________________
peo
प०अ००
॥४८॥
पादिः॥१२॥ पदिकः॥६।४।१३॥ पादशब्दाचेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावच निपात्यते । पादाभ्यां चरति पदिकः ॥१३॥ श्वगणाया।६४।१४॥ श्वगणशब्दातेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः । श्वगणिकी । पक्षे इकण श्वागणिकः । वागणिकी । 'वादेरिति' (७-४-२०) इति वात्मागौन भवति ॥ १४ ॥ वेदनादेर्जीवति ॥ ६।४ । १५ ॥ तेनेति वर्तते । वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः । वाहिकः । वेतन वाह अर्धवाह धनुस् दण्ड धनुर्दण्ड जाल वेश उपवेश प्रेषण भृति उपवेष उपस्था उपास्ति उपस्थान सुख शय्या सुखशय्या शक्ति उपनिषत् उपरिजन स्फिज स्फिग वाल पुतचाल उपदेश पाद उपहस्त । इति वेतनादिः॥ १५॥ व्यस्ताच क्रयविक्रयादिकः॥६।४।१६॥ क्रयविक्रयशब्दात्समस्ताब्यस्ताच तेन जीवत्यर्थे इक प्रत्ययो भवति । क्रयविक्रयेण जीवति क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ १६ ॥ वलात् ॥६॥४॥२७॥ वस्त्राचेन जीवत्यर्थे इकः प्रत्ययो भवति । वस्त्रं मूल्यं तेन जीवति वस्निकः ॥ १७ ॥ *आयुधादीयश्च॥६।४।१८॥ आयुधशब्दात्तेन जीवत्यर्थे ईयश्चकारादिकश्च प्रत्ययौ भवतः । आयुधीयः । आयुधिकः । आयुधिका । आयुधादिकेकणोः स्त्रियां विशेषः ॥ १८ ॥ वातादीनम् ॥ ६ । ४ । १९ ॥ वातशब्दात्तेन जीवत्यर्थे | इनञ् प्रत्ययो भवति । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः । तत्साहचर्यात्तत्कापि बातम् । तेन जीवति वातीनः । बकारो वृद्धयर्थः । तेन ' तद्धितः स्वरवृद्धि-५३-२-६५ ) इत्यादिना पुंवगावो न भवति । व्रातीनाभार्यः ॥ १९ ॥ निवृत्तेऽक्षयूतादेः ॥ ६ । ४ । २० ॥ अक्षयूत इत्येवमादिभ्यस्तृतीयान्तेभ्यो निवृत्तेऽथै इकण् प्रत्ययो भवति । अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् । जायात्रहतिकं वैरम् । अक्षयूत जवामहत जयापहृत जड्यामहार | पादस्वेद पादस्वेदन कण्टकमर्द कण्टकमर्दन शर्करामर्दन गत आगत गतागत यात उपयात यातोपयात गतानुगत अनुगत । इत्यक्षातादिः ॥ २० ॥ भावादिनः। । ६।४ । २१॥ भाववाचिनस्तेन निवृत्तेऽथे इमः प्रत्ययो भवति । पाकेन निवृत्तं पाकिमम् । सेकिमम् । त्यागिमम् । रोगिमम् । कुट्टिमम् । संमूर्छिमम् ॥ २१ ॥ *याचितापमित्यात्कण् ॥ ६।४ । २२ ॥ याचित अपमित्य इत्येताभ्यां तेन निवृत्ते कण प्रत्ययो भवति । याचितेन याच्या निवृत्तं याचितकम् । अपमित्येति यवन्तम् । अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् ॥ २२ ॥ हरत्युत्सादेः॥६।४।२३ ॥ उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकण प्रत्ययो भवति । उत्सझेन हरत्यौत्सङ्गिकः । उत्रुपेन औत्रुपिकः । उडुपेन औडुपिकः । उत्सङ्ग उत्रुप उडुप उत्पुत उत्पुट पिटक पिटाक । इत्युत्सङ्गादिः ॥ २३ ॥ भस्त्रादेरिकट् ॥६ ।४।२४॥ भखादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भखिकी । भरटिकः । भरटिकी । भला भरट भरण शीर्षभार शीर्षभार अङ्गभार अङ्गेभार अंसभार अंसेभार । इति भखादिः ॥२४॥ विवधीवधादा ॥६।४।२५॥ विवधवीवध इत्येताभ्यां तेन हरत्यर्थे इकद् प्रत्ययो वा भवति । विवधन ॥-आयुधादीयश्च-॥-स्त्रियां विशेष इति। नन्वायुधादीयो यति क्रियता पक्षे इकणापि सेत्स्यतीत्यावशायका॥-याचि-1-अपमित्येति । अपमान 'निमील्यादिमेक' परवा 'मेडो वा मित् ॥-विविधवीवधादा
॥४८॥
a