________________
श्रीहेमश० ४६ ॥
NANA
महाराजशब्दात् द्वितीयान्ताद्भजत्यर्थे इकण् प्रत्ययो भवति । महाराजं भजति माहाराजिकः ॥ २०५ ॥ अचित्ताददेशकालात् ॥ ६ ॥ ३ । २०६ || देशका लवजितं यदचित्तमचेतनं तद्वाचिनो द्वितीयान्ताद्भजत्यर्थे इकण् प्रत्ययो भवति । अणादेर्वाधकः । अपूवान्भजति आपूषिकः । शाकुलिकः । मौदकिकः । पायसिकः । | अचित्तादिति किम् । देवदत्तः । अदेशकालादिति किम् । स्रौघ्नः । हैमनः ॥ २०६ ॥ वासुदेवार्जुनादकः || ६ । ३ । २०७|| आभ्यां द्वितीयान्ताभ्यां भजत्यथेंकः प्रत्ययो भवति । ईयाकवोरपवादः । वासुदेवं भजति वासुदेवकः । यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियवचनस्तदो तरेणाक नमामोति किं तु 'दोरीयः ' ( ६- ३ - ३१ ) इतीयः स्यात् इति तद्ग्रहणम् । अर्जुनं भजति अर्जुनकः । अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकन् स्यादिति केनैव सिद्धेऽकविधानं वासुदेवीं भजति वासुदेवकः अर्जुनी मर्जुनक इति एवमर्थम् ॥ २०७ ॥ गोत्रक्षत्रियेभ्योऽकम् प्रायः || ६ | ३ | २०८ ॥ गोत्रवाचिभ्यः क्षत्रियवाचिभ्यथ द्वितीयान्तेभ्यो भजरार्थेऽकव् प्रत्ययो भवति प्रायः। अणाद्यपवाद: । ग्लुचुकायनिं भजति ग्लौचुकायनकः । औपगवकः । दाक्षकः । गार्गकः । गार्ग्ययणकः । क्षत्रिय, नाकुलकः । साहदेवकः । दौर्योधनकः । दौःशासनकः । बहुवचनं क्षत्रिय विशेषपरिग्रहार्थम् । प्राय इति किम् । पणिनोऽपत्यं पाणिनः तं भजति पाणिनीयः । पौरवीयः || २०८|| ★ सरूपाद द्रे सर्व राष्ट्रवत् ॥ ६ ॥ ३ । २०९ ॥ ' राष्ट्र्क्षत्रियात्सरूपाद्राजापत्ये दर ' ( ६-१-११४ ) इति प्रस्तुत्य सरूपायो द्रिः प्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजतीत्यर्थे सर्वे प्रत्ययः प्रकृतिश्थ राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृतिवृजि इत्यादिस्ततश्च यः प्रत्ययो 'वृजिमद्रा देशात्कः ' ( ६-२-३७ ) इत्यादिना विहितस्तदुभयं वा इत्येवमादेः सरूपस्य द्विमत्ययान्तस्य भजतीत्यस्मिन् विषये भवतीत्यर्थः । वार्ध्यं वाज्य वृजीन् वा भजति वृजिकः । माद्रं माद्रौ मद्रान्वा भजति मद्रकः । अत्र कमत्ययः । पाण्डथं पाण्डयौ पाण्डून्वा भनति पाण्डवकः । आङ्गकः । वाङ्गकः । पाञ्चालकः । वैदेहकः । औदुम्बरकः । तैलखलकः । अत्र 'बहुविषयेभ्यः' (६-३-४४) इत्यकन् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । अत्र ' कुरुयुगंधराद्वा' (६-३-५२ ) इति वाकन् । ऐक्ष्वाकः । अत्र 'कोपान्त्याञ्चाण्' (६-३-५५) इत्यण् । सरूपादिति किम् । पौरनीयम् । अत्र पुरू राजा अनुखण्डो जनपद इति सारूप्यं नास्ति । अत एव 'पुरुमगध' - इत्यादौ द्विस्वरत्वेनैव सिद्धे पुरग्रहणमसरूपार्थं कृतम् देरिति किम्।पञ्चालान् ब्राह्मणान् भजति पाञ्चालः अन्न 'बहुविषयेभ्यः' इत्यकञ् न भवति । सर्वग्रहणं प्रकृत्य॰तिदेशार्थम् ।
१०५०ल०
| ॥ वासु ॥ एवमर्थमिति । कप्रत्यये 'डयादीदूत' के इति इस्वत्व स्थात् । भकत् • जातिश्व -' इति पुवद्भवति ॥ - सरूपाने - ॥ -- सरूपादिति सूवाशेन राष्ट्रक्षत्रियादित्युपलक्ष्यते ॥ - बहुधिषेभ्य इति ॥ पाण्ड्यं पाळ्याविति एकत्वद्विस्वयोरपि राष्ट्रवादित्यतिदेशादबहुवत्ता तथैव इति बहुविषयेभ्य इति अकज् भवत्येव ॥ - | कौरयक इति । कुरोरपत्य कुरूणा राजा वा 'दुमादि-' इति ष्य' कौरव्य भजति मनुष्ये वाच्ये ' कच्छादेनृस्ये' नित्यमकञ् । अन्यत्र तु ' कुरुयुगधराद्वा ' इति वा अक क्षे | कोपान्याच्चाणु '- यौगन्धरक इति । युगधराणा राजा युगधरस्थापस्य या ' साहवांश -' इति इ त भजति औत्सर्गिकाण ॥ - अतिदेशार्थमिति । तेन युजिकमद्रकपाण्डवक इति सिद्धम् । ॥ ४६ ॥