो वर्तते ॥ ६ । ४ । २७ ॥ ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयान्तेभ्यो वर्तते इत्यर्थे इकण प्रत्ययो भवति । वृत्तिगत्मयापना चेष्टा वा । ओजसा यलेन वर्तते औजसिक: । सहसा प्रसहनेन पराभिभवेन वा साहसिकः । अम्भसा जलेन आम्भसिकः ॥ २७ ॥ तं प्रत्यनोलोमेपकूलात् ॥ ६॥ ४ ॥ २८ ॥ तेनेति निवृत्तम् । तमिति द्वितीयान्तात्मति अनु इत्येताभ्यां परो यो लोमशब्द ईपशब्दः कूलशब्दश्च तदन्ताद्वर्तते इत्यर्थे इकण् प्रत्ययो भवति । प्रतिलोमं वर्तते प्रातिलोमिकः । आनुलोमिकः । मातीपिकः । आन्वीपिकः । मातिकूलिकः । आनुकूलिकः । अकर्मकस्यापि वृत्तयोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया । तमिति पुंलिङ्गनिर्देशोऽसंदेहार्थः ॥ २८ ॥ * परेमुखपाश्र्थात् ॥ ६॥ ४ ॥ २९॥ परिशब्दायो मुखशब्दः पावशब्दश्च तदन्तात् द्वितीयान्तात् वर्तते इत्यर्थे इकण प्रत्ययो भवति । “परिमुखं वर्तते पारिमुखिकः । परिपार्थ वर्तते पारिपाश्चिकः । परिर्वमे सर्वतोभावे पा । स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतोयतः स्वाभिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः । एवं पारिपार्षिकः ॥ २९ ॥ रक्षदुञ्छतोः॥६।४।३०॥ तमिति द्वितीयान्ताद्रक्षति उञ्छति चार्थे इकण प्रत्ययो भवति । समाज रक्षति सामाजिक: । सामवायिकः । नागरिकः । सांनिवेशिकः । वदराण्युञ्छति उच्चिनोति वादरिकः । श्यामाकिकः । नैवारिकः॥३०॥ पक्षिमत्स्यमृगार्थाद् घ्नति ॥६।४। ३१ ॥ तमिति द्वितीयान्तेभ्यः पक्ष्यर्थेभ्यो मत्स्यार्थेभ्यो मृगाभ्यश्च प्रत्यर्थे इकण् प्रत्ययो भवति । पक्षिणो हन्ति पाक्षिकः । मात्सिकः। मार्गिकः। अर्थग्रहणाचत्पर्यायेभ्यो विशेषेभ्यश्च भवति । शाफुमिकः । मायरिकः । तैत्तिरिकः । गैनिकः । शाफरिकः । शाकुलिकः। हारिणिकः । सौकरिकः । नैयङ्कः । अथाजिह्मान् हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति । नैतन्मत्स्येत्यस्य स्वरूपं न विशेपो न पर्यायः अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः अनिमिषा देवा ॥-पक्षे इकणिति । अन्न याग्रहणसामर्थ्यात् अन्येनाप्राप्तोपि पक्षे इकण् । अन्यथा वाग्रहणमनर्थक स्यात् ॥-तं प्र-॥-असंदेहार्थ इति । तदिति कृते हि प्रथमान्तस्यैतद्रूप द्वितीयान्तस्य वेति सदेहः । यत स्यमोरपि नपुसके साधारण तदिति रूपम् ॥-परे-॥- परिमुखमिति । मुखात्परि 'पर्यपाड्-' इत्यव्ययीभाव
परित सर्वतो मुख परिमुख तदा 'परिमुखादेरव्ययीभावात् ' इति' वचनादव्ययीभाव ॥-पक्षि-॥- पर्याय इति । य किल पर्यायशब्द' स व्युत्पत्ति | मन्तरेणापि तावन्तमर्थ गमयत्यय तु व्युत्पत्यपेक्ष एवं गमयति ॥-विशेपणमिति । यत्रापि अजिमादिशब्देभ्यो मत्स्यादिप्रतीतिस्तत्राप्यसाधारणविशेषणत्वेनैव न पर्यायत्येन
wearwal