________________
अणोऽपवादः छगलिना प्रोक्तं वेदं विदन्त्यधीयते वा छागलेयिनः ॥ १८५॥ शीनकादिभ्यो णिन् ॥६।३।१८६ ॥ शौनक इत्येवमादिभ्यस्तेन प्रोक्त वेदे णिन् प्रत्ययो भवति । अणायपवादः । शौनकेन प्रोक्तं वेदं विदन्त्यधीयते वा शौनकिनः । शारविणः । वाजसनेयिनः । वेद इत्येव । शौनकीया शिक्षा । शौनक शागरख वाजसनेय शापेय काकेय (शाफेय) शाष्पेय शाल्फेय स्कन्ध स्कम्भ देवदर्श रज्जुभार रज्जुतार रज्जुकण्ठ दामकण्ठ कठ शाठ कुशाठ कुशाप कुशायन आश्वपश्चम तलवकार परुपांसक पुरुपांसक हरिद्र तुम्बुरु उपलप आलम्बि पलिङ्ग कमल ऋचाभ आरुणि ताण्डय श्यामायन खादायन कपायतल स्तम्भ । इति शौनकादयः । आकृतिगणोऽयम् । तेन भाल्लविना प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा भाल्लविनः शाध्यायनिनः ऐतरेयिणः इत्यादि सिद्धं भवति । ब्राह्मणमपि वेद एव । मनबाह्मणं हि वेदः ॥ १८६ ॥ पुराणे कल्पे ॥६॥३।१८७ ॥ तेनेति तृतीयान्तात्सोक्तेऽर्थे णिन् प्रत्ययो भवति। अणायपवादः। स चेत्सोक्तः पुराणः कल्पो भवति । पिङ्गेन गोक्तः फल्पः पुराणः पैङ्गी कल्पः । तृणपिङ्गेन तार्णपिङ्गी कल्पः । अरुणपराजेन आरुणपराजी कल्पः। येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः । आरुणपराजिनः । प्रोक्तादि लुयुक्तैव । पुराण इति किम् । आश्मरथः कल्पः । आश्मरथ्येन मोक्तः कल्प उत्तरकल्पेभ्य आरातीय इति श्रूयते ॥ १८७ ॥ काश्यपकौशिकादेवच ॥ ६॥३॥ १८८ ॥ आभ्यां तेन प्रोक्ते पुराणे कल्पे णिन् प्रत्ययो भवति । ईयापवादः । वेदवचास्मिन्कल्पे कार्य भवति । काश्यपेन प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः । कौशिकेन कौशिकिनः । काश्यपिना धर्म आम्नायः संघो वा काश्यपकः । कौशिकिनां कौशिककः । वेदवचेसतिदेशाद्वेदेन् ब्राह्मणमत्रैवेति नियमाद्वेदिवध्यतृविषयता 'चरणादकम् ' (६-३-२६७) इत्यकञ् च भवति । | कल्प इत्येव । काश्यपीया संहिता । पुराण इत्येव । इदानींतनेन गोप्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः । वेदवचेति अतिदेशार्थं वचनम् ॥ १८८ ॥ •शिलालिपाराशर्यानटभिक्षुसूत्रे ॥६।३। १८९ ॥ शिलालिन्पाराशर्य इत्येताभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् प्रत्ययो भवति । *अणअपवादा। वेदवचास्मिन् कार्यं भवति । नटानामध्ययनं नटसूत्रम् । भिषणामध्ययनं भिक्षुसूत्रम् । शिलालना मोक्तं नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः । पाराशर्येण मोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा पाराशरिणो भिक्षवः । शैलालिनां धर्मः आनायः संघो वा शैलालकम् । पाराशरकम् । अतिदेशादेदिनध्येत| विषयता चरणादक च भवति । नटभिक्षुमुत्र इति किम् । शैलालं पाराशरम् ॥ १८९॥ कृशाश्वकर्मन्दादिन ॥३। ३ । १९० ॥ आभ्यां तेन प्रोक्त 8
यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन् प्रत्ययो भवति । अणोऽपवादः । वेदवचास्मिन् कार्य भवति । कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा कशाश्विनो नटाः। | ॥-शौन-॥-शाट्यायनिन इतिाध्यणन्तात् 'तिफादेरायनिष्'गर्गादियजन्तातु यजिनः' इत्यागनणा शाव्यायनिना शाट्यायनेन वा प्रोक्त वेद विदन्त्यधीयते यानन्वनेन वेदे प्रत्ययोऽभ्यधायि तरफथं भारुविना | प्रोक्त ब्राह्मणमित्याह-ग्रामणमपीति॥ - काश्य-1-अतिदेशार्थमिति। पुराणे करुपे' इत्यनेनैव सिद्धरणात्॥-शिला-॥-अणअपवाद इति।शिलालिन् शब्दातेन प्रोक्त पाराशर्याप्तु शकलादेर्यन
Avaisa