________________
प०अ०ल.
श्रीहेमश० अशब्द इति किम् । कवर्गीयः ॥ १२९ ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण ॥ ६॥३॥ १३० ॥ एभ्यः सप्तम्यन्तेभ्यो भवेऽर्थे एयण प्रत्ययो भवति । ॥४०॥ अणादीनामपवादः । दतौ चर्मखल्वायां भवं दाये जलम् । कुक्षौ देहांशे भवः कौशेयो व्याधिः । देशार्थादपि भवे परत्वात् अयमेव न धुमायकम् । असा
वप्ययमेव न कुलकुक्ष्यायेयकम् । असि कौक्षेयमुद्यम्य । कलश्यां मन्थन्यां भवं कालशेयं तक्रम् । वस्तौ पुरीपनिर्गमरन्ध्रे भवं वास्तेयं पुरीपम् । अहौ भवमाहेयं विषम् ॥ १३० ॥ आस्तेयम् ॥ ६।३ । १३१ ॥ अस्तिशब्दाचिवन्तप्रतिरूपकाव्ययानविद्यमानपर्यायात्तत्र भवे एयण प्रत्ययो निपात्यते असृजशब्दस्य वास्त्यादेशश्च । धने वा विद्यमाने वा असृजि वा भवमास्तेयम् ॥ १३१ ॥ ग्रीवातोश् च ॥६॥३३१३२॥ ग्रीवाशब्दावेऽर्थेऽण् चकारादेयण च प्रत्ययौ भवतः । देहाशयापवादः । ग्रीवायां ग्रीवासु वा भवं चैवं ग्रैवेयम् । ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वादहुवचनम् ॥१३२॥चतुर्मासान्नाम्नि॥६३॥१३३॥ चतुर्मासशब्दात्तत्र भवेऽण् प्रत्ययो भवति नाम्नि समुदायश्चेन्नाम भवति । चतुषु मासेषु भवा चातुर्मासी आषाढी कार्तिकी फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् 'द्वियोरनपत्ये'-(६-१-२४) इत्यादिना प्रत्ययस्य लुब् न भवति । नाम्नीति किम् । चतुर्पु मासेषु भवश्चतुर्मासः। अत्र 'वर्षाकालेभ्यः । (१-३-७९) इतीकण् । तस्य लुप् ॥ १३३ ॥ यज्ञे ञ्यः ॥६।३ । १३४ ॥ चतुर्मासशब्दात्तत्र भवे यज्ञे ञ्यः प्रत्ययो भवति । चतुर्पु मासेषु भवानि चातु
मास्यानि यज्ञकर्माणि ॥ १३४ ॥ गम्भीरपञ्चजनबहिर्दैवात् ॥६।३। १३५ ॥ गम्भीरपञ्चजनवहिदैव इत्येतेभ्यस्तत्र भवे न्यः प्रत्ययो भवति । अणाद्य२ पवादः । गम्भीरे भवो गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाञ्चजनः । द्विगौ त्वणो लुपि पश्चजनः । बाहीकः । दैवः । भवेऽपि
चाहीक इत्येके ॥ १३५ ॥ परिमुखादेरव्ययीभावात् ॥ ६।३ । १३६ ॥ परिमुख इत्येवमादिभ्योऽव्ययीभावेभ्यस्तत्र भवे ज्यः प्रत्ययो भवति । अणोऽपवादः । परितः सर्वतो मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परिः । मुखात् परि परिमुखम् । 'पर्यपाङ्'-(३-१-३२) इत्यादिनाव्ययीभावः । परिमुखे भवः पारिमुख्यः । पारिहनव्यः । पार्योष्ठ्यः। परिमुखादेरिति किम् । औपकूलम् । औपमूलम् । औपशाखम् । औपकुम्भम् । औपखलम्। आनुकुम्भम्।आनुकूलम्।आनुखलम्।अव्ययीभावादिति किम् । परिग्लानो मुखाय परिमुखः तत्र भवो पारिमुखः । परिमुख परिहनु पर्योष्ठ पर्युलखल परिरथ परिसिर ॥-दृति-॥-अयमेवेतिभिवादन्यत्र जातादावर्थे तस्य चरितार्थत्वात्॥-असावपीतिख पीत्यर्थ -॥-कलश्यामिति।कल्यते स्म के कलितः।कलितं क्षिप्त परिच्छिन्नमाते व्यामोतीति कर्मणोणि कलिताशी । पृषोदरादिस्यात्कलशिरित्यादेश ॥-ग्रीवा-1-वमिति। ग्रीवेश्योण्च' इति पाणीनीयसूत्रे बहुवचनेन ज्ञापितत्वात् ग्रीवासु भवमिति बहुत्वे एव प्रत्ययो न ग्रीवाया भव इत्येकत्वे ॥-गम्भी-1-द्विगौ त्वणो लुपीतिायदा पञ्चजनशब्द पातालवाचकः रथकारपञ्चमस्य चातुवर्णस्य घा इति व्याख्या तदा न द्विगु असज्ञाया तस्य विधानातायदा तु पञ्चसु जनेषु भवस्तदा द्विगोव अस्य विधानसामर्थ्यान्न लुप्॥-1 परि-1-अत एव वचनादिति । न तु 'पपाडू-' इत्यादिना पञ्चम्यन्तेन सह रोम विधानात् परेवान्न वर्जनार्थाभावात् । पर्यपाभ्याम्-' इति पञ्चम्यभाव, ॥-परिसिरोत । सिनोते
॥४०॥