________________
घृतं वा । नाम्नीत्येव । योगोदोहस्य विकार इदमुदश्चित यौगोदोहमियणेव भवति ॥ ५५ ॥ अपो यन् वा ॥६ । २ । ५६ ॥ अपशब्दादिकारे यञ् प्रत्ययो वा भवति । एकस्वरमयटोऽपवादः । अपां विकास प्यम् । अम्मयम् ॥ ५६ ॥ लुबहुलं पुष्पमूले ॥ ६ । २ । ५७ ॥ विकारावयवयोविहितस्य प्रत्ययस्य पुष्पे मुले वा विकारतयावयवतया वा विवक्षिते बहुलं लुप् भवति । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । भ्यूथिका। *नवमालिका । -मालती । एषु अणो मयटो वा लुपि 'यादेगौणस्याकिपस्तातलुक्यगोणीमूच्योः। (२-४-९४ ) इति स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययः। जातेजातिः । पाटल्याः पाटलाया वा पाटलं पाटला वा। यदाहुः-पुष्पे क्लीवेऽपि पाटला | पाटलीत्यपि । कुन्दम् । सिन्दुवारम् । | कदम्बम्। करवीरम् । अशोकम् । चम्पकम् । कर्णिकारम् । कोविदारम् । विदायाँ मुलं विदारी । अंशुमनी । बृहती । हरिद्रा । माधवी । मुस्ता । कचिन्न भवति । वरणस्य पुष्पाणि वारणानि । एरण्डस्य मूलानि ऐरण्डानि, विल्वस्य पैल्वानि । कचिद्विकल्पः । शिरीपस्य पुष्पाणि शिरीपाणि । शैरीपाणि । हीवेरस्य मूलानि हीराणि । हैराणि । कयित्पुष्पमूलाभ्यामन्यत्रापि भवति । आमलकस्य विकारो वृक्षः आमलकी । पदरी । बीहेर्विकारः स्तम्बः त्रीहिः ॥ ५७ ॥ *फले ॥६।२।५८ ॥ विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य लुप् भवति । आमलक्या विकारोऽवयवो वा फलमामलकम् । बदयों बदरम् । कुवल्याः कुनलम् । भल्लातक्याः भल्लातकम् । बीहिः । यवः । मुद्गः । माषः । गोधूमः । निष्पावः । तिलः । कुलत्थः । हरीतकी । पिप्पली । कोशातकी । श्वेतपाकी ।
र्जुनपाकी । कर्कटी । नखरजनी । शष्कण्ही । दण्डी । दोडी । दाडी। पथ्या । अम्लिका | चिश्चा । द्राक्षा। भुक्षा । ध्वाङ्क्षा |मृद्रीका। कणावला। एला। शाला | काला । गर्गरिका। कण्टकारिका । शेफालिका । ओषधिः । ककोरुः । हरीतक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव। तत्र पूर्वस्य स्त्रीमत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः । | यथप्यामलकादीनि प्रकृत्पन्तराणि सन्ति तथाप्यामलक्यादिभ्यःमत्ययश्रुतिनिवृत्त्यर्थ लुगवचनम् ॥ ५८ ॥ लक्षादेरण ॥६॥२ । ५९ ॥ प्लक्ष इत्येवमादिभ्यो विकारेऽवयवे वा फले विवक्षितेऽण् प्रत्ययो भवति । मयटोऽपवादः । विधानसामर्थ्याचास्य लुथ् न भवति । प्लक्षस्य विकारोऽवयवो वा फलं प्लाक्षम् । एवं नैयग्रोधम् । पक्ष न्यग्रोध अश्वत्थ इङ्गुदी वेणु वृहती सगु रु(स)कु कक्रतु । इति प्लक्षादिः ॥ ५९ ॥ जम्ब्वा वा ॥ ६॥२॥ ६०॥ जम्बूशब्दाद्विकारेऽवयवे वा फले विवक्षिते वाण प्रत्ययो भवति पक्षे यथाप्राप्तं प्रत्ययस्तस्य च लुप् । जम्बा विकारोऽवयवो वा फलं जाम्बयम् । पक्षे जम्बु जम्बूः । लुपि वीजपुंसकते ॥६०॥ ॥-लुम्बहुल-॥ मल्ल्यते मूईि 'पदिपीठी' इति के 'दृक्नु च-' इत्यऽके या मल्लिकायूयते 'पथय्य-' इति थे यूथी के यूथिकायूथो जालकमस्त्यस्या वानवा मालाऽस्यां नवमालिकामा लाति ' पृपिरजि-' इति किदते गौरादित्वाद् ड्या मालयत्यामोदैवी ' पुतपित्त-' इति मालती ॥-अणो मयटो वेति। मालत्या दुमयटोऽन्येभ्यस्तु 'प्राण्यौषधि-' इत्यणोऽभक्ष्याच्छादनविवक्षायां तु मयटो लुप् । पुनगौरादित्वात्ही ॥-पाटल्या इति । मतान्तरेण । नवा शोणादे । इति कीविकल्पात् । एके तु गौरादौ अन्ये तु अजादौ । पाटल्या हेमादिभ्योऽन् । पाटळायास्तु मयट् ॥- क्लीवेपीति । म केवल पुष्पे वर्तमान. स्त्रीलिङ्गः ॥-फले । बदरकुवळशब्दी ईमादौ दृष्टव्यौ अभक्ष्याच्छादनमयट्वाधनार्थम् ॥