________________
बीडैमश० || ताभ्यां परो यः पथिन शब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकट् प्रत्ययो भवति । शतपथिकः । शतपथिकी । पष्टिपथिकः । पष्टिपथिकी ॥ १२४॥ पदोत्तरपदेभ्य ५०अ०० ॥२८॥ इकः॥६।२।१२५ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदशब्दात्पदोत्तरपदशब्दाच वेत्त्यधीते वेत्यर्थे इकः प्रत्ययो भवतिापूर्वपदिकः उत्तरपदिकः । पूर्वपदिका।
उत्तरपदिका । पद पदिकः । पदिका। पदोत्तरपदिकः । पदोचरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ॥ १२५ ॥ पदक्रमशिक्षामीमांसासाम्नोऽका ॥६।२।१२६ ॥ पद क्रम शिक्षा मीमांसा सामन् इत्येतेभ्यो तद्वेत्त्यधीते वेत्यर्थेऽकः प्रत्ययो भवति । पदकः । क्रमकः। शिक्षकः । मीमांसकः । सामकः । उपनिपच्छब्दादपीच्छति कश्चित् । उपनिषदका के सति शिक्षाका शिक्षिका शिक्षका।मीमांसाका मीमांसिका मीमांसकेति :रूपत्रयं स्यात् । शिक्षिका मीमांसिकेति चेष्यते । तदर्थमकवचनम् ॥ १२६ ॥ ससर्वपूर्वाल्लुप् ॥६॥२॥ १२७ ॥ सपूर्वात्सर्वपूर्वाञ्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् भवति ।सवार्तिकमधीते सवार्तिकः। ससंग्रहः । अणो लुप् । सकल्पः । अत्रेकणः । सर्ववेदः । सर्वतत्रः । अत्राणः । सर्वविद्यः । अत्रेकणः । कथं द्विवेदः पञ्चव्याकरण इति । द्विगोरनपत्ये यखरादेटुंबदिः । (६-१-२४) इति लुपि भविष्यति ॥ १२७ ॥ संख्याकात्सूत्रे ॥६।२।१२८॥ संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तात्सूत्रे वर्तमाना| व नानो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवतिी अमोक्तार्थ आरम्भः अष्टावध्यायाःपरिमाणमस्य अष्टकं सूत्रम्।तद्विदन्ति अधीयते वा अष्टका पाणिनीयाः।
आपिशलीयाः। त्रिकाः काशकृत्स्नाः। दशका उमास्वातीयाः। द्वादशका आर्हताः। संख्याग्रहणं किम् । माहावार्तिकाः। कालापकाः। कादिति किम् । चतुष्टयं सूत्रम| धीयते चातुष्टयाः ॥१२८॥ प्रोक्तात् ॥६।२।१२९॥ प्रोक्तार्थविहितः प्रत्यय उपचारात् पोक्त इत्युच्यते । तदन्ताबानो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवति।
गोतमेन प्रोक्तं गौतमम् । तद्वेत्त्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्मम् सौधर्मणं वा तदेत्यधीते वा सौधर्मः सौधर्मणः । एवं भाद्रबाहवः । पाणि| नीयः । आपिशलः । स्त्रियां विशेषः । गौतमा सौधर्मा सौधर्मणा खी इत्यादि । अणो लुप्यणन्तत्वाभावात् कीर्न भवति ॥ १२९ ॥ वेदेनब्राह्मणमत्रैव
॥६।२।१३० ॥ प्रोक्तग्रहणमिहानुवर्तते । तच्च प्रथमान्तं विपरिणम्यते । प्रोक्तमत्ययान्तं वेदवाचि इनन्तं च ब्राह्मणवाचि अत्रैव वेत्त्यधीते वेत्येतद्विषये एव |--पदोत्तरपदेभ्य ॥ पदशब्द उत्तरपद यस्य पदोत्तरपदश्च पदश्च पदोत्तरपदश्च सूनत्वादेकशेष ॥-पदक्रम-1-रूपत्रयमिति ' इच्चापुसोनिक्याप्परे' इत्यनेन ॥-संख्याका--
॥-अप्रोक्तार्थ आरम्भ इति । अन्यथोपरेणैव सिध्यति । त्रयोदश चाध्याया मानमस्य अवयवात्तयट्वाधक सख्याउते. क. । त्रिक दशक प विदन्त्यधीयते वा त्रिका दशका ॥ | माहावातिका इति । महदार्तिकमस्य सूत्रस्य तद्विदन्तीयादि ॥-कालापका इति । वृहत्तन्त्रात् कलामापिबन्ति 'कीचक-' इति साधु । कलापकाः शास्राणि तान् विदम्त्यधीयते वा | यदा तु 'कचित् ' इति डे कलापोस्यास्ति कलापिना प्रोक्त ' तेन प्रोक्त-' इत्यग् ' कलापि-' इत्यन्त्यस्वरादिलुप् । कुस्सित कालाप काळापक तद्विदन्ति अधीयते वा तदा लुप्यलुपि वा न विशेषो वृद्धस्तथैव सद्भावात्॥-प्रोक्तात्-1-सुधर्मणेति । शोभनो धर्मो यस्य ' द्विपदाद्धर्मादन् ' इत्यस्यैकेपा मते विकल्पः ॥-स्त्रियां विशेष इति । नन्वन्त्र प्रत्ययलुप्पलुपि पाऽविशे
४॥२८॥ पस्तकिमर्थमिद सूत्रमित्याशङ्का ॥-डीन भवति अन हि यस्यां सिया योऽण विहित, स लुप्त. यश्च विद्यते तस्य न स्त्री॥-वेदेन ब्राह्मण-1-प्रथमान्तमिति । अर्थवशादिभक्तिपरिणाम ॥