________________
| देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तम् । अत्रापादाने पञ्चमी । हेतु, समादागतं समरूप्यस् । मगमयम् । विपमरूप्यं विषममयम् । पक्षे गहादिपाठगदीगः ।।
समीयम् । विपमीयम् । पापरूप्यम् पापमयम् । पक्षे 'दोरीयः (8-3-३१) पापीयम् । अत्र हेतौ पञ्चमी । टकारो उयर्थः । जिनदत्तमयी । सममयी । बहुवचनं स्वरूपव्युदासार्थम् ॥१५६॥ प्रभवति ॥६।२।१५७॥ तत इति वर्तते तत इति पञ्चम्यन्तात्मभवति प्रथम प्रकाशमानेऽर्थे यथाविहितं प्रत्यया भवन्ति । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमाने इत्याहुः । 'जाते।। ६-३-९७) इति भूते सप्तम्यन्तात्प्रत्ययः अयं तु पञ्चम्यन्ताद्वर्तमाने इति विशेषः । हिमवतः प्रभवति हैमवती गङ्गा ।। दारदी सिन्धुः । काश्मीरी वितस्ता । कश्मीरशब्दात 'बहुविषयेभ्यः (६-३-४४) इति अकजोऽपवाद: कच्छायण ॥ १५७ ॥ वैडूर्यः ।।६।३।१५८॥विडूरशब्दात्पञ्चम्यन्तामभवत्यर्थेञ्चः गत्ययो निपात्यताविडूरामभवति वैडूर्यो मणिः विहूरग्रामे ये संस्क्रियमाणो पणितया ततः प्रथमं प्रभातिवालवायात्त पर्वतादसौमभवन्नसौ न मणिः किंतु पापाणायदातु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्यज्यस्तत्संगियोगे विडूरादेशश्च निपात्यते। वालवायपर्याय एव वा विदूरशब्दः । प्रतिनियतविपयाश्च रूढय इति वैयाकरणानामेव प्रसिद्धिः यथा जित्वरीशब्दस्य वाराणस्वां वणिजामेव । वालवायशब्दात्तु ईयप्रत्ययोऽनभिधानान्न भवति ॥ १५८ ॥ त्यदादेर्मयत् ॥६।३ । १५९ ।। त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयद् प्रत्ययो भवति । तन्मयम् । तन्मयी। भवन्मयम् । भवन्मयी ॥ १५९ ॥ तस्येदम् ॥६।३।२६०॥ तस्येति षष्ठयन्तादिदमित्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । उपगोरिदमापगवम् । कापटवम् । सौनम् । माथुरम् । दैत्यम् । बाईस्पत्यम् । कालेयम् । आग्नेयम् । औत्सम् । रणम् । पौंस्नम् । गव्यम् । नादेयम् । राष्ट्रियम् । पारीमः। भानवीयः । श्यामगवीयः । पाटलिपुत्रका प्राकारः । इह त्वनभिधानान्न भवति । देवदत्तस्यानन्तरः । ग्रामस्य समीपम् । विशतेरवषष एकः । वातस्य द्वौ । सहस्रस्य पञ्च । तस्येति पष्ठ्यर्थमात्रामिदमिति षष्ठ्यर्थसंबन्धिमात्रं च विवक्षितम् । यदन्यल्लिङ्गसंख्याप्रत्यक्षपरोक्षत्वादिकं तदविवक्षितम् ॥ १६० ॥ हलसीरादिकम् ॥ ६।३ । १६१ ॥ आभ्यां षष्ठ्यन्ताभ्यामिदमियर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । हालिकम् । सैरिकन् ॥ १६१ ॥ समिध आधाने टेन्यण ॥६।३।१६२ ॥ आधीयते येन समितदाधानम् । समिध् इत्येतस्मातस्येदमित्यर्थे टेन्यण् प्रत्ययो भवति तचेदिदमाधानं भवति । अणोऽपवादः । कारो ड्यर्थः। समिधामाधानो मन्त्रः साभिधेन्यो मत्रः। सामिधेनी ऋक् । सामिधेनीरवाह । पञ्चदश सामिधेन्यः॥ १६२ ॥ विवाहे बन्दादकल् ॥६३१६३॥ द्वन्द्वात्तस्येदमित्यर्थे विवाहेऽभिधेयेऽकल् प्रत्ययो भवति । अणोऽपवादः । अत्रिभरद्वाजानां विवाहोऽत्रिभरद्वाजिका। वशिष्ठकश्यपिका । भृग्वहिरसिका। कुत्सकुशिकिका । गर्गभार्गविका । कुरुवृष्णिका। कुरुकाशिका | लकारः स्त्रीत्वार्थः ॥ १६३ ॥ अदेवासुरादिभ्यो वैरे॥६।३।१६४॥ द्वन्द्वात्षष्ठ्यन्तादे-समादागतमिति । गदा समत्वमृण तदा ऋणाद्धेतोः' इति पञ्चमी । अथ गुणवाचकस्तदा । गुणादस्त्रियां नवा ' इत्यनेन ॥-वैडू-॥-प्रतिनियतेति । यद्येव तर्हि किं | सर्वत्रापि वालवायपर्यायो विदूरशब्दः मयुज्यते इत्याशङ्क्याह--प्रसिद्धिरिति । इति वैयाकरणानामेव विडूरशब्दस्य वालवाये प्रसिद्धिर्नान्येषां यथा जित्वरीशब्देन वणिज एव वाणारसी ग्यवहरन्ति