________________
VAJ
शाश्वतम् । शाश्वतिकम् ॥ ८९॥ संवत्सरात्फलपर्वणोः॥६।६।९० ॥ संवत्सरवन्दात्फले पर्वणि च शेषेऽर्थेऽण् प्रत्ययो भवति । सांवत्सरं फलम् । सावत्सरं पर्व । फलपवेणोरिति किम् । सावत्सरिकं श्राद्धम् ॥ ९० ॥ हेमन्तादा तलुक च ॥६।३।९१ ॥ हेमन्तशब्दातुविशेषवाचिनः शेषेऽर्थेऽण् वा भवति तत्संनियोगे च तकारस्य लुग्वा भवति । नित्यमणि प्राप्ते विभापा । तथा च त्रैरूप्यम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । तदन्तविधिना पूर्वहैमनम् । 'अंशादतोः' [७-४-१४ ] इत्युत्तरपदवृद्धिः॥९१॥ प्रावृष एण्यः ॥६।३। ९२ ॥ माप इसेतस्मात् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति । अणोऽपवादः। प्राकृषि भवः प्रादृषेण्यः । जाते तु परत्वादिक एव । प्रारपि जातः प्राषिकः । एण्य इति प्रसये मूर्धन्यो णकारो निनिमित्तकः प्रावृषेण्ययतीति ण्यन्तात किपि पाषेण इति मूर्धन्यार्थः ॥ १२ ॥ स्थामाजिनान्तालुप् ॥ ६।३।९३ ॥ स्थामन्शब्दान्ताजिनान्ताच परस्य शैपिकस्य प्रत्ययस्य लुप् भवति । अश्वत्थायनि भवो जातो वा अश्वत्थामा । 'अः स्थान्नः[६-१-२२ ] इत्यः । तस्य लुप् । सिंहाजिने भवो जातो वा सिंहाजिनः । उलाजिनः । काजिनः । भवार्थस्यैव लुपमिच्छन्त्यन्ये तन्मते अश्वत्थाम्नोऽयं तत आगतो वा अश्वत्थामः । एवं सैंहाजिनः वार्कोजिनः इत्यादी न भवति ॥ ९३ ॥ तत्र कृतलब्धक्रीतसंभूते ॥६॥ ३।९४ ॥ अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते । तत्रेति सप्तम्यन्तात् कृते लब्धे क्रीते संभूते चार्थे यथायोगमणादय एपणादयश्च प्रत्यया भवन्ति । यदन्येनोत्पादितं तत्कृतम् । यत्सतिग्रहादिना प्राप्त तल्लब्धम् । यन्मूल्यन स्वीकृतम् तत् क्रीतम् । यत्संभाव्यते *समाति वा तत्संभूतम् । सुग्ने कृतो लब्धः क्रीतः संभूतो वा स्रौनः । एवं माथुरः । अत्राण । औत्सः । उत्साधन । बाह्यः । बाहीकः । 'वहिपष्टीकण्च (६-१-१६ )। नादेयः नद्यादित्वादेयम् । राष्ट्रियः । 'राष्टादियः' (६-३-३ )। पारावरीणः । 'पारावारादीनः' (६-३-६) । तत्रेति किम् । देवदत्तेन क्रीतः । कृतलब्धक्रीतसंभूत इति किम् । शयने शते । आसने आस्ते ॥ ९४ ॥ कुशले ॥६।३।९५ ॥ तत्रेति सप्तम्यन्तात्कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । सने कुशलः सौन्नः । माथुरः। नादेयः । राष्ट्रियः । योगविभाग उत्तरार्थः॥ ९५ ॥ पथोऽकः ॥ ६ । ३ । ९६ ॥ तत्रति सप्तम्यन्तात्पथिन्शब्दात्कुशलेऽर्थेऽकः प्रसयो भवति । अणोऽपवादः । पथि कुशलः पथकः ॥ ९६ ॥ कोऽश्मादेः ॥ ६ । ३ । ९७ ॥ तत्रेति सप्तम्यन्तेभ्योऽश्मन इत्यादिभ्यः कुशलेऽर्थे कः । प्रत्ययो भवति । अणादेरपवादः । अश्मनि कुशलः अश्मकः । अशनिकः । आकर्षकः । अश्मादय उपचाराचद्विपयायां क्रियायां वर्तमानाः प्रसयमुत्पादयन्ति । तत्रैव कुशलार्थयोगात् । प्रत्ययान्तरकरणमिकारोकारान्तशब्दार्थम् ॥ अन्यथा तेषु अनिष्ट रूपमापद्येत । अझ्मन् अशनि आकर्ष 'वर्षाकालेभ्यः । इत्यनेन । न वाच्य प्रयोजनकणि चरितार्थः । यत. प्रयोजनार्थे इकण अस्मानेष्यत एवं ॥-प्रावृ--निर्निमित्तक इति । न तु ' रघुवर्ण-' इत्यनेन मूर्धन्यार्थ इति । अन्यथा नलोपरूपे परे कार्य णपम-' इति णत्वस्यासवादन्त्यत्वाचा ' रपृषर्ण-' इत्यप्रवृसौ ' नानो नोनहः' इति नलोपेऽनिष्ट रूप स्यात् ॥-तत्र-॥-यत्सभाव्यते इति । उत्पत्तिशान सभावना॥-तत्र उत्पद्यतेतन घटते इत्यर्थः ॥-समाति वेति । प्रमाणामतिरेकेणावतिष्ठते॥-तत्संभूतमिति । समात्यर्थे अकर्मकत्वाच्छील्यादित्वारसति कसरि का इतरे तु अन्तभूर्तण्यर्थ स्वास्कर्मणि कः ॥-फोरम-॥-प्रत्ययान्तरकरणमिति । ननु । पयोकः' इत्यतोऽकेनैव साध्यसिद्धिर्भविष्यति किं करणेनेति ॥-अनिष्टमिति । अघणेषर्णस्य-' इति प्रसङ्गात् ॥