________________
1
| जातः श्रविष्ठीयः । श्रविष्ठः । एवम् अषाढा यामपाढयोरपाढासु वा जातः आषाढीयः अपाढः । अणमपीच्छन्त्येके । श्राविष्ठः | आषाढः ॥ १०५ ॥ फल्गुन्याष्टः || ६ | ३ | १०६ ॥ फल्गुनीशब्दात्सप्तम्यन्ताज्जातेऽर्थे टः प्रत्ययो भवति नानि । भाणोsवादः । फल्गुन्योजीतः फल्गुनः । फल्गुनी श्री । अणमपीच्छन्त्येके | फाल्गुनः। टकारो उत्पर्थः ॥ १०६ ॥ बहुलानुराधापुष्यार्थ पुनर्वसुहस्त विशाखास्वातेर्लुप् ॥ ६ ॥ ३ ॥ १०७ ॥ बहुलादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे लुप् भवति नानि । बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलाः तासु जातो बहुल: । अत्राणो लुपि ' उत्पादेगणस्य ' ( २-४-९४ ) इत्यादिनापोऽपि लुप् । एवमनुराधासु अनुराधः । ' घञ्युपसर्गस्य बहुलम् ' ( ३-२-८६ ) इति दीर्घत्वे अनुराधाः । ताम्र अनूराधः । पुष्यार्थ, पुष्ये पुष्यः । तिष्यः । सिध्यः । पुनर्वसौ पुनर्वसुः हस्ते हस्तः विशाखायां विशाखः स्वातौ स्वातिः ॥ १०७॥ चित्रारेवतीरोहिण्याः स्त्रियाम् || ६ | ३ | १०८ || चित्रादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणी जातेऽर्थे स्त्रियां लुप् भवति नानि । चित्रायां जाता चित्रा माणविका । रेवत्यां रेवती । रोहिण्यां रोहिणी स्त्रियामिति किम् चैत्रः रैवतः रौहिणः पुंस्येषां विकल्प इत्येके । तन्मते चित्रः रेवतः रोहिण इसपि भवति ॥ १०८ ॥ बहुलमन्येभ्यः॥ ६ ॥ ३ ॥ १०९ ॥ श्रविष्ठादिभ्यो येन्ये नक्षत्रशब्दास्तेभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे बहुलं लुप् भवति नाम्नि | अभिजित जातोऽभिजित् । अभिजितः । अश्वयुजि जातः अश्वयुक् | आश्वयुजः। शतभिषजि शतभिषक् शातभिषजः । शातभिषः । ' वा जाते द्वि: ' ( ६-२-१३७ ) इति विकल्पेनाणो हिस्वादन्त्यस्वरादिलोपः कृत्तिका कृत्तिकः । कार्तिकः । मृगशिरसि मृगशिराः मार्गशीर्षः । एषु वा लोपः । कचिन्नित्यम् । अश्विनीषु जातः अश्विनः । अश्विनी । राधः । राधा । श्रवणः । श्रवणा । उत्तरः । उत्तरा । कचिन्न भवति । मघासु माघः । अश्वत्थे आश्वत्थः । प्रोष्ठपदासु प्रोष्ठपादः । भद्रपादः । 'मोष्ठभद्राज्जाते' ( ७-४ -१३ ) इत्युचरपदवृद्धिः ॥ १०९ ॥ स्थानान्तगोशालखरशालात् ।। ६ । ३ । ११० ।। स्थानशब्दान्तानाम्नो गोशालखरशाल इत्येताभ्यां च सप्तम्यन्ताभ्यां परस्य जातेऽर्थे प्रत्ययस्य लुभवति नानि । गोस्थाने जातो गोस्थानः । अश्वस्थानः । गोशाले गोशालः । खरशाले खरशालः । लिङ्गविशिष्टस्यापि ग्रहणाद्गोस्थान्यां गोस्थानः । गोशालायां गौशालः । खरशालायां खरशालः । ' ङयादेगणस्य ' ( २ - ४ - ९४ ) इसादिना स्त्रीप्रत्ययस्यापि लुक् ॥ ११० ॥ वत्सशालाया ॥ ६ ॥ ३ । १११ ॥ वत्सश।लशब्दात्सप्तम्यन्तात्परस्य जातेऽर्थे प्रत्ययस्य वा लुप् भवति नानि । वत्सशालः । वात्मशीलः ॥ १११ ॥ सोदर्यसमानोदयौ ॥ ६ ॥ ३ श ११२ ॥ सोट्रर्यसमानोदर्यशब्दौ जातेऽर्थं यमत्ययान्तौ निपात्येते । समामोदरे जातः सोदर्यः । समानोदर्यः । निपातनात्पक्षे समानस्य सभावः । तत एव च जातार्थमात्रत्वेऽपि भ्रातृष्वेवाभिधानम् न कृमिमलादिषु । नानीत्यधिकाराद्वा ॥ ११२ ॥ कालादेये ऋणे ।। ६ । ३ । ११३ ॥ तत्रेति वर्तते । तत्रेति | ॥ अषाढायामिति । अपाडा नक्षत्र मेकद्विवितारकं व मन्यन्ते ॥ बहु - ॥ पुनर्धसाविति अत्र प्रागेव एकैव तारा विवक्षितेति पुष्यार्थात् सिद्धं हि श्रायम् ॥ स्थाना- ॥ गोशाले इति । अत्र तत्पुरुषे कृते परवल्लिङ्गतायां प्राप्तायां ' सेनाशाला-' इति पक्षे नपुसकत्वातु हस्वरवे गोशाले जात इत्यादिविग्रह ॥ इसि सूत्रं विनापि
।