________________
Voom
१६ | युगम् । औष्ट्ररथम् । रासभरथम् ॥ १७७ ॥ “वाहनात् ॥ ६ । ३ । १७८ ।। वाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययो भवति । *अणादेरपवादः ।
उष्टस्यायमौष्टः । रासभः । हास्तो रथः ॥ १७८ ॥ *वाह्यपथ्युपकरणे ॥ ६ । ३ । १७९ ॥ नियमसूत्रमिदम् । वाहनाद्योऽयं प्रत्यय उक्तः स वाह्ये पथि उपकरणे एव चेदमः भवति नान्यत्र । अवस्यायमाश्वो रथः । आश्वः पन्थाः ।। आश्वं पल्ययनम् । आश्ची कशा । बाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव न प्रत्ययः । अश्वानां घासः॥ १७९॥ वस्तुरिश्चादिः॥६।३।१८०॥ वहेः परो यस्तृचस्तुनो वा तुशब्दस्तदन्तानाम्नस्तस्येदमित्यर्थेऽप्रत्ययस्तुशब्दस्य चादिरिकारो भवति । संबोढः सारथरिदं सांवहित्रम् ॥ १८०॥ तेन प्रोक्त ॥६।३ । १८१ ॥ प्रकर्पण व्याख्यातमध्यापितं वा मोक्तम् न तु कृतम् । तत्र कृत इत्येव गतत्वात् । तस्मिन्नर्थे तेनेति तृतीयान्तानाम्नो यथाविहितं प्रत्यया भवन्ति । भद्रबाहुना प्रोक्तानि भाद्रवाहवानि उत्तराध्ययनानि । गणधरपलेकबुदादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि । पाणिनेन पाणिनीयम् । आपिशलिना आपिशलम् । काशकृत्स्निना काश-| कृत्स्नम् । उशनसा औशनसम् । बृहस्पतिना वार्हस्पत्यम् ॥ १८१ ॥ मौदादिभ्यः॥६।३ । १८२ ॥ मौदइत्येवमादिभ्यस्तेन प्रोक्ते यथाविहितं प्रत्ययो भवति । स चापवादैर्वाधितोऽणेव । अपवादस्यैव भावे वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः । 'वेदेन्बाह्मणमत्रैव । (६-२-१३० ) इति नियमात् अत्र वेदिवध्येविषय एवाण् । एवं पैष्पलादाः । जाजलाः । माथुरेण मोक्ता माथुरी वृतिः । सौलमानि ब्राह्मणानि । मौदादयः पयोगगम्याः ॥ २८२ ॥ कठादिभ्यो वेदे लुप् ॥ ६।३ । १८३ ॥ कठ इत्येवमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुप् भवति स चेत्सोक्तो वेदो भवति । कठेन प्रोक्तं वेदं विदन्त्यधी- | यते वा कठाः । चरकाः। कर्कराः । धेनुकण्ठाः । गोगडाः । वेदेन्ब्राह्मणमत्रैच' (६-२-१३० ) इति नियमात वेदिध्येत्रोरेव विषये प्रत्ययस्य लुप् । वेद इति किम् । चरकेण प्रोक्त्ताश्चारकाः श्लोकाः । चरको वैशम्पायनः । कठादयः प्रयोगगम्याः ॥ १८३ ॥ तित्तिरिवरतन्तुखण्डिको
खादीयण् ॥ ६।३ । १८४ ॥ तित्तिरिवरतन्तु खण्डिक उस इत्येतेभ्यस्तेन प्रोक्तेऽर्थे इयण प्रत्ययो भवति अणोऽपवादः स चेत्सोक्तो वेदो बवाति ।। १६ तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाः । वारतन्तबीयाः । खाण्डिकीयाः । औखीयाः । वेदे इत्येव । तित्तिरिणा मोक्तास्तैत्तिराः श्लोकाः । अत्रापि
'वेदेन्बाह्मणमत्रैव' (६-२-१३० ) इत्युपतिष्ठते ॥ १८४ ॥ छगलिनो णेयिन् ॥ ६।३। १८५ ॥ छगलिन्शब्दात्तेन प्रोक्त वेदे णेयिन् प्रत्ययो भवति । | उत्तरसूने हात्तो स्य इत्यत्र ' सयोगादिन ' इति निषेध' स्यात् ॥-वाह-॥-अणादेरिति । आदिशब्दादीयम्ययो. । ईये रासभ इति ज्ये औष्ट्रपतमिति दृष्टम्वमिति १३
॥-वाह्य-यदि पूर्वेण सह एकयोग कुर्यात्तदानीं वाहनवाचिनो वाह्यपथ्युपकरणे अषेधान्यन्त्र यथाप्राप्तमेव स्यात् । पृथग्योगे तु नियमार्थम् ॥-वहे--सांवहित्रमिति । | अत्र परे इकारागमे कर्तव्ये तत्वादिशास्त्रमसत् । इकारागमे च कृते न प्राप्नोति ॥-मौदा--जाजल इति । जात जलमस्य पृषोदरादित्वात्साधु' । 'जजल-' इति | निपातनाद्वा । जजलस्यापत्यमृष्यणि जाजलः । यद्वा जजलेन प्रोक्त जाजल तदस्यास्ति छन् । जाजलेन जाजलिना वा प्रोक्तं वेद । कलापि-' इत्यन्त्यस्वरादिलोपः
wasna