________________
सेनवाहीकरोमकपटचरात् ॥६।३।२६॥ गयादिभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । गौष्टः। तैकः। नैकेतः। एभ्यो वाहीकग्रामलक्षणयोणिककणोस्तैक्याः कोपान्त्यलक्षणस्येयरय चापवादः । गौमतः। अस्मिन्नीलक्षणस्याकमः । शौरसेन. । अत्र राप्टाकजः । वाहीकः । रोमकः । अत्र दुलक्षणस्येयस्य । पाटचरः । अत्र रोपान्त्यलक्षणस्याकनः । एके तु गौष्ठीस्थाने गोष्ठी तैकीस्थाने तैकी नैवीं च पठन्ति ॥ २६ ॥ शकलादेयञः॥६॥३॥ २७ ॥ शकलादिभ्यो यत्रन्तेभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । इयस्यापवादः । गर्गाधन्तर्गणः शकलादिः । शकलस्यापत्यं वृद्धं शाकल्यः । तरय छात्राः शाकलाः । एवं काण्ठाः । गौकक्षा। २] वामरथाः । यत्र इति किम् । शकलो देवतास्य शाकलः । तस्येदं शाकलीयम् । कण्ठादागतः काण्ठः तस्य छात्राः काण्ठीयाः २७॥ वृद्धेनः ॥६।३ ॥ २८ ॥
वृद्धे य इन विहितस्तदन्ताच्छेपेऽर्थेऽञ् प्रत्ययो भवति । ईयस्यापवादः । दक्षस्यापत्यं वृद्धं दाक्षिस्तस्य छात्राः दाक्षाः । प्लाक्षाः । वृद्धति किम् । मुतंगमेन निता सौतंगमी नगरी तस्या भवः सौतंगमीयः । शालकैरपत्यं युवा शालकिः । 'यनिजः' (६-१-५४) इत्यायनणः पैलादिपाठाल्लुप् । तस्य छात्राः शालका इत्यत्र तु आयनणि लुप्ते यद्यपीअन्तं यूनि वर्तते तथापीञ् वृद्ध इत्यत्रेव भवति ॥ २८॥ न द्विस्वरात् प्रागभरतात् ॥ ६ ॥ ३ ॥ २९ ॥ प्राच्यगोत्रवाचिनो भरतगोत्रबाचिनश्च नाम्नो वृद्धवन्ताद्विस्वरादब् प्रत्ययो न भवति । पूर्वेण प्राप्तस्य प्रतिषेधः । पाचः चैकीयाः। पौष्पीयाः। चिङ्कपुष्पशब्दावावन्तावपि तत्र बाहादित्वादिन् । भरतात, काश काशीयाः । वाश वाशीयाः । द्विस्वरादिति किम् । पान्नागारेच्छात्राः पान्नागाराः । मान्थरेषणाः। प्राग्भरतादिति किम् । दाक्षाः। प्लाक्षाः। प्राग्ग्रहणे भरतानां ग्रहणं न भवतीति स्वशब्देन ग्रहणम् ॥ २९ ॥ अवतोरिकणीयसौ ॥६।३।३० ॥ भवतुशब्दाच्छेपेऽर्थे इकण ईयस् इत्यता प्रत्ययौ भवतः। ईयापवादौ । भवतः भवत्या वा इदं भावत्कम् । भावकी । भवदीयः । भवदीया ! सकारो 'नाम सिदयव्यञ्जने' (१-१-२१) इति पदत्वार्थः । उकारान्तग्रहणात शत्रन्तान भवति । भवत इदं भावतम् ॥३०॥ परजनराज्ञोऽकीयः॥६।३।३१ ॥ एभ्यः शेषेऽर्थेऽकीयः प्रत्ययो भवति । परकीयः । जनकीयः। राजकीयः। अकारः पुंबद्भावार्थः । राज्या इदं राजकीयम् । स्वकीयं देवकीयमिति तु स्वकदेवकयोगेहादित्वात् सिद्धम् । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां सस्येदं सौवम् दैवमायुः दैवी वाक् इत्यादि न सिध्यति ॥ ३१ ॥ दोरीयः । । ।३।३२ ॥ दुसंज्ञकाच्छेपेऽर्थे ईय. प्रत्ययो भवति । देवदत्तीयः । जिन-अबदुलक्षणेति।वाहीकशब्दस्य पुरुषवाचिनो दोरीय 'इत्यस्य देशवाचिनस्तु कखोपान्त्येत्यस्याप्यपवाद तदुभयमपि दुरुक्षणस्यत्यनेन लिष्टनिर्देशेन सगृहीतम्।यत उभाभ्यामपि दुसज्ञाया विधानात् । रोमकस्य तु ' कखोपान्स्य'-इत्यस्यैव । यतस्तस्य पुरुषवाचिनो दुसज्ञान प्राप्नोति । देशवाचिनस्तु 'प्रादेशे ' इति दुसज्ञा ॥-वृद्धेन॥-यूनि वर्तत इति । 'युद्धायूनि' इत्यत्र यूनोपि वृद्धसज्ञाकार्यदर्शनादत्र इजन्तस्य वृद्धेपि वर्सनमित्याश्रयणे औपगवस्थापत्य युवा भीपगविस्तस्य छात्रा आँपगवीया एवं पाणनीया इत्यादावपि स्यात् । अतो मुण्यत्वाद्गद्धे एवेति व्याख्येयम्॥भव-||-शत्रन्तान भवतीति । ननु तर्हि यदा मत्वन्तता क्रियते भनस्यास्तीति भवत् तदा कथ न भवति यत उकारानुवन्धोऽस्ति । न । तदा मतुरेवोकारानुबन्धो न तु तदन्तः । अय मनुरुकारानुवन्धस्तद्योगाद्वशब्दोपि तथोच्यते । नैवम् । लाक्षणिकत्वाशक्षणप्रतिपदोक्तयोरिति न्यायात् । यद्येव, तर्हि औणादिकस्यापि न प्रामोति । यतो इवतुरयमुकारानुबन्ध. ।।