________________
* स्थली दाण्डायनस्थली मानकस्थली आनकस्थली माहकस्थली मद्रकस्थली मापस्थली घोपस्थली राजस्थली अट्टस्थली मानस्थली माणवकस्थली राजगृह सत्रा साह सानासाह भक्ष्यादी भक्ष्यली भक्ष्याली भद्राली मद्रकुल अज्ञ्जीकुल व्याहाव त्र्याहाव द्वियाहाव त्रियाहाव *संस्फीय वड गर्त व शकुन्ति विनाद *मकान्त विदेह आनर्त वादूरः खाडूर माठर पाठेय पाथेय घोष घोपमित्र शिष्य वणिय पल्ली, अराज्ञी :-आराज्ञी धार्तराज्ञी *धार्तराष्ट्री धार्तराष्ट्र अवया तीर्थकुक्षि समुद्रकुक्षि द्वीप अन्तरीप अरुण उज्जयनी दक्षिणापथ + साकेत । इति धूमादिः । दाण्डायनस्थलीत्यादीनां दुसंज्ञकानामीकारान्तानां वादूरखा रमाउराणां च पाठोऽप्राच्यार्थः । प्राच्यानां त्वीद्रोपान्त्यलक्षणोऽकन् सिद्ध एव । विदेहानर्तयो राष्ट्रेऽकन् सिद्ध एव । सामर्थ्याददेशार्थः पाठः । विदेहानामानर्तानां च क्षत्रियाणामिदं वैदेहकम् । आनर्तकम् । पाठेयपाथेययोर्योपान्त्यत्वादकन् सिद्धोऽदेशार्थः पाठः पठेः पठाया वापत्यं पाठेयः । तस्येदं पाठेयकम् ॥ ४६ ॥ सौवीरेषु कूलात् ॥ ६ ॥ ३ । ४७ ॥ सौवीरदेशवाचिनः कूलशब्दाच्छेषेऽर्थेऽकन् प्रत्ययो भवति । कौलकः सौवीरेषु । कौलोऽन्यत्र ॥ ४७॥ समुद्रान्नृनावोः || ६ | ३ | ४८ ॥ समुद्रशब्दादेशवाचिनः शेषेऽर्थेऽकञ्प्रत्ययो भवति स चेत् प्रत्ययान्तवाच्यो ना मनुष्यो नौर्वा भवति । सामुद्रको मनुष्यः । सामुद्रिका नौः । नृनावोरिति किम् | सामुद्रं लवणम् ||४८|| नगरात्कुत्सादाये || ६ |३|४९ ॥ नगरशब्द | देशवाचिनः शेषेऽर्थेऽञ् प्रत्ययो भवति प्रत्ययार्थस्य कुत्सायां दाक्ष्ये च गम्यमाने । कुत्सा निन्दा । दाक्ष्यं नैपुण्यम् । केनायं मुषित इह नगरे मनुष्येण संभाव्यते एतन्नागरके । चौरा हि नागरका भवन्ति । केनेदं चित्रं लिखितमिह नगरे मनुष्यण संभाव्यते एतन्नागरके । दक्षा हि नागरका भवन्ति । कुत्सादाक्ष्य इति किम् । नागरः पुरुषः । संज्ञाशब्दात्तु कन्यादिपाठादेयकञ् । नागरेयकः ॥ ४९ ॥ *कच्छानिवक्त्रवतत्तरपदात् ॥ ६ ॥ ३५० ॥ कच्छ अग्नि वक्त्र वर्त इत्येतदुत्तरपदादेशवाचिनः शेषेऽर्थेऽकञ् प्रत्ययो भवति । ईयाणोरपवादः । स्थलति स्थली । दाण्डायनस्य स्थली । मान कायति मा अविद्यमाना आनका येषां वा मानकास्तेषा स्थली । आनकाना स्थली । महन्ति माहकास्तेषां स्थली । मद्रेषु भवा. मद्रकास्तेषां स्थली । स्वल्युत्तरपदानां सर्वत्र पष्ठीसमासः । व्युत्पत्तिस्तु सान्वया । राशो गृहम् । सत्राशब्द आकारान्तोऽव्यय । सत्रा साकं सलते सवासाह । सवासाहोऽत्रास्ति सात्रासाह । भक्ष्याणि आदत्ते लाति अलति भद्रमलति ' कर्म्मणोऽण् '। महभूत कुल यत्र । अनकि अच् डी । अज्याः कुलम् । द्वौ त्रयोऽहो वा यत्र । केचित्तु इवर्णादिभ्यः यवरलानिच्छन्ति तन्मते द्वियाहाव इत्यादि । सस्फायते किप् तस्मै हितः संस्फीयः । वर्यतीति ' बिहोड -' इति बर्थड । वज्यंते वर्ज्य । शकेरुन्ति शकुन्ति । विनादयति विनाद । इ | मा च ताभ्यां कान्त पृपो० इमकान्त । विदिशन्ते विदेहाः । एत्य नृत्यन्त्यन्न आनर्त्त' । वट वेष्टने खाद 'सिन्दूर - ' इति वादुरः । खाडूर । मठरोऽत्रास्ति । माठर । घुण्यत इति घोषः । स मिन्नमस्या' ।' इकिस्तव्-' इति चणि याति वणिय । न विद्यते राजा यस्या 'नाम्नि' इति ड्याम् अराक्षी । आगता राजानो यस्या सा आराक्षी । धृतो राजा येन धृतराजा सोऽश्रास्तीति धार्त्तराशी । धृतराष्ट्रोऽन्नास्ति धार्त्तराष्ट्री। धार्त्तराष्ट्र' । अवयाति अवया । समुद्रवत्कुक्षिरस्य समुद्रकुक्षि । उज्जीयतेऽनया उज्जयनी । रम्यादित्वादुज्जयति वा । दक्षिणस्याः पन्था दक्षिणापथः । साया. लक्ष्म्या. केतो निवास. साकेत. ॥ - कच्छा ॥ - ईयाणोरपवाद इति । यत्र पूर्वपदस्य दुसज्ञा तत्रेयस्यान्यत्र त्वणः । अन्न प्रयमप्रयोगे यस्य द्वितीये त्वण. प्राप्ति. ॥ -