________________
प्रयुज्यते । तेन स्वातन्त्र्यम् उपाध्यन्तरयोगो वाक्यं च निवर्तते । वेद, कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । एवं कलापिना कालापाः। मौदेन मौदाः पैष्पलादेन पैष्पलादाः । ऋचाभेन आर्चाभिनः । वाजसनेयेन वाजसनेयिनः । इन् ब्राह्मणं खल्वपि । ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः । भाल्लविना भालविनः । शाट्यायनिना शाठ्यायनेन वा शाय्यायनिनः । ऐतरेयेण ऐतरेयिणः । इन्ग्रहणं किम् । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि । 'शकलादेर्ययः । (६-३-२७) इत्यन् । सौलाभेन सौलाभानि । 'मौदादिभ्यः' (६-३-१८०) इत्यण् । ब्राह्मणमिति किम् । पिङ्गेन मोक्तः पैगी कल्पः । ब्राह्मणं वेद एव तत्र वेद इत्येव सिद्धे अनिनन्तस्य नियमनिवृत्त्यर्थमिनब्राह्मणग्रहणम् । मोक्तानुवर्तनं किमर्थम् ऋचः यजूंपि सामानि मन्त्राः वेदः। आरम्भसाम
दिवधारणे सिद्धे उभयावधारणार्थमेवकारः । प्रोक्तमत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तथात्र वृत्तिरेव न केवलस्य प्रोक्तप्रत्ययान्तस्यावस्थानम् । अन्यत्र त्वनियमात्कचित्स्वातन्त्र्यं भवति । अर्हता प्रोक्तमार्हतं शास्त्रम् । कचिदुपाध्यन्तरयोगः । आईतं महत्सुविहितमिति । कचिद्वाक्यम् । आईतमधीते । कचिद्वृत्तिः “आईत इति । Kी इह पुनर्नियमायुगपदेव विग्रहः । कठेन प्रोक्तमधीयते कठा इति ॥ १३० ॥ तेन छन्ने रथे ॥६।२।१३१ ॥ छन्न इति प्रत्ययार्थो रथ इति तस्य विशेषणम् ।
तेनेति तृतीयान्तात् छन्ने रथेऽभिधेये यथाभिहितं प्रययो भवति । वस्त्रेण छन्नो रथः वासः। काम्बलः । चार्मणः। द्वैपेन चर्मणा द्वैपः । वैयाघेण वैयाघ्रः । रथ इति किम् । वस्त्रेण छन्नः कायः । छन्नशब्देन समन्ताद्वेष्टितं व्याप्तमुच्यते । तेनेह न भवति । पुत्रैः परिवृतो रथः । इह -कथमण भवति । न विद्यते पूर्वः पतिर्यस्याः सा अपूर्वा कुमारी तादृशी कुमारीमुपपन्नः कौमारः पतिरिति । तत्र ' भवे' (६-३-१२२) इत्यण भविष्यति । कुमार्यां भवः कौमारः पतिः धवयोगे तु कौमारी भार्येत्यपि सिद्धम् ॥ १३१ ॥ पाण्डुकम्बलादिन् ॥ ६ ।२।१३२ ॥ पाण्डुकम्बलशब्दात्तृतीयान्ताच्छन्ने रथे वाच्ये इन् प्रत्ययो भवति । अणोऽपवादः । -स्वातन्त्र्यमिति वेश्यधीते वेत्यर्थरहितं न प्रयुज्यत इत्यर्थं ॥-उपाध्यन्तरयोग इति । कठेन प्रोक्त शोभनं वेद विदन्त्यधीयते वा इति विशेषणयोगो न भवतीत्यर्थः । मुदपिप्पलादाभ्यामृप्यणि मौद पैप्पलादः। ततो 'मौदादिभ्य ' इतीयापवादोऽण् । ऋम्भिराभातीति ऋगाम । पृषोदरादित्वात् गस्य चत्वे ऋचाभः । तत. प्रोक्त शौनकादित्वापिणन्।तदन्तादणो लुवाजसनाया अपत्य 'डयास्यूड' एयणाशौनकादि स्वापिणन् ततोऽग् लुप । तपिढनशब्दाद्गादियजन्तात्मौनकादित्याणिनि ततोऽणो लुप् । भन्छवशब्दादिजन्तात्मोक्कार्थे पूर्ववण्णिनादयः ॥-शाट्यायनिन इति । शटशब्दात् गर्गादियजन्तात् तिकाचायनिश् । एके स्वयजन्त तिकादौ पठन्ति तन्मते । यजिज'इत्यायनणि पूर्ववत् शौनकादित्वात् णिन्नादौ शाळ्यायनिन. । इतरस्यापत्य शुभ्रादित्वादेयणि ऐतरेय । ततः पूर्ववण्णिनादौ ऐतरेयिणः ॥-इन्ग्रहणमिति । तेन याज्ञयाकानि बाझगानीत्यनिनन्तस्य वेद इति नियमो निवर्त्तते ।-प्रोक्तानुवर्त्तनमिति । अयमर्थः अगादयः शब्दा वेदवाचिनो भवन्ति न तु प्रोक्तप्रत्ययान्ता इति । यदि प्रोक्तग्रहण नानुवर्तत तदात्रापि वेत्यधीते वेत्येतद्विषय एवेति प्रयोगनियमः प्रसज्येत ततश्च ऋचस्तिष्ठन्ति इत्यादि वक्तु न लभ्येत ॥-आर्हत इतीति । अर्हता प्रोक्त । तेन प्रोक्त-' इत्यण आहेत वेश्यधीते या अण् तस्य लुप् ॥ तेन-1-वैयाघ्रणेति । व्याघ्रस्य विकार. ' प्राण्यौषधि-इत्यण् । इदमर्थे त्वीय स्यात् ॥कथमण् भवतीति । परैस्तावत्र कौमारापूर्ववच्चन इति कौमारशब्दोऽणन्तो वृत्तिप्रदर्भितेऽर्थे निपात्यते । स्वमते त्वस्मिगर्थेऽणविधायकसूत्राभावात् कथमित्याशङ्का ।
।