________________
श्रीहेमन १सप्तम्यन्तात्कालविशेषवाचिनो देयेऽर्थे यथाविहित प्रत्ययो भवति यत्तदेयमृणं चेत्तद्भवति । नाम्नीति निवृत्तम् । मासे देयमृणं मासिकम् । आर्धमासिकम् । १५०अ०ला
सांवत्सरिकमृणम् । मासादिक गते देयमित्यर्थः । ऋण इति किम् । मासे देया भिक्षा । स्वातौ देयं स्वस्तिवाचनम् ॥११३॥ कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः ॥६।३ । ११४ ॥ कलापिन् अश्वत्य यवबुस उमाव्यास ऐपमम् इत्येतेभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देय ऋणेऽका प्रत्ययो भवति । भइकणादेरपवादः । यस्मिन्काले मयूराः केदाराः इक्षवः कलापिनो भवन्ति स कालस्तत्साहचर्याकलापी तत्र देयमृणं कलापकम्। यस्मिन्कालेऽश्वत्थाः फलन्ति स कालोऽश्वत्यफलसहचरितोऽश्वत्यः तत्र देयमृणमश्वत्थकम् । यस्मिन्काले यवानां सं भवति स कालो यवबुसम् तत्र देयमृणं यवसकम् । उमा व्यस्यन्ते विक्षिप्यन्ते यस्मिन्स काल उमाव्यासस्वत्र देयमृणमुमान्यासकम् । ऐषमोऽस्मिन्संवत्सरे देयमृणमैपमकम् ॥ ११४ ॥ ग्रीष्माघरसमादकम् ॥ ६।३।११५ ॥ ग्रीष्म अवरसमा इत्येताभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकन् प्रत्ययो भवति । अणिकणोरपवादः । अकारो वृद्ध्यर्थः । ग्रीष्मे देयमृगं श्रेष्मकम् । अवरा समा अवरसमा समाया अवरवमित्यवरसमं वा । तत्रावरसमकम् । अपरसमादपीच्छन्त्येके । आपरसमकम् ॥ १२५ ॥ संवत्सराग्रहायण्या इकण च ॥६।३।११६ ॥ संवत्सर आग्रहायणी इत्येताभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण चकारादकञ्च प्रत्ययौ भवतः । अणिकणोरपवादः। संवत्सराद्धि फले पर्वणि च ऋणेण पापोति । संवत्सरे देयमृणं फलं पर्व वा सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् ।आग्रहायणकम् । वैत्यकृत्वा इकण वेति विधानं 'संवत्सरात्फलपर्वणोः । (६-३-८९) इत्यण्वाधनार्थम् ॥ ११६ ॥ साधुपुष्यत्पच्यमाने ॥६।३ । ११७ ॥ कालादिति वर्तते । तत्रेति सप्तम्यन्तात्कालविशेषवाचिनः साधौ पुष्यति पच्यमाने चाथै ययाविहितं प्रत्यया भवन्ति । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तं हैमन्तिकम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलता।। श्रेष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । शैशिरा मुद्गाः ॥ ११७ ॥ उप्ते ॥ ६ । ३ । ११८ ॥ तत्रति सप्तम्यन्तात्कालवाचिन उत्तेऽयं यथाविहितं प्रत्ययो भवति । शरघुप्ताः शारदा यवाः । हेमन्ते हैमनाः । ग्रेष्माः। नैदाघाः । योगविभाग उत्तरार्थः ॥ १८ ॥ *आश्वयुज्या अकम् ॥ ६॥ ३ ॥ ११९ ॥ आश्वयुजीशब्दात्सप्तम्यन्तादुतेऽथै कञ् प्रययो भवति । इकगोऽपवादः ।अश्विनीभिश्चन्द्रयुक्ताभियुक्ता या पौर्णमासी । सा आश्वयुजी । अश्विनीपोयोऽश्वयुक्शब्दः । आश्वयुज्यां कौमुद्यामुप्ता आश्वयुजका मापाः ॥ ११९ ॥ ग्रीष्मवसन्तादा॥ ६ । ३ । १२० ॥ आभ्यां | सप्तम्यन्ताभ्यामुप्तेऽर्थे कञ् प्रत्ययो भवति वा । प्रत्वणोऽपवादः । श्रेष्मकं गेष्मम् सस्पम् । वासन्तकं वासन्तं सस्यम् ॥ १२० ॥ व्याहरति मृगे ॥६।३।। | १२१॥ तत्रेति वर्तते कालादिति च । तत्रेति सप्तम्यन्तात्कालवाचिनो व्याहरत्यर्थे यथाविहितं प्रत्ययो भवति व्याहरंभेन्मृगो भवति । निशायां व्याहरति नैशिको | -कला-॥-इकणादेरिति । आदिशब्दात् ' ऐपमोगा.श्वसो या ' इति त्यच्तनटौ ॥-ऐपम शति । सामान्यविशेषभायेन भूयः सप्तमी । एके तु विशेषाभाव मन्याना. सप्तम्यादपि प्रत्यय इति भ म्याघण्युः ॥-संव-||-त्यक्त्वेति । नन्वाग्रहायपया घेरयपि कूते साध्यसिधिभविष्यतीत्याशङ्का॥-आश्च-॥-आश्वयुज्यामिति । अत एष मिशात् 'चन्नयुक्तात-' इति न लुप
R
॥३९॥