________________
नैशो वा शुगालः । मादोपिकः पादोपो यो शूगाळः । मृग इति किम् । वसन्ते व्याहरति कोकिलः॥ १२१ ॥ *जयिनि च ॥६ । ३ । ११२ ॥ जयः असहनमभ्यासः । सोऽस्याप्तीति जयी । तत्रोत सप्तम्यन्तात्कालवाचिनो जयिनि वाच्ये यथाविहितं प्रत्ययो भवति । निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासः नैशिकः नैशः । प्रादोषिकः । प्रादोपः । वासन्तः । वार्षिकः । केवलकालविषयस्य जयस्यायोगानिशादिसहचरिताध्ययनादिवृत्तयो निशादयः शब्दाः प्रत्ययसुत्पादयन्ति । चकारः कालादित्यनुकणार्थः तेन चानुकृष्टत्वानोत्तरत्रानुवर्तते ॥ १२२ ॥ भवे ॥ ६।३ । १२३ ॥ तत्रेत्यनुवर्तते । तत्रेति | सप्तम्यन्ताद्भवे थे यथाविहितमणादय एवणादयश्च प्रत्यया भवन्ति । सचा भवत्यर्थो गृह्यते न जन्म जात इत्यनेन गतार्थत्वात् । सुघ्ने भवः सौनः । माथुरः। औत्सः। नादेयः। राष्ट्रियः । पारावारीणः । ग्राम्यः । ग्रामीणः॥१२३|| दिगादिदेहाशाद्यः ॥६।३ । १२४ ॥ दिगादिभ्यो देहावयववाचिनश्च सप्तम्यन्तावेज या प्रत्ययो भवति । अणीयादेरपवादः।दिशि भवो दिश्यः। वयः । अप्सु भवोऽप्सव्यः । 'अपो ययोनिमतिचरे' (३-२-२८) इति सप्तम्यलुप् । देहांश, मूर्धन्यः । " अनोट्येये " (७-४-५१) इत्यनो लोपाभावः । दन्त्यः । कर्ण्यः । ओष्ठयः । पाण्यः । पद्यः । तालव्यः । मुख्यः । जघन्यः। देहांशात्तदन्तादपीच्छन्त्येके । कण्ठतालव्यः । दन्तोष्ठयः । दिश् वर्ग पूग गण युथ पक्ष धाय्या मित्र धाय्यमित्र मेधा न्याय अन्तर पथिन् रहस् अलीक उख उखा साक्षिन् आदि अन्त मुख जधन मेघ वंश अनुवंश देश काल वेश आकाश अप् । इति दिगादिः ॥ मुखजघनवंशानुवंशानाम् +अदेहाशार्थः पाठः । सेनाया यन्मुखं तत्र भवो मुख्यः । सेनाया यज्जघनं तत्र भवो जघन्यः । वंशोऽन्वयस्तत्र भवो वंश्यः । एवमनुवंश्यः ॥ १२४ ॥ नाम्न्युदकात् ॥६।३।१२५॥ उदकशब्दात्सप्तम्यन्ताद्भवेऽथें यः प्रत्ययो भवति नाम्नि । उदक्या रजस्वला । नानीति किम् । औदको मत्स्यः॥ १२५ ॥ मध्यादिनण्णेया मोऽन्तश्च॥ ६ ।३ । १२६ ॥ मध्यशब्दात्सप्तम्यन्ताद्भवेऽथे दिनण् ण ईय इत्येते प्रत्यया भवन्ति तत्संनियोगे च मागमो भवति । मध्ये भवा माध्यंदिना उद्गायन्ति । माध्यमः। मध्यमीयः । अन्ये तु दिनं णितं नेच्छन्ति । मध्यांदनः ॥ १२६॥ जिह्वामूलाङ्गुलेश्चयः ॥६।३ । १२७ ॥ जिह्वामूल अङ्गुलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययो भवति । यापदादः । जिह्वामूले भवो जिहामूलीयः । अङ्गुलीयः । मध्यीयः । चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् ॥१२७॥ वर्गान्तात् ॥६।३ । १२८ ॥ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । कवर्गीयः । पवर्गीयो वर्णः ॥ १२८ ॥ ईनयौ चाऽशब्दे ॥६।३ । १२९ ॥ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईनय इत्येतो चकारादीयश्च प्रत्यया भवन्ति अशब्दे न चेत्स भवार्थः शब्दो भवति । भरतवर्गीणः । भरतवर्यः। भरतवर्गीयः । बाहुबलिवर्गीणः । बाहुबलिवर्यः । बाहुबलिवर्गीयः । युष्मद्वणिः । युष्मदर्ग्यः । युष्मद्वर्गीयः । अस्मद्वर्गीणः । अस्मद्वर्यः । अस्मद्वर्गीयः । ॥-जयि-॥-जयस्यायोगादिति । जयो हि क्रिया सा च केवलस्य न संभवतीत्यर्थः ॥-दिगा-।-अदेहाशार्थ इति । देहांशार्थत्वे तु अनुवशस्य मताभिप्रायेण यस्य सिद्धि. स्वमते तदन्तविधिनिरासात् ॥-नाम्न्यु-॥-उद्द्येति । उके भवा नैमितिक आधार. ॥-जिह्वा-|-यापवाद् इति । दिगादि-' इति प्राप्तस्य