________________
व्याडि भौद्धि भौजि भौजि आध्यश्वि आवस्थि औगाहमानि औपविन्दवि आग्निशमि देवशर्मि श्रोति वाटारकि वाल्मीकि क्षेमधृत्ति उत्तर अन्तर मुखतम् पार्वतस् एकतस् *अनन्तर *आनृशंसि साटि सौमित्रि “परपक्ष स्वक देवक । इति गहादयः । वहुवचनमाकृतिगणार्थम् ॥ ६३ ॥ पृथिवीमध्यान्मध्यमश्वास्य ॥६।३।६४ ॥ पृथिवीमध्यशब्दाद्देशवाचिनः शेपेऽर्थे ईयः प्रययो भवति मध्यमादेशश्चास्य पृथिवीमध्यशब्दस्य भवति । पृथिवीमध्ये जातो भवो वा मध्यमीयः॥ ६४॥ निवासाचरणेऽण् ॥ ६।३।६५ ॥ पृथिवीमध्यान्निवासभूताद्देशवाचिनश्चरणे निवस्तरि शेपेऽर्थेऽण् प्रत्ययो भवति मध्यमादेशश्चास्य पृथिवीमध्यशब्दस्य । पृथिवीमध्यं निवास एपां चरणानां माध्यमाचरणाः। वयः प्राच्याः त्रयः उदीच्याः वयो माध्यमाः । निवासादिति किम् । पृथिवीमध्यादागतो मध्यमीयः कठः । चरण इति किम् । पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः ॥ ६६ ॥ वेणुकादिभ्य ईयण ॥६।३।६६॥ वेणुक इत्येवमादिभ्यो यथायोगं देशवाचिभ्यः शेपेऽर्थे ईयण प्रत्ययो भवति । वैणुकीयः । वैत्रकीयः। औत्तरपदीयः। औत्तरीयः । औत्तरकीयः। पास्थीयः। प्रास्थकीयः। माध्यमकीयः । माध्यमिकीयः । नैपुणकीयः । वहुवचनं प्रयोगानुसरणार्थम् ॥ ६६ ॥ वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे तु तवकममकम् ॥ ६।३।६७ ॥ देशादिति निवृत्तम् । युष्मद् अस्मद् इत्येताभ्यां शेषेऽर्थे अञ् इनञ् इत्येतो प्रत्ययौ वा भवतः तत्संनियोगे च यथासंख्य युष्मदस्मदोर्युष्माकास्माको, एकत्वविशिष्टे त्वर्थे वर्तमानयोस्तवकममकाबादेशौ भवतः। प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदात् । युष्माकमयं युवयोवा यौष्माकः। यौष्माकीणः । अस्माकमयमावयोर्वा आस्माकः आस्माकीनः । पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः। युष्मदीयः । अस्मदीयः । एकत्वे तु तवकममकम् । तवायं तावकः । ममायं मामकः । तावकीनः । मामकीनः। पक्षे त्वदीयः । मदीयः ॥ १७॥ द्वीपादनुसमुद्रं ण्यः ॥६।३।६८ ॥ समुद्रसमीपे यो द्वीपस्तद्वाचिनः शेघेऽर्थे ण्यः प्रत्ययो भवति । कच्छाधकरणोरपवादः । द्वैयो मनुष्यः। द्वैष्यमस्य हसितम् । द्वैप्यम् । अनुसमुद्रमिति किम् । अनुनदि यो द्वीपस्तस्मात् द्वैपको व्यासः । द्वैपकमस्य हसितम् । द्वैपम् ॥ ६८ ॥ अर्धाद्यः ॥ ६ । ३ । ६९ ॥ अर्धशब्दाच्छेपेऽर्थे यः प्रत्ययो भवति । अयम् ॥ ६९॥ सपूर्वादिकम् ॥६।३।७० ॥ सपूर्वपदादर्धशब्दात शेपेऽर्थे इकण प्रत्ययो भवति । पौष्कराधिकः । वैजयाधिकः । वालेयाधिकः । गौतमाधिकः । क्षेत्राधिका अध्यश्वस्प अश्वस्थस्य उगाहमानस्यापत्यम् ' अत इन् ' उपविन्दो अग्निशर्मणो देवशर्मणोऽपत्य याहादिस्वादिज् । धुतस्यापत्य श्रौति । वटार कायति तस्मापत्य वल्मीकस्यापत्यमत इण् । क्षेमं धृतवान् क्षेमधृत्वा तस्यापत्य यावादिस्वादिम् । क्षैमधृत्वि । उत्तरति उत्तरः । ' अनिकाभ्यां तर' ' इति अन्तं राति वा अन्तरः । एक तस्यति किए एकता' । न अन्तरः । अनन्तरः । नृन् शसति नृशस न नृशस । अनुशसस्तस्यापत्यमानुशंसि. । पट् अवयवे । सटति सटस्तस्पापत्य साटिः । सुमिनाया अपत्य सौमित्रि. । याहादित्वादिज् । परस्य पक्ष परपक्षः । इति गहादिगण ॥-निवा-॥ नन्वग्रहण किमर्थ यतो यो हि अन्येन बाधितो न प्रासोति तदर्थमिद स चाणेव । सत्यम् । निवासाचरण इति कृते पूर्वसूत्रणव सिद्ध नियमा स्यात् । पृथिवीमध्यासिवासभूतदेशवाचिनश्वरणे एव निवस्तार नान्यत्र ततक्ष मध्यमीयाश्चरणा माध्यम. शुद्ध इति वैपरीत्य स्यादतस्तन्मा भूदित्यग्रहणम् ॥-वेणु-|| वेणव सन्त्यन्न उत्तरा
Poe