________________
चमगुण अनुगुण अथर्वन् आथर्वण । इति न्यायादिः ॥ ११८ ॥ *पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् || ६ । २ । ११९ ॥ पदकल्पूलक्षणशब्दातेभ्यः क्रत्वाख्यानाख्यायिकावाचिभ्यश्च वेस्पधीते वेत्यर्थ इकण् प्रत्ययो भवति । पदान्त, पौर्वपदिकः । औत्तरपदिकः । आनुपदिकः । बहुप्रत्ययपूर्वात्पदशब्दान भवति अनभिधानात् । कल्पान्त, मातृकल्पिकः । पैतृकल्पिकः । पाराशरकल्पिकः । श्राद्धकल्पिकः । लक्षणान्त, गौलक्षणिकः । आश्वलक्षणिकः । ह्रास्तिलक्षणकः । आनुलक्षणिकः। सौलक्षणिकः । लाक्षणिक इति न्यायादित्वात् सिद्धम् । क्रतु, अग्निष्टोमिकः । वाजपेयिकः । ज्यौतिष्टोमिकः । राजमुयिकः । आख्यान, *यावक्रीतिकः । *यावक्रिकः । मैयंगविकः । मैयंगुकः । आविमारकिकः । आख्यायिका, वासवदत्तिकः । सौमनोहरिकः ॥ ११९ ॥ अकल्पात्सुत्रात् ॥ ६ । २ । १२० ॥ कल्पशब्दवर्जितात्परो यः सूत्रशब्दस्तदन्ताद्वेत्यधीते वेत्यर्थे इकण् प्रत्ययो भवति । वार्तिसूत्रिकः । सांग्रहसूत्रिकः । अकल्पादिति किम् । सौत्रः । काल्पसौत्रः ॥ १२० ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ । २ । १२१ ॥ धर्म क्षत्र त्रिसंसर्ग अङ्ग इत्येतच्छन्दवर्जितात्परो यो विद्याशब्दस्तदन्ताद्वेच्य धीते बेत्यर्थे इकण् प्रत्ययो भवति । वायसविधिकः। सार्पविधिकः । अधर्मादेरिति किम्। वैद्यः। धार्मविद्यः क्षात्रविद्ययः। न्यवयवा विद्या त्रिविद्या तां वेत्यधीते वा त्रैविद्यः। अत्र त्रिविद्याशब्दस्य कर्मधारयस्यैव ग्रहणम् न द्विगोः । तत्र लुपि सत्यामणिकणोविंशेषाभावाद । त्रिविद्यः । सांसर्गवियः । आवविद्यः ॥ १२१ ॥ याज्ञिकौविकलौकायितिकम् || ६ । २ । १२२ ।। याज्ञिकादयः शब्दा वेत्यधीते वेत्यर्थे इकण्प्रत्ययान्ता निपात्यन्ते । याज्ञिकेति यज्ञशब्दाद्याज्ञिक्यशब्दाच्चैकण इक्यलोपश्च निपात्यते । यज्ञं याज्ञिक्यं वा वेत्यथीते वा याज्ञिकः । औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात्प्रत्यय इष्यते कि तर्हि तचाख्याने औक्थिक्ये उपचारेण वर्तमानात् । उक्थमधीते औक्थिकः । औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दात्तु गत्ययो न | भवत्यनभिधानात् । तस्मादपीच्छन्त्येके । औक्थिक्यमधीते औक्थिकः । लौकायितिकति लोकायतशब्दादिकण् यकाराकारस्य चैकारो निपात्यते । लोकायतं | बेस्यधीते वा लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात्सिद्धम् ॥ १२२ ॥ अनुब्राह्मणादिन् || ६ । २ । १२३ ॥ अनुब्राह्मणशब्दात्त्यधीते वेत्यर्थे | इन प्रत्ययो भवति । ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृशार्थेऽव्ययीभावः । तद्वेत्त्यधीते वानुत्राह्मणी । अनुब्राह्मणिनौ । अनुप्राह्मणिनः । मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्यामवृत्तावण्बाधनार्थमिनो विधानम् ॥ १२२ ॥ शतषष्टेः पथ इकद् || ६ । २ । १२४ ॥ शतषष्टिं इत्येसभवादिति । एवं पूर्वसूत्रेऽप्यग्निष्टोमप्रतिपादकग्रन्थस्य वेदनाध्ययने सभवतः । न्यायशास्त्र वा ॥ - पदकल्प – ||-अनभिधानादिति । यथा ईपदपरिसमाप्तं पद बहुपदं तद्वेध्यधी वा ॥ - | आख्यानेति । अभिनयति गायन् पठन् यदेको ग्रन्यस्तदाख्यानम् । आख्यानशब्दस्य न्यायादिपाठादेव इकण् सिद्ध इत्यर्थप्रधानोयम् । एतत्साहचर्याच्च क्रत्वादीनामप्यर्थप्रधानानां ग्रहः ॥ याचक्रीतिक इति । यवै. क्रीतं ययाः क्रीता अस्मिन्निति वा पीतनामाख्यानम् । यवान् क्रीणातीति यवक्रीस्तमधिकृत्य कृतमाख्यानम् ' अमोधिकृत्य-' इत्यणि यावह ततस्तद्वेत्यधीते बेतीकणि यावक्रिकः ॥ - अकल्पात्सूत्रात् ॥ सौत्र इति । अकल्पादिति पर्युदासेन पूर्वपदाभावे न भवति ॥ याज्ञिकौक्थिक-- ॥ परेणेति । अव्यय पराणीत्यर्थ ॥