________________
| निपातनात् कृचिदन्यत्रापि भवति । ओश्रावयेति चतुरक्षरम् अस्तु औषद् इति चतुरक्षरं से यजामहे इति पञ्चाक्षरम् यजेति व्यक्षरम् ब्यक्षरो वषट्कारः, एष वै सप्त- | दशाक्षर छन्दस्यो यज्ञमनुविहितः । अत्र स्वार्थे यः। यथानुष्टयादिरक्षरसमूहश्छन्दस्तथैवां सप्तदशानामक्षराणां समूह छन्दस्य उच्यते ॥१९७॥ अमोऽधिकृत्य ग्रन्थे ॥६।३। १९८ ॥ कृत इति वर्तते । अप इति द्वितीयान्तादधिचत्य कृते ग्रन्येऽर्थे यथाविहितं प्रत्ययो भवति । अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः । तदपेक्षा द्वितीया । सुभद्रामधिकृत्य कृतो ग्रन्थः सोभद्रः । भद्रां भाद्रः । सुतारां सौतारः । भीमरथामधिकृत्य कृताख्यायिका भैपरथी । ग्रन्थ इति किम् । सुभद्रामधिकृत्य कृतः पासादः । कथं वासवदत्तामधिकृत्य कृताख्यायिका वासवदचा उर्वशी सुमनोहरा बलिवन्धनं सीताहरणमिति । उपचाराद्ग्रन्थे -ताच्छब्धं भविप्यति ॥ १९८ ॥ ज्योतिषम् ॥ ६।३ । १९९ ॥ ज्योतिःशब्दादयोऽधिकृत्य कृते ग्रन्येऽण् प्रत्ययो वृद्ध्यभावश्च निपात्यते । ज्योतीष्यधिकृत्य कृतो ग्रन्यो ज्योतिषम् ॥१९९॥ शिशुक्रन्दादिभ्य ईयः ॥६।३।२००॥शिशुक्रन्द इत्येवमादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे इयः प्रत्ययो भवति । शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमसभीयः।इन्द्रजननीयः प्रद्युम्नमत्यागमनीयाप्रद्युम्नोदयनीयः।सीताहरणीयः सीतान्वेषणीयाशिशुक्रन्दादयः प्रयोगतोऽनुसतव्याः शिशुक्रन्दशब्दात्केचिन्नेच्छन्ति।शशुक्रन्दम् ॥२००॥ बंदात्मायः ॥६।३।२०१॥ द्वन्द्वात्समासादमोऽधिकृत्य कृते ग्रन्थे प्राय ईया प्रत्ययो भवति।अणोऽपवादः । वाक्यपदीयम्। द्रव्यपर्यायीयम् । शब्दार्थसंवन्धीयम् । *श्येनकपोतीयम् । प्राय इति किम् । दैवासुरम् । राक्षोसुरम् । गौणमुख्यम् ॥ २०१॥ आधिनिष्कामति द्वारे ।।६। ३ । २०२ ॥ द्वितीयान्तादाभिनिष्कामति अभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति तच्चेदभिनिष्क्रामद्वारं भवति । सुग्नममिनिष्कामात सौनं कन्यकुब्जद्वारम् । माथुरम् । नादेयम् । राष्ट्रिय द्वारम् । करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातन्त्र्यविषक्षा । यथा साध्यसिनित्तीति । रचनावहिर्भाव वा निष्क्रमिः । यथा गृहकोणो निष्क्रान्तः । द्वार इति किम् । घुममभिनिष्क्रामति चैत्रः ॥ २०२ ॥ गच्छति पथि दूते ॥६।३ । २०३ ॥ द्वितीयान्ताद्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति योऽसौ गच्छति स चेत्पन्या दुतो वा भवति । मुग्नं गच्छति सौग्नः पन्था दूतो बा। माथुरः। नादेयाराष्ट्रियः। पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अभिगच्छतीत्युच्यते । नादिप्राप्तिर्वा पयो गमनम् । पथिदत इति किम् । सग्नं गच्छति साधुः । पाटलिपुत्रं गच्छति नौः पण्यं वाणिग्या ॥२०३ ॥ भजति ॥ ६॥ ३ । २०४॥ द्वितीयान्तागजत्यर्थे यथाविहितं प्रत्ययो भवति । सुघ्नं भजति सौन्नः । माथुरः।नादेयः। राष्ट्रियः ॥ २०४॥ महाराजादिकण् ॥ ६।३। २०५॥ -यशमनुविहित इति । यज्ञमनुलक्ष्यीकृत्य विहितो अनुगत इत्यर्थः ॥-अमो-|-उपचारादिति । अन्यैः प्रत्ययमुत्पाद्य लुबुक्ता तत्स्वमते कथमित्याहताच्छव्यमिति । स चासौ शब्दश्च तस्य भावः । अयमर्थ । स एव वासवदत्तादिशब्दो ग्रन्थे वर्त्तते ॥-शिशु-॥-यमसभीय इति । यमस्य सभा यमसभ शाला विना सभा राजवर्जितेत्यादिना राक्षसादित्वात् क्लीबत्वम् ॥-दूंव-॥-श्येनकपोतीयमिति । श्येनकपोतावधिकृत्येति शकट । उत्पलस्तु नित्यवरस्येत्येकवद्भावमिच्छति । तत श्येनकपोतमिति वा ॥-गौणमुख्यामिति । सज्ञापूर्वको विधिरनिला. इति न दोरीय. । गुणमुख्याद्वा प्रत्ययः ॥-अभिनिष्क्रान्त इति । रचनाया बहिनिर्गत इत्यर्थः