________________
परिसर उपसीर अनुसीर उपस्थूण उपस्थूल उपकलाप उपकपाल अनुपथ अनुगङ्ग अनुतिल अनुसीत ( अनुशीत ) अनुमाप अनुयव अनुयूप अनुवंश अनुपद । इति परिमुखादिः | अनुवंशाद्दिगादित्वाद्योऽपि । अनुवंश्यः ॥ १३६ ॥ अन्तःपूर्वादिकण् ॥ ६ ॥ ३ ॥ १३७ ॥ अन्तःशब्द पूर्वपदादव्ययीभावात्तत्र
haat | अणोऽपवादः । अगारस्यान्तः अन्तरगारम् । तत्र भव आन्तरगरिकः । आन्तर्गेहिकः । आन्तर्वेश्मिकः । आन्तपुरिकः । अव्ययीभावादित्येव । अन्तर्गतमगारस्य अन्तःस्थं वागारमन्तरगारम् तत्र भवमान्तरगारम् । आन्तः पुरम् । आन्तःकरणम् ॥ १३७ ॥ पर्यनोर्ग्रामात् || ६ | ३|१३८ । परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भवे इकण् प्रत्ययो भवति । अणोऽपवादः । ग्रामात्परि परिग्रामम् । ग्रामस्य समीपमनुग्रामम् । तत्र भवः पारिग्रामिकः । आनुग्रामिकः । अव्ययीभावादित्येव । परिगतो ग्रामः परिग्रामस्तत्र भवः पारिग्रामः । आनुग्रामः ॥ १३८ ॥ उपाज्जानुनी विकर्णात् | प्रायेण || ६ | ३ | १३९ ॥ उप इत्येतस्मात्परे ये जानुनी विकर्णशब्दास्तदन्तादव्ययीभावादिकण प्रत्ययो भवति प्रायेण तत्र भवेयस्तत्र वाहुल्येन भवति अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः । जानुनः समीपमुपजानु । प्रायेणोपजानु भवति औपजानुकः सेवकः । औपजानुकं शाटकम् । औपनीविकं ग्रीवादाम । औपनीविकं कार्षापणम् । औपकर्णिकः सूचकः । प्रायेणेति किम् । नित्यं भवे माभूत् । औपजानवं मांसम् । औषजानवं गड । जानुशब्दो देहावयवो नोपजानुशब्द इति यो न भवति || १३९ ॥ रुढावन्तः पुरादिकः || ६ | ३ | १४० ॥ अन्तःपुरशब्दात्तत्र भवे इकः प्रत्ययो भवति रूढौ स चेदन्तः पुरशब्दः कचिद्रढो भवति । क चायं रूढः एकपुरुषपरिग्रहे खीसमुदाये | उपचारात्तन्निवासेऽपि । अन्तःपुरे भवा अन्तःपुरिका स्त्री । रूढाविति किम् । पुरस्यान्तर्गतम् : अन्तःपुरम्
रङ्गुलो नख इति । तत्र भवः आन्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण् भवति । अन्तःपुरिक इति ॥ १४० ॥ कर्णललाटात्कल ॥ ६ । ३ । १४१ रूढाविति वर्तते । सेह रूढिः प्रकृतिप्रत्यय समुदायस्य विशेषणम् । कर्णललाटशब्दाभ्यां तत्र भवे कल भवति रूढी प्रकृतिप्रत्ययसमुदाय चेत्कचिद्रदो भवति । कर्णिका कर्णाभरणविशेषः पद्माद्यवयवथ । ललाटिका ललाटमण्डनम् । रूढावित्येव । कर्णे भवं कर्ण्यम् । ललाट्यम् । लकारः स्त्रीत्वार्थः ॥ १४१ ॥ तस्य व्याख्याने च ग्रन्धात् || ६ | ३ | १४२ ॥ ग्रन्थः शब्दसंदर्भः । स व्याख्यायतेऽवयवशः कथ्यते येन तव्याख्यानम् । तस्येति पष्ठ्यन्ताव्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच भवे ऽर्थे ग्रन्थ वाचिनो यथाविहितं प्रत्ययो भवति। चकारस्तत्र भव इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति। कृतां व्याख्यानं 'जि' इति किति रे सिरा - परिसीरेति । सिनोते ' बिजि-' इति दीर्घग्वे च सीरा ॥ अन्त ॥ अन्तर्वेश्मिक इति । वेश्मनोऽन्त नपुसकावा' अत् । अन्तर्वेद अन्तर्वेश्म 'सप्तम्या या ' अम् अंतर्वेश्म वा भव ॥ रूढा ॥ अन्तःपुरमिति । पुरस्य शरीरस्य अन्तर्गत चित्तस्थ गृहस्य वाऽन्तर्गतम् ॥ अव्ययीभावादिति । रुडाविति वचनात् अप्ययीभावादिति नियुक्तम् । अव्ययीभाव रूटेरसभवात् । अन्तःपुरमिति न राज्ञोऽन्त पुरमिति राज्ञ स्त्रीवर्ग उच्यते नासावव्ययीभावार्थो भवति । अव्ययीभावो हि पूर्वपदार्थप्रधानोन्तरप्रधान इति पूर्वेणेकणेन भवतीति ॥ कर्णललाया ॥ पद्माद्यवयवञ्चेति । कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्र पद्माद्यवयवस्य कर्णे अभावात् ॥ --तस्य - ॥