________________
CMORNCOVE-23
सत उत्कर्षाधानं संस्कारः । दन्ना संस्कृतं दाविकम् । मारिचिकम् । शावरिकम् । उपाध्यायेन संस्कृनः औपाध्यायिकः शिष्यः । विश्या संस्कृतो वैधिकः। योगविभाग उत्तरार्थः ॥३॥ कुलस्थकोपान्त्यादण् ॥६॥४॥४॥ कुलत्थशब्दाककारोपान्त्याच शब्दरूपात्तेन संस्कृतेऽर्थेऽण् पत्यत्रो भवति । इकणोपवादः । कुलत्यैः संस्कृतं कौलत्थम् । अन्ये तु कुलस्थशब्दासकाराकान्तथकारात्मत्ययं मन्यन्ते । कौलस्थः। कोपान्त्य, तित्तिडीकेन तित्तिडीकाभिर्वा संस्कृत शिडीम् । दर्दरूकेण दादुरूकम् । मरण्डूकेन मारण्डूकम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौद्गम् । सारघम् ॥ ४ ॥ संसृष्टे ॥६॥ ४ ॥ ५॥ तेनेति तृतीयान्तात्संमोऽर्थ इकण् । प्रत्ययो भवति । मिश्रणमात्रं संसर्ग इति पूर्वोक्तासंस्कृतानेदः। दना संसप्टं दाधिकम् । शाङ्घेरिकम् । पेप्पलिकम् । वपिका भिक्षाः । आशुचिकमन्नम् ॥ ५॥ लवणादः॥४६॥ लवणशब्दात्तेन संसृष्टे अकारः प्रत्ययो भवति । लवणेन संसृष्टो लवणः सूपः। लवणः शाकः। लवणा यवागूः। लवणशब्दा द्रव्यशब्दा गुणशब्दश्च। तत्र द्रव्यवाची लवणशब्दः प्रसय प्रयोजयति न गुणवाची । गुणेन विश्लेपपूर्वकस्य संसर्गस्याभावात् ॥ ६॥ चूर्णमुन्नाभ्यासिनणौ ॥६।४।७॥ आभ्यां तेन संसृष्टे यथासंख्यमिन् अण् इत्येतौ प्रत्ययौ भवतः । चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः। चूर्णिन्यो धानाः । मुरैः संसृष्टो मौद्र ओदनः । मौद्गी यवागः ।। ७ ।। *व्यानेभ्य उपसिक्ते ॥६।४। ८ ॥ व्यञ्जनवाचिनस्तृतीयान्तादुपसिक्तेऽर्थे इकण् प्रत्ययो भवति । स्पेन उपसिक्तः सौपिक ओदनः । दाधिक ओदनः । घार्तिकः सूपः । तैलिक शाकम् । व्यञ्जनेभ्य इति किम् । उदकेन उपसिक्त आदनः। व्यञ्जनशब्दो रूढ्या पादौ वर्तते । उपसिक्त इति किम् । सूपन संसृष्टा स्थाली । | उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । उपसिक्तं संसृष्टमेव तत्र 'संसृष्टे' (६।४।५) इत्येव सिद्ध नियमाथै वचभम् ।
व्यञ्जनैः संमष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव । बहुवचनं खरूपविधेनिरासार्थम् ॥ ८॥ तरति ॥ ६ । ४ । ९ ॥ तेनेति तृतीयान्तात्तरत्यर्थे इकण | | प्रत्ययो भवति । उडुवेन तरति औडविकः काण्डप्लविकः । शारप्लविकः । गौपुच्छिकः ॥ ९ ॥ नौद्विस्वरादिकः ॥ ६।४।१०॥ | नौशब्दाद्विस्वराच नाम्नस्तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः । नाविका । द्विस्वर, घटिकः । धिकः । दृतिकः । बाहुकः । वाहुका ॥१०॥
चरति ॥६।४।११॥ तेनेति तृतीयान्ताचरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थी भक्ष्यार्थश्च गृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः । शाकदिकः । | पाण्टिकः । आकपिकः । आकषः सुवर्णनिकषोपलः औषधपेपणपापाणश्च । भक्ष्यर्थ, दन्ना चरति दाधिकः । शारिकः ॥ ११॥ पादेरिकन ॥६।४।१२ ॥ पर्प | इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पर्पण चरति पपिकः । पर्पिकी । अश्विकः । अम्बिकी । पर्प अश्व अश्वत्थ रथ अर्घ्य व्याल ज्याम । इति कुल-॥-सारघमिति । सरघाभिः कृत 'माम्नि मक्षिकादिभ्य ' इगण । सारघेण मधुना सस्कृतः ॥-सस-॥-दाधिकमिति । अत्र ससृष्ट शाकादि भक्ष्य विवक्षितम् । अन्यथा 'व्यक्षनेभ्य उपसिक्के ' इति नियम स्यात् ॥-आशुचिकमिति । नाना भोज्यार्थ पश्चादावनायामभक्ष्यत्वादसोऽनियम ॥-चूर्ण-॥ मत्वर्थीयेनैव इना सिद्धे ससृष्टविवक्षायामिकण्वाधनार्थम् ॥व्या-1-उपसिक्त एवेति । सुपेन ससृष्टा स्थालीत्यनुपसिक्के सदृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था ॥-व्यञ्जनरेवेति । उदकेनोपसिक ओदन इत्युदकादच्यानास भवतीति प्रकृतिव्यवस्था