SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ धीरेमश० ॥ १९ ॥ 1 शफलेन रक्तम् शाकलिकम् । शाकलम् । कार्दभिकम् | कार्दमम् ॥ ३॥ नीलपीतादकम् ॥ ६ ॥ २४ ॥ नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अ क इत्येतौ प्रत्ययौ भवतः । नीलेन लिङ्गविशिष्टग्रहणात्रील्या वा रक्तं नीलम् । पीतेन रक्तं पीतकम् । केचित्तु पीतकशब्दादप्यप्रत्ययमिच्छन्ति । पीतकेन कुसुम्भप्रथमनिर्यासेन रक्तं पीतकम् । गुणवचनत्वात्केन च सिद्धे अणपवादार्थ वचनम् ॥ ४ ॥ उदितगुरोर्भायुक्तेदे ॥ ६ ॥ २ । ५ ॥ उदितो गुरुर्ब्रहस्पतिर्यस्मिन् मे नक्षत्रे तद्वाचिनस्तृतीयान्तात् युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्तोऽर्थोऽन्दः संवत्सरः स्यात् । पुष्येणोदितगुरुणा युक्तं वर्ष पौष वर्षम् । फल्गुनीभिरुदितगुरुभिर्युक्तः फाल्गुनः संवत्सरः । उदितगुरोरिति किम् । उदितशनैश्वरेण पुष्येण युक्तं वर्षमित्यत्र न भवति । भादिति किम् । उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम् । अब्द इति किम् । मासे दिवसे वा न भवति ॥ ५ ॥ * चन्द्रयुक्तात्काले लुत्वप्रयुक्ते ॥ ६ । २ । ६ ॥ चन्द्रेण युक्तं यमक्षयं तद्वाचिनस्तृतीयान्तायुक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्तोऽर्थः कालो भवति अप्रयुक्ते तु कालवाचके शब्दे लुव् भवति । पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः । एवं पौपी रात्रिः । पौषोऽहोरात्रः । पौपः कालः । माघमहः । माघी रात्रिः । माघोऽहोरात्रः । माघः कालः । चन्द्रयुक्तादिति किम् । शुक्रयुक्तेन पुष्येण युक्तः कालः । भादित्येव । चन्द्रयुक्तेन शुक्रेण युक्तः कालः । काल इति किम् । चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः । लुप् त्वप्रयुक्ते, "अद्य पुष्यः । अथ मघाः । दिवा कृत्तिकाः । रात्रौ फल्गुन्यः । पुष्ये पायसम श्रीयात् मघातु पललौदनम् । अप्रयुक्त इति किम् । पापमहः । पौषी रात्रः । पौषोऽहोरात्रः । पौषः कालः ॥ ६ ॥ न्द्वादीयः ॥ ६ । २ । ७ ॥ चन्द्रयुक्तं यत्र तद्द्वन्द्वात्तृतीयान्ताद्युक्ते कालेऽर्थे ईयः प्रत्ययो भवति । राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तमहः *राधानुराधीयमहः । अथ राधानुराधयम् । एवं तिष्यपुनर्वसवीया रात्रिः । अथ तिष्यपुनर्वसवीयम् ॥ ७ ॥ *श्रवणाश्वत्थान्नाम्न्यः । ६ । २ । ८ ॥ चन्द्रयुक्तनक्षत्रवाचिनः श्रवणशब्दादश्वत्थशब्दाच तृतीयान्ताद्युक्ते काले अकारः प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचित्कालविशेषस्य नाम भवति । श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः । श्रवणा पौर्णमासी । श्रवणो मुहूर्तः । अश्वत्थेन चन्द्रयुक्तेन युक्ता अश्वकर्तुरवर्णो या फईमस्तु मृद्धिकारविशेष स च पाण्डवमण्डले प्रसिद्ध इति विभान्त ॥ - नील - केचित्विति । ते हि नीलपीतकाद पीतारक इति द्वे सुने विरचयन्ति ॥ - अणपवादार्थमिति । अयमर्थं इदं सुग विनापि नीलपीतगुणयोगानी पीत च पीतात् तु स्वार्थिकेन कुत्सितार्थेन वा कपा पीतकमिति परस्यतीत्याशङ्का ॥ - चन्द्रयुक्तात्काले – ||-अहोरात्र इति । एकाद्वा समाहार इति पुंजीबश्व, कथ दीर्घव्यहोरागाणीति समादाराभावे निकायराना इति पुस्तयमेव प्राप्तम् सत्यम् । अहोरात्र च ३ इत्येकशेषे ॥ अद्य पुष्य इति । अग अथेत्यस्याधाररयमेव न सामानाधिकरण्यम् ॥ - फल्गुन्य इति फल्गुनीप्रोष्ठ इति यावद्भाव ॥ पुष्ये पायसमिति । पयसि सस्कृत 'सस्कृते भइये' अण् । पयसा सस्कृतमिति तु कृते 'संस्कृते इत्यनेनेकण् स्यात् ॥ - द्वद्वा ॥ राधानुराधीयमिति । राधागि चन्द्रयुक्ताभिर्युक्त काल पन्द्रयुक्त - इत्यण् । अप्रयुक्ते लुप् । ततो राधाच अनुराधा राधानुराधा ताभिः । एवं सर्व ॥ - श्रव ॥ - पौर्णमासीति । माति मिमीते या असित्यस् । एण साश्चन्द्रोऽस्यामस्ति पूर्णमासोऽणु । मास इमिति वा 'तस्मेदम् ' इत्यण् । पूर्णो मा मासोऽस्यां पूर्णमासा " ॥ १९ ॥ १० अ० ल०
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy