________________
ANAMINAwwara
प्रिय दाक्षि ऊर्णनाभ उर्णनाभि आर्जुनायन विराट मालव त्रिगर्त । इति राजन्यादिः । वहुवचनमाकृतिगणार्थम् ॥ ६६ ॥ वसातेर्वा ॥६॥२१६७॥ वशतिशदादाष्टे वाच्येऽकञ् प्रत्ययो वा भवति । वसातीनां राष्टं वासातकं वासातम् ॥ ६७॥ भौरिक्येपुकार्यादेर्विधभक्तम् ॥ ६ ॥ २१६८॥ भौरिकि इत्येवमादिभ्य ऐषुकारि इत्येवमादिभ्यश्च राष्ट्रे वाच्ये यथासख्यं विध भक्त इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । भौरिकीणां राष्ट्र भौरिकिविधम् । भौलिकिविधम् । स्वभावान्नपुंसकता। ऐपुकारीणां राष्टमैषुकारिभक्तम् । सारसायनभक्तम् । भौरिकि भौलिकि चौपयत चौदयत चैटयत चैकयत सैकयत क्षेतयत काणेय वालिकाय वाणिजक। इति भौरिक्यादिः । ऐपुकारि सारसायन चान्द्रायण ताायण याक्षायण व्याक्षायण यक्षायण व्यक्षायण औलायन सौवीर दासमिति दासमित्रायण शौद्रकायण शयण्ड शाण्ड शायाण्ड शायण्डायन सादायन गौ (मा)लुकायन विश्व वैश्वधेनव वैश्वमाणव वैश्वदेव तुण्ड देव तुण्डदेव शायाण्डी गायण्डी
वायौविद । इत्यैषुकार्यादिः॥ ६८ ॥ निवासादूरभवे इति देशे नानि ॥६।२।६९ ॥ षष्ठ्यन्तानाम्नो निवास अद्भव इत्येतयोरथयोय1 थाविहितं प्रत्ययो भवति देशे नाम्नि प्रत्ययान्तं चेदेशस्य नामधेयं भवति । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नानि विज्ञेयम् न संगीते। निवसन्त्यस्मिन्
इति निवासः। तत्र, ऋजुनाव ऋजुनावानां वा निवास आर्जुनावः। शिवीनां शैवः। उपुष्टस्य औपुष्टः । शकलायाः शाकलः। अदुरभवे, विदिशाया अदूरभवं वैदिर्श नगरम् । वैदिशो जनपदः । वरणास्योः वारणसी । ब्रीहिमसा वैहिमतम् । यवमत्या यावमतम् । इह केचिदङ्गानां निवासः अङ्गाः वङ्गाः। कलिझामुमाः। मगधा|पुण्ड्राः। कुरवः । पञ्चालाः । मत्स्याः । वरणानामदूरभवं वरणा नगरम् । शृङ्गशाल्मलीनां शृङ्गशाल्मलयो ग्रामः । गोदयोईदयोर्गोदौ ग्रामः । आलन्यायनपणानापालन्यायनपर्णा ग्रामाः। शफण्ड्याः शफण्डी । जालपदाया जालपदा । मथुरायाः मथुरा । उज्जयन्या. उज्जयनी । गयानां गया । उरशायाः उरशा । तक्षशिलायाः तक्षशिला । कटुकवदर्याः कटुकवदरी । खलतिकस्य खलतिकं बनानीयादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते। सत्यां च लुपि प्रकृतिवल्लिाबचने च मन्यन्ते । तदयुक्तम् । अत्र हि प्रकृतिमात्रमेव देशनाम न प्रत्ययान्तम् प्रययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति । तस्य निवास इत्यादिविवक्षायां तु वाक्यमेव । प्रत्ययाभावाच लुवपि न वक्तव्या । अनावरणादीनां च क्षत्रियवक्षादिवजनपदनगरादौ स्वत एव वृत्तिने प्रत्यययोगात् लिङ्गसंख्योपादानं च स्वगतमेवेति ॥६॥ तत्रास्ति ॥ ६॥२॥ ७० ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्पथमान्तं तचेदस्तीति भवति देशे नाम्नि प्रत्ययान्तं चेद देशस्य नाम भवति । अत्रापीतिकरणो विवक्षार्थोऽनुवर्तत एव। तेन प्रसिद्ध नान्नि भूमादौ चार्थे भवति । अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन वाध्यते । 1-निवासा--इतिकरण इति । क्रियतेऽनेनार्थप्रतीतिरिति करण शब्दः ॥-ऋजुनाव इति । ऋग्यो नावो यस्य । एकत्ये तु । पुमनडुन्नौ- ' | इति_ कच् स्यात् ॥--ऋजुनावानामिति । जुम् आर्जवयुक्छ नुवन्ति । कर्मणोऽण् ॥--परणास्योरिति । परणा चासिव वरणासी । तयोरदूरभवा पषोदरादित्वादस्य दीर्णो णस्य तु इस्व.॥-प्रकृतिमात्रमेवेति। केवलैव प्रकृतिः प्रत्ययमन्तरेग देशनाम इत्पर्थः ॥- अहगवरणादीनां चेति । स्वमतमेव प्रयन्नाह ॥