________________
श्री हेमश० ॥ ४५ ॥
कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः । अतिदेशादकम् । काकम् । कार्यदकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । कापिलेयिनो नटाः । कापिलेयक आम्नायः ॥ ९९० ॥ उपज्ञाते ॥ ६ ॥ ३ । १९१ ॥ तेनेति वर्तते । प्रथमत उपदेशेन विना वा ज्ञातमुपज्ञातम् प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयान्तायथाविहितं गत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् अकालकं व्याकरणम् । #काशकृत्स्नं गुरुलाघवम् ॥ १९९ ॥ कृते ॥ ६ ॥ ३ । १९२ ॥ तेनेति तृतीयान्तात्कृते उत्पादितेऽर्थे यथाविहितमणादयो भवन्ति । शिवेन कृतो ग्रन्थः शैवः । वाररुचानि वाक्यानि । जलूकेन जलूकया वा कृता जालूकाः श्लोकाः । जालुकिना जालुकाः । अत्र ' वृद्वेषः ' ( ६ – ३ - २७) इत्यन् । सिद्धसेनीयः स्तवः । इष्टकाभिः कृतः मासाद ऐष्टकः । नारदेन कृतं गीतं नारदीयम् । मनसा कृता मानसी कन्या । वक्ष्णा कृतः प्रासाद इत्यादावनभिधानान्न भवति । कृते ग्रन्थे एवेच्छन्सन्ये ॥ ९९२ ॥ नाम्नि मक्षिकादिभ्यः || ६ || ३ | १९३ ॥ मक्षिकादिभ्यस्तृतीयान्तेभ्यः कृतेऽर्थे यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेन्नाम भवति । मक्षिकाभिः कृतं मासिकं मधु । सरघाभिः सारघम् । गर्मुद्भिर्गार्मुतम् । नर्मुकाभिर्नार्मुकम् । नाम्नीति किम् । मक्षिकाभिः कृतं शकृत् । वातपैः कृतं वातपमित्यत्राणन्तं नाम नेयान्तमितयो न भवति । मक्षिका सरया गर्मुव नर्मुका पुत्तिका क्षुद्रा भ्रमर वटर वातप । इति मक्षिकादयः प्रयोगगम्याः ॥ १९३॥ कुलालादेरकन् || ६ |३| १९४॥ कुलाल इत्येवमादिभ्यस्तेन कृतेऽर्थेऽकन् प्रत्ययो भवति नाम्नि संज्ञायाम् । कुलालेन कुतं कौलालकम् । वारुटकम् । नाम्नीत्यभिधेयनियमार्थम् । तेन घटघटीशरावोदञ्चनाद्येव भाण्डं कौलालकम् न यवकिञ्चित्कुलालकृतम् । शूर्पपटकपटलिका पिच्छिकायेव भाण्डं वारुटकम् नान्यत् । एवमन्यत्राप्यभिधेयनियमः । कुलाल व कर्मार निषाद चण्डाल सेना सिरन्ध्र देवराजन् देवराज परिषद् वधू भद्र अनडुद्द् ब्रह्मन् कुम्भकार अश्वपाक रुरु । इति कुलालादिः ॥ १९४ ॥ सर्वचर्मण ईने || ६ | ३ | १९५ ॥ सर्वचर्मनशब्दाचेन कृते इन ईन इत्येतौ प्रत्ययौ भवतः । नाम्नीत्यधिकारादभिधेयनियमः । सर्ववर्मणा क्रूतः सर्वचमणः सार्वचणः । अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देनायोगिनापि 'नाम नाम्ना' - ( ३-१-१८) इत्यादिना समासः ॥ १९५ ॥ उरसो याणी ॥ ६ ॥ ३ । १९६ ॥ उरसूशब्दात्तेन कृते य अण् इत्येतौ प्रत्ययौ भवतो नाम्नि । उरसा कृतः उरस्यः औरसः ॥ १९६ ॥ छन्दस्यः ॥ ६ । ३ । १९७ ॥ छन्दशब्दात्तेन कृते यः प्रत्ययो निपात्यते नाम्नि । छन्दसा इच्छया कृतश्छन्दस्यः । न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । ॥ उप ।
अकालकमिति । न विद्यते काल कालाधिकारो यत्र । पाणिने. पूर्वे आचार्या कालपरिभाषा कुव्र्वन्ति स्म आ न्याय्यादुस्थानादा न्याय्याच सवेशनादेपोऽद्यतन काल' । अन्ये पुनराहु । उभयतोऽर्द्धरात्र येति । तत्पाणिनि प्रत्याचष्टे । तदशिष्यं लोकतोऽर्थगतेस्तदेव कालपरिभापारहितमकालक व्याकरण पाणिनिना प्रथम ज्ञात स्वर्यमेव वोपदेशेन बिना ज्ञात प्रथमत कृत वेत्यर्थं । एवं काशकृत्स्निनोपज्ञात काशकृत्स्नम् । 'वृद्धेष. ' इत्यज् ॥ - गुरुलाघवमिति । अशाटतोः पूत्यत्र गुरुव गुरुत्वं लाघव च गुरोलांघव चेति दर्शिष्यते ॥ - कुला - ॥ - सिरन्ध्रेति । सितानि बद्धानि स्थाणि यस्य सितरन्ध्र पोदरादित्वात्तस्य लोप | अदासो दासवृत्तिये स सिरन्ध इति स्मृतः ॥ – छन्दस्य – ॥
प०अ०ल०
॥ ४५ ॥