________________
श्रीमिश ॥४१॥
कुत्सु भवं वा कार्नम् । प्रातिपदिकीयम् । ननु च तस्य व्याख्यानेऽर्थे ' तस्येदम् (६-३-१५९) इत्यनेनैव प्रत्ययविधिः सिद्धः चकारानुकृष्टेऽपि तत्र भवेऽर्थे । प०अ०ल. पूर्वमेव प्रत्ययविधिरुक्तस्तकिमनयोर्युगपदुपादानम् । उच्यते । वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यात् इत्येवमर्थम् । उत्तरेणकयोगत्वे चाबुकृष्टत्वाचत्र भव इत्यस्य ततः परं नानुवृत्तिः स्यात् । योगविभागे विहानुवृत्तिरनथिंकेति द्वयोरुत्तरत्रानुत्तिर्भवति। उदाहरणोपन्यासस्तु अनुवादमात्रम् । ग्रन्थादिति किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रमेवसनिवेशमिति सुकोसलया प्रतिच्छन्दकभूतया व्याख्यायते न तु पाटलिपुत्रं ग्रन्थ इत्युत्तरेणापवादिक *इकण् न भवति ।। १४२ ॥ पायो यहुस्वरादिकम् ॥६।३ । १४३॥ बहुखराद्ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययो भवति । अणादेरपवादः । पत्वणत्वयोाख्यानं तत्र भवं वा पावणत्विकम् । एवं नातानतिकम् । उदात्तानुदात्तयोः स्वरयोरेते नवानतसंज्ञे । आत्मनेपदपरस्मैपदिकम् । आव्ययीभावतत्पुरुपिकम् । नामाख्यातिकम् । आख्यातिकम् । ब्राह्मणिकम् । प्राथमिकम् | आध्वरितम् । पौरश्वरणिकम् । मायोवचनात्कचित्र भवाते । सांहितम् । प्रातिपदिकीयम् ॥ १४३ ॥ ऋगृद्धिखरयागेभ्यः ॥६।३।१४४ ॥ ऋच् इत्येतस्मात् ऋकारान्तात् द्विखरात् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण प्रसयो भवति । अगादेरपवादः । ऋचां व्याख्यानमक्ष भवं वा आर्चिकम् । नकारान्त, चतुर्पु होतषु भव इत्यणो लुपि चतुहोता ग्रन्थः । तस्य व्याख्यानं तत्र भवं वा चातुहोतकम् । एवं पाश्चहोतकम् । द्विस्वर, आशिकम् । पौधिकम् । सौत्रिकम् । तार्किकम् । नामिकम् । याग, आग्निष्टोमिकम् । राजयिकम् । वाजपेयिकम् । पाकयज्ञिकम् | नावयज्ञिकम् । पाञ्चौदानकम् । दाशौदनिकम् । ऋयागग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामनिष्टोमादीनाम् असोमकानां पश्चौदनादीनां च परिग्रहार्थम् ॥ १४४ ॥ ऋषेरध्याये ॥६।३। १४५ ॥ ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्याये इकण् प्रत्ययो भवति । बसिष्ठस्य ग्रन्थस्य व्याख्यानस्तत्र भयो वा वासिष्टिकोऽध्यायः । वैश्वामिधिकोऽध्यायः । अध्याय इति किम् । वसिष्ठस्य व्याख्यानी तत्र भवा वा वासिष्ठी ऋक् । 'प्रायो बहुस्वरात' (६-३-४२) इति पायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् माप्तिकल्पनायामध्याय एवेति नियमार्थं वचनम्। -उदाहरणोपन्यास इति।ननु कथमनर्थकत्व भवानुवर्तनस्य यदि हि भव इति नानुवर्तते तदा प्रातिपदिकीयम् इत्यतापवादभूत इकण प्राप्नोतिानातत्र प्रायोग्रहणादेव न भविष्यति तर्हि किमर्थ तदुदाहरण दश्यते इत्याह-अनुवादमात्रम् ॥-व्याख्यानीति । व्याण्यायते अनया वाच्यलिद्ग ॥-कण न भवतीति । कितु ' रोपान्यात् ' इत्यकञ् ॥-प्रायो-1-जातानतिकमिति । नतोऽ. नुदात्त अनतस्तूदात्तोऽल्यस्वरल्यानतस्य पूर्वनिपात ॥-पौरवरणिकमिति । पुरो विपाककालादर्चाक चर्यते पुरश्चरण 'भुजिपत्यादिभ्य' प्रायश्चित्त । तत्प्रतिपादको मन्थोऽपि॥-घडगृद्-॥-नावयशेिकमित्यादि । नयसु यशेषु पजसु दशसु ओदनेषु भव' अणू तस्य द्विगो-' इति लुप् ॥-ऋद्यागग्राहणमिति । परदन्तानां यागवाचिना च द्विस्वराणा द्विस्वरेत्यशेन बहुवराणा तु 'प्रायो बास्यरात् ' इति सिध्यति एकस्वरास्तु न समयन्त्येव तत् किमर्थमिदमित्याह-पूर्वस्यैवेति । प्रायो यस्यरात् ' इत्यस्येत्यर्थ ॥ असोमकानामिति । अन्यथा गौणमुण्ययोरिति न्यायेन ससोमकाना मुख्यानामशिष्टोमादीनामेव ग्रहण स्यादिति ॥-ऋपे--अन्धस्येति । वसिष्ठादिसाहचर्यात् अन्धोपि तयोच्यते ॥-प्राप्तिकल्पनायामिति । प्रायोग्रहस्य यादृच्छि
18॥४१॥