________________
वक्ष्यते तेनैव सिदम् । न सिध्यति । दना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम् । इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कार कियते ॥ १४३ ॥ वोदश्चितः॥६।२।१४४ ॥ उदविच्छब्दात्सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो वा भवति । उदकेन श्वयति उदश्चित । अत एव निर्देशाद्वदभावः तत्र संस्कृतं भक्ष्यमौदश्चितम् औदचित्तम् ॥ १४४ ॥ कचित् ॥६।२।१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे कचियथाविहितं प्रत्ययो भवति । चक्षुषा गृात इति चाक्षर्ष रूपम् । श्रावणः पाब्दः । रासनो रसः। दुपदि पिष्टा दादाः सक्तवः । उदूखले क्षुण्ण औदखलो यावकः । चतुर्दश्यां दृश्यते चातुदर्श रक्षः । चतुर्भिरुह्यते चातुरं शकटम् । अवैरुखते आश्वो रथः । संप्रति युज्यते सांप्रतम् सांप्रतः ॥ १४५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वत्सी षष्ठस्याध्यायस्य द्वितीयः पादः ॥ ६ ॥२॥ ६॥ मृदित्वा दो कण्डूं समरभुवि वैरिक्षतिभुजाम् भुजादण्डेदधः कतिन नवखण्डवसुमतीम् ॥ यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसायशोयोगीशानां पिबसिनृप तत्कस्य सदृशम् ॥१॥
॥तृतीयः पादः॥
*शेषे॥६३२॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामः शेषेऽर्थे तद्वेदितव्यम् । उपयुक्तादन्यः शेषः । अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्यो योऽन्योऽर्थः ३ स शेषः । तस्वेदविशेषा अपत्यसम्हादयः तेषु वक्ष्यमाणा एयणादयो मा भूवन्निति शेषाधिकारः क्रियते। किंच सर्वेषु माक् जितात् कृतादिषु वक्ष्यमाणाः प्रत्यया ३ यया स्युः अनन्तरेणेवार्थनिर्देशेन कृतार्थता माविज्ञायि इति साकल्यार्थ शेषवचनम् ॥२॥ नद्यादेरेयण ॥६ ॥ नद्यादिभ्यो यथासंभव प्राजितीये शेषेऽर्थे एयण
प्रत्ययो भवति । नयां जातो भवोवानादेयः। माहेयः।वानेयः। वन्य इति तु साधौ यः शेष इति किम् । नदीनां समूहो नादिकम् । नदी मही वागणमी श्रावस्ती कौशाम्बी
शेषे॥-तस्येदमिति । एयणादयश्च तस्येदमित्यर्थे विहितास्ततश्चापत्यसमूहादिप्वपि प्राप्नुवन्ति तद्विशेषस्वात्तेपाम् ॥-तेष्यिति । अपत्यसमूहाविषु अन्यनोपयुक्तस्वात्तेषाम् ॥ न केवलमपरयादिषु एयणावीना निवृत्तये शेषाधिकारः क्रियते यावत्सर्वेषु कृतजातादिपु अस्मेति षष्यर्थपर्यन्तेष्वेयणादीनां प्रवृत्यर्थश्वेस्पाह-किंचेत्यादि । अयमर्थः सनिहितत्वात् कृतलम्धनीतादिष्वर्थेषु एयणादीनां प्रवृत्तेर्यवाहितेष्वथेषु प्रवृत्तिनै भविष्यतीत्येव शङ्का माभूदित्यर्थः ।-नद्या-|| अथ गणः । नदति शब्दायते अवगाह्यमाना सती अचि नदी । मझते पूज्यते राजभिः महि मह इत्यकारान्तावा ही मही ॥ वर आणः शब्दो येषां चराणा वृक्षाःतेऽय सान्त वराणसा भदारिका तस्या अदूरभवा नगरी धाराणसी शृण्वन्तं प्रयुक्त श्रावयति श्रावः असि भावसं तायते 'कचित् ' हे गौरादित्वात् ग्याँ श्रावस्ती । कुशेनाम्यो यस्य कुश्यति वा ' तुम्यस्तुम्ब ' इति कुशाम्यस्तेन निर्वृत्ता कौशाम्बी नगरी वनप्रभाना कौशाम्बी नगरी यनप्रधाना कौशाम्बी को
% 3DNA