________________
श्री हेमश० ॥ ३६ ॥
यौवनार्थिकः ॥ ७० ॥ दिक्पूर्वपदात्तौ । ६ । ३ । ७१ ॥ दिक्पूर्वपदादशन्दाच्छेषेऽर्थे तो य इण् इत्येतौ प्रत्ययौ भवतः । पूर्वार्ध्यम् । पौर्वाधिकम् दक्षिणार्थम् । दाक्षिणार्थिकम् । पश्चार्ध्यम् । पाञ्चाधिकम् ॥ ७१ ॥ ग्रामराष्ट्रांशादणिकणौ ॥। ६ । २ । ७२ ॥ ग्रामराष्ट्रैकदेशवाचिनो ऽर्धशब्दाद्दिपूर्वात् शेषेऽर्थेऽण् इकण् इत्येतौ प्रत्ययौ भवतः । यापवादौ । ग्रामस्य राष्ट्रस्य वा पूर्वार्धे भवः पौर्वार्धः । पौर्वाधिकः । दाक्षिणार्धः । दाक्षिणाधिकः ॥ ७२ ॥ *परावराधमोत्तमादेर्यः॥६|३|१३|| पर अवर अधम उत्तम इत्येतत्पूर्वादर्धशब्दाच्छेपेऽर्थे यः प्रत्ययो भवति । इकणोऽपवादः । परार्थ्यम्। अवरार्ध्यम्। अधमार्थ्यम् । उत्तमार्ध्यम् । परावरयो- दिक्शब्दत्वेऽपि परस्वादयमेव यः ॥ ७३ ॥ अमोन्तावोधसः || ६ । ३ । ७४ ॥ अन्त अवम् अधम् इत्येतेभ्यः शेपेऽर्थेऽमः प्रत्ययो भवति । अन्तमः । अवमः । अधमः । अकारादित्वमवोऽधसोऽन्त्यस्वरादिलोपार्थम् ॥ ७४ ॥|| पश्चादाद्यन्ताग्रादिमः || ६ | ३|७५ || पश्चात् आदि' अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चिमः । अत्राव्ययत्वादन्त्यस्वरादिलोपः । आदिमः। अन्तिमः । अग्रिमः । आद्यन्ताभ्यां भवादन्यत्रायं विधिः । भवे तु परत्वाद्दिगादिय एव ॥ ७५ ॥ मध्यान्मः || ६ | ३ | ७६ ॥ मध्यशब्दाच्छेपेऽर्थे मः प्रत्ययो भवति । मध्यमः । भवे दिनणादिर्वक्ष्यते । ततोऽन्यत्रायं विधिः ॥ ७६ ॥ *मध्य उत्कर्षापकर्षयोरः ॥ ६ । ३ । ७७ ॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानान्मध्यशब्दाच्छेपेऽर्थे अ इसयं प्रत्ययो भवति । मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः । मध्या गुणाः । मध्या स्त्री । नातिदीर्घ नातिहस्त्रं मध्यप्रमाणं मध्यं काष्ठम् । नातिस्थूलो नातिकृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवाचिन्यपि वर्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो माभूदिति वचनम् ॥ ७७ ॥ ●अध्यात्मादिभ्य इकण् ॥ ६ ॥ ३ । ७८ || अध्यात्म इत्यादिभ्यः शेषेऽर्थे इकण् प्रत्ययो भवति । अध्यात्मं भवमाध्यात्मिकम् । एवमाधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादनयोरुभयपदवृद्धिः । और्ध्वदमिकः और्ध्वदेहिकः । और्ध्वदमिकः और्ध्वदेहिकः । अत एव पाठादूर्ध्वशब्दस्य दमदेहयोर्यो मोऽन्तः । केचिदूर्ध्वदमोर्ध्वदेहावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छन्ति । और्ध्वदामिकः । और्ध्वदैहिकः । ऊर्ध्वमौहूर्तिकः । अत्र 'सप्तमी चोर्ध्वमौहूर्तिके ' ( ५-३ - १२ ) इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । अकस्मात् हेतुशुन्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन्परलोके भवम्
यत्र सन्ति । 'ऋप्यादे ' ' प्रस्थस्य तुल्य' मध्यम एव । मध्यममस्यास्ति ' अतोनेक- इतीक अल्पो निपुणः । कुरिसताये -' इति कप् । तत्र भव ॥ - परावरा - |- दिक्श दत्वेपीति । न केवल परावरयोर्यथाक्रम शश्वधर्मार्थयोरनेन प्रत्यय इत्यपेरर्थ ॥ अमो - ॥ यत्र प्रकृतिविशेषो नोपादीयते तत्र पायात् इति प्रवर्त्तते इत्यन्न प्रकृतिविशेषोपादानादम इत्यस्य प्रथमान्त निर्देशेऽपि न प्रकृतिभाव ॥ - अन्तम इति । अन्तशब्दात् भपादन्यन्नाय विधि । भवे तु दिगादिय एव । तथा अवोध शब्दयोदिग्देशवृत्योरिह ग्रहण कालरयोस्तु परत्वाद ' सायंचिरम् -' इति तनडेव ॥ अकारादीति । अन्यथाम इति कृते नाम सिदख्यञ्जने ' इत्यनेन पश्वात् ' प्रायोव्ययस्य इत्यन्त्यस्वरादिलोपो न स्यात् । नोऽपदस्य इत्यतोऽपद इत्यनुवर्त्तनात् ॥ - मध्ये - ॥ यद्यपीति । नन्वाधाराधेययोरभेदविवक्षया मध्यवर्त्तिकाद्यापि मध्यशब्देनोच्य तत् किमनेनेत्याशड्का || अध्यात्मा ॥ आत्मनि इति विगृझ अनः
1
प०अ०ल०
॥ ३६ ॥