________________
Merence
आमुष्मिकम् । एवमामुत्रिकम् । पारत्रिकम् । इहे भवमैहिकम्।शैषिकम्।पाठसामर्थ्यात्सप्तभ्या अलुपाअध्यात्मादयः प्रयोगगम्याः ॥७८ ॥समानपूर्वलोकोत्तरपदात् ॥६॥३७॥ समानपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण प्रययो भवति । समानग्रामे कृतो भवो वासामानग्रामिकः । सामानदेशिकः । इह लोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । योगद्वयेऽपि भवार्थ एव प्रत्यय इसन्ये ॥७९॥ वर्षाकालेभ्यः॥६॥३॥८०॥वर्षाशब्दात्कालविशेषवाचिभ्यश्व शेषे थे इकण् प्रत्ययो भवति । अणपवादः दोरीयमपि परत्वाद्वाधते । वर्षासु भवो वार्षिकः । ऋतोणित् प्रत्ययस्तवयवादेवन्तादपि भवत्यभिधानात् । पूर्ववार्पिकः। अपरवार्पिकः। एवमुत्तरत्रापि । कालवाचि, मासिकः॥ आर्धमासिकः। सांवत्सरिकः। आह्निकः दैवसिकः । वर्षाग्रहणमृत्वणवाधनार्थम् । कालशब्दः काल विशेषयाची। 'भर्तुसंध्यादरण् । ( ६-३-८८ ) इत्यत्र संध्यादिग्रहणात् । स्वरूपग्रहणे हि काललक्षणेकणाधकं संध्यादिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथंचित कालवृत्तिभ्यः प्रत्ययमापणार्थ, निशासहचरितमध्ययनं निशा पदोपसहचरितं प्रदोषः तत्र जयी नैशिकः पादोषिकः । कदम्बपुष्पसहचरितः कालः कदम्बपुष्पं वीहिपलालसहचरितः कालो ब्रीहिपलालम् । तत्र देयमृणं कादम्बपुष्पिकं त्रैहिपलालिकम् । कालशब्दात्तु कालार्थादकालार्थाच कालतः, अकालादपि कालार्थात 'कालेभ्यः' इति यो विधिः ॥ ८० ॥ शरदः श्राबे कर्मणि ॥६।३। ८१॥ शरच्छन्दात्कालवाचिनः श्राद्ध कर्मणि पितृकार्ये शेषे थे इकण प्रत्ययो भवति । ऋत्वणोऽपवादः शारदिकं श्राद्धम् ।कर्मणीति किम् । शारदः श्राद्ध श्रद्धावानित्यर्थः श्राद्ध इति किम् । शारदं विरेचनम् ॥८॥नवारोगातपे
६।३ । ८२ ॥ शरच्छब्दात्कालवाचिनो रोगे आतपे च शेपेऽर्थे इकण प्रत्ययो भवति वा । त्रत्वणोऽपवादः । शारदिकः शारदो वा रोगशारदिकः शारद आ| तपः । रोगातप इति किम् । शारदं दधि ॥ ८२॥ निशाप्रदोषात् ॥ ६।३१८३॥ निशामदोपशब्दाभ्यां कालवाचिभ्यां शेषेऽर्थे ' वर्षाकालेभ्यः । ( ६-३ -७९ ) इति नित्यं प्राप्त इकण् वा भवति । नैशिक: नैशः । पादोषिकः पादोषः ॥ ८३ ॥ श्वसस्तादिः ॥६॥३॥ ८४ ॥ श्वस् इत्येतस्मात्कालवायिनः शेषे' ऽर्थे इकण् प्रत्ययो वा भवति स च तादिः । शौवस्तिकः । पक्षे 'ऐगमोणःश्वसो वा' ( ६-३-१८ ) इति त्यच् । श्वस्त्यम् । तत्रापि वाग्रहणात् पक्षे 'सायम् - इत्यत् समासान्तः ततः सप्तम्यर्थस्पोकस्यात् सिप्रत्यय । यहा स्याद्वादात् प्रकृतिभेयेन कारकभेदे सप्तम्यन्तादिकम् ॥-आमुस्मिकमिति । ननु । नोपदस्य-' इति कथमन्त्यस्वरादिलोपः 'तदन्तं पदम्' इति पदत्वास प्रायोति । न । 'माम सिन्-' इति नियमात्पदत्वाभाषः ॥-पवमामुत्रिकमिति । एवंशब्द परलोकलक्षण सादृश्यमवगमयति द्वयोः ॥-वर्षा---- पूर्ववार्षिक इति । पूर्वाध ता वर्षाश्च 'पूर्वापरप्रथम-' इति समास । पूर्वासु वर्षासु भव इति तद्धितविपये दिगधिकन्-' इत्यनेन वा । वर्षाणां पूर्वस्वमिति 'पूर्वापराध-' इत्यादिना । तत्पुरुषो वा अंशारतोः' इत्युत्तरपदवृद्धिः । विशेषविहितत्वात्परत्वाचानेन 'दिपर्वात्-' इति वाध्यते ॥-विशेषवाचीति । गृयत इति शेष । मासाद्यपेक्षया कालशब्दोपि कालविशेषवाची
तेन कालिक इत्यपि ॥-यथाकथचिदिति । यथाकथंचित् गुणवृत्या मुख्यवृत्या वा ये काले वर्तन्त इत्पर्ध. ॥-अकालादपीति । अकालशब्दश्च यदा कालमुपलक्षणीकृत्य | काले वर्तते गुणयुष्यैव तदाकालशब्दात् कालार्थात् प्रत्ययो भवति यथादर्शितान् कदम्यपुष्पादेः ॥-यो विधिरिति । कालेम इत्यशेन यो विधिः स तस्माजवतीति