________________
श्री मश०
॥ ४३ ॥
वासुरादिवर्जितादिदमर्थं वैरेऽकल् प्रत्ययो भवति । अणोऽपवादः । ईयं तु परत्वाद्वाधते । वाभ्रवशालङ्कायनानामिदं वैरम् वाभ्रवशालङ्कायनिका । काकोलूकस्येदं वैरम् काकोलूकिका | श्वावराहिका । श्वशृगालिका। अहिनकुलिका । अदेवासुरादिभ्य इति किम् । देवासुरम् | राक्षोऽसुरम् | देवासुरादयः प्रयोगगम्याः ॥ १६४ ॥ नान्दृत्ते ञ्यः॥६॥३॥१६५॥ नटशब्दात्तस्येदमित्यर्थे नृत्ते यः प्रसयो भवति । नटानामिदं नृत्यं नाव्यम् । नृत्त इति किम् । नटानामिदं गृहम् ॥ १६५ ॥ छन्दो गौक्थिकयाज्ञिकबहूवचाच धर्मान्नायसंघ । ६ । ३ । १६६ ॥ छन्दोगादिभ्यचरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ यः प्रत्ययो भवति । छन्दोगादिभ्यथरणाकञो नटादणोऽपवादः । छन्दोगानां धर्म आम्नायः संघो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । वाच्यम् । नाव्यम् । धर्मादिष्विति किम् । छन्दोगानां गृहं छान्दोगम् ॥ १६६ ॥ आथवर्णिकादणिकलुक् च ॥ ६ । ३ । १६७ ॥ आथर्वणिकशब्दात्तस्येदमित्यर्थे धर्मादावण्प्रत्यय इकलोपश्चास्य भवति । अथर्वणा प्रोक्तं वेदं देत्यधीते वा आयर्वणिकः । न्यायादित्यादिकण् । अत एव निपातनाद्णपाठसामर्थ्याद्वा प्रोक्तालुपन भवति । आथर्वणिकाना धर्म आम्नायः सघो वा आथर्वणः । चरणादकनि प्राप्ते वचनम् ॥ १६७ ॥ चरणादकन् || ६ | ३ | १६८ ॥ चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यायिषु वर्तते । चरणवाचिनस्तस्येदमित्यर्थे धर्मादावकञ् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्वाधते । कठानां धर्म आम्नायः संघो वा काठकः । चरकाणां चारकः । कलापानां कालापकः । पैप्पलादानां पैप्पलादकः । मौदानां मौदकः । आर्चाभिनामाचभकः । वाजसनेयिनां वाजसनेयकः ॥ १६८ ॥ गोत्राददण्डमाणनशिष्ये ॥ ६ । ३ । १६९ ॥ गोत्रवाचिनस्तस्येदामेत्यर्थे दण्दमाण व शिष्य वर्जितेऽकञ् प्रत्ययो भवति । अणोऽपवादः । ईयानी तु परत्वाद्वाधते । औपगवस्येदमौपगवकम् । कापटवकम् । दाक्षकम् । लाक्षकम् । गार्गकम् । गार्ग्ययणकम् । ग्लौचुकायनकम् । म्लौचुकायनकम् । अदण्डमा णव शिष्ये इति किम् । काण्व्यस्येमे काण्वा दण्डमानवाः शिष्या वा । एवं गौकक्षाः शकलादेर्यत्र: ( ६-३-२६ ) इत्यञ् । दाक्षेरिमे दाक्षाः । प्राक्षाः । माहकाः । ' वृद्धेनः ' ( ६-३-२७ ) इत्यञ् । दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्थाः । शिष्या अध्ययनार्था अन्तेवासिनः ॥ १६९ ॥ 'रैवतिकादेरीयः ॥ ६ । ३ । १७० ॥ रैवतिकादेर्गोत्रवाचिनस्तस्येदमित्यर्थे ईयः प्रत्ययो भवति । अत्रादेरपवादः । रैवतिकस्येदं । रैवतिकीयम् शकटम् । रैवतिकीयः संघादिः । रैवतिकीया दण्डमाणवशिष्याः । गौरिग्रीवीयं शकटम् । गौरग्रीवीयः संवादिः । गौरग्रीवीया दण्डपाणवशिष्याः । रैवतिक गौरग्रीवि स्वापिशिष्य क्षैमधृति औदमेघि औदवाहि वैजवापि । इति रैवतिकादिः ॥ १७० ॥ कौपिञ्जलहास्तिपदादण् || ६ | ३ | १७१ || आभ्यां गोत्रवाचिभ्यां तस्येदमित्यर्थेऽण् प्रत्ययो भवति । अकञादेरपवादः । कुपिञ्जलस्यापत्यं कौपिञ्जलः । हस्तिपादस्यापत्यं हास्तिपदः । अतो निपातनादेवाणु पादस्य च पद्भावः । तयोरिदं कौपिञ्जलं शकटम् । ॥—-आथ–॥ आवर्वणिकादणू लुक् चेति क्रियता किमिकोपादानेन । यतोऽणो विधानसामर्थ्याल्लुक् न भविष्यति । ततश्च प्रत्ययाप्रत्ययोरिति न्यायात् इकस्यैव लोपो भविष्यति न च वाच्यमुभयोरपि प्राप्नोति यदि स्यात्तदा विधानस्य न किमपि फलम् । नैवम् । विधानस्य एतदेव फलमकणभावस्तत उभयोरपि लोपनिष्ट स्यात् रूपम् । अत इकग्रहण विधातव्यम् ॥ - रैव ॥ - अकजादेरिति। आदिशब्दादणजो ॥
॥ ४३ ॥
०अ०ल०