________________
आसुरि पौष्करसादि आनुराःति आतुति नैमिश्रि नैमिलि नमिशि आशि वान्धकि यासि बाद्धकि आसिनासि आसिवद्धकि चौङि पौष्पि आहिंसि वैराक वैलकि | वैशीति वैहति वैकर्णि वार्कलि कारेणुपालि । इति तौल्बल्यादिः ॥ १४३ ॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुखासनवृहद्वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥ ६ ॥ १ ॥ श्रीविक्रमादित्यनरेश्वरस्य त्वया न किंचित् प्रकृतं नरेन्द्र || यशांस्यहार्षीः प्रथमं समंतात्क्षणाद्भाङ्क्षीरथ राजधानीम् ॥ १ ॥
॥ द्वितीयः पादः ॥
* रागादो रक्ते ॥। ६ । २ । १ ॥ शुक्लस्य वर्णान्तरापादनमिह रतेरर्थः । रज्यतेऽनेनेति रागः कुसुम्भादिः । रागविशेषवाचिनो नाम्नष्ट इति *तृतीयान्ताद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेन रक्तं वस्त्रं कौसुम्भम् । एवं काषायम् । कौङ्कुमम् । माञ्जिष्ठम् | हारिद्रम् । माहारजनम् । |वाधिकारात्पक्षे वाक्यं समासश्व भवति कुसुम्भेन रक्तम् कुसुम्भरक्तम् इत्यादि । रागादिति किम् । चैत्रेण रक्तम् पाणिना रक्तम्। रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते । तेनेह न भवति । कृष्णेन रक्तम् । लोहितन रक्तम् । पीतेन रक्तमिति । एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः । कथं कापायौ गर्दभस्य कण हारिद्र कुकुटस्य पादाविति । कापायाविव कापायौ हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन तद्गुणाध्यारोपाद्भविष्यति ॥ १ ॥ लाक्षारोचनादिकण् ॥ ६ ॥ २ । २ ॥ लाक्षारोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । लाक्षया रक्तं लाक्षिकम् । रोचनया रक्तम् रौचनिकम् ॥ २ ॥ + शकलकर्दमादा । ६ । २ । ३ ॥ शकल कर्दम इसेताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो वा भवति । असुरस्यापत्य बाह्लादि । पुष्करे सीदति बाह्लादि । अनुरहति शतरि बाह्लादित्वात् । आनूयते स्म आनुत । नियमेन मिश्रयति अचि निमिश्र । रस्प लत्वे निमिलः । नियमेन | मेशतीति निमिश. । अस्यति असतीति वा असः । ' दृकृनुसृ ' – इति बन्धकः । यस्यति यसः । बद्ध कायति वद्धकः । असि नासते असिनास. । असिना बद्धः असिबद्ध कायति असिवद्धकः । चकते अचिं पृषोदरादित्वात् चिकः । पुप्यति पुष्प । न विद्यते हिंसा यस्य न हिनस्तीति वा अहि. । वीरयते वीरकः । रस्य लत्वे वीलकः । विगतं शीत यस्य विशीत । विशेषेण | हन्यते स्म विहतः । विविधौ विशिष्टौ वा कर्णौ यस्य विकर्णः । वृकं लाति वृकला । बाह्लादित्वादिन् । करेणु पालयति करेणुपाल' । सर्वत्र ' अत इञ् - इति इञ् । इति तौल्वल्यादिगणः सपूर्णः ॥ इत्याचार्य० पष्ठस्याध्यायस्य प्रथमः पादः सपूर्ण ॥
"
11
"
॥
॥
रागा - - शुक्लस्य वर्णान्तरापादनमिति । उपलक्षयमिदमन्येपामपि वर्णानां वर्णान्तरापादनमिह रजेरर्थं ॥ - तृतीयान्तादिति । टइत्येकदेशेन समुदायोपलक्षणत्वात्तृतीया लभ्यते ॥ द्रव्यवृत्तय इति । द्रव्येषु कुसुम्भादिषु वृत्तिर्येषां द्रव्याश्रयी गुण इति कृत्वा ॥ न तु रागाख्या इति । रज्यते अनेनेति रागशब्दव्युत्पत्तेरघटनात् ॥ - शक - ॥ शकल रक्तचन्दनं