________________
श्री मरा० ॥ १३ ॥
हानां राष्ट्रस्य राजा वैदेहः । वैदेहौ । विदेहाः । बहुत्वे 'बहुष्वखियाम्' ( ६-१-१२४ ) इति लुप् | विदेहस्य राज्ञेोऽपत्यं वैदेहः । वैदेहौ । विदेहाः । एवम् *वाः । ऐ । इक्ष्वाकवः । पाञ्चालः । पाञ्चालौ । पञ्चालाः । राष्ट्रत्रियादिति किम् । पञ्चास्य ब्राह्मणस्य राजा पाञ्चालः । ' तस्येदम्' ( ६-३-१५९ ) इत्यण् । पञ्चास्य ब्राह्मणस्यापत्यं पाञ्चालि । सरूपादिति किम् । सुराष्ट्राणां राजा सौराष्ट्रकः । आदर्शस्य राष्ट्रस्य राजा आदर्शकः । दशरथस्य क्षत्रियस्यापत्यं दाशरथिः । त्रिपृष्टस्य त्रैदृष्टिः । द्विपदेशाः 'देरनणोऽवाच्यभर्गादे: ' ( ६-१-१२३ ) इत्यादयः ॥ ११४ ॥ गान्धारिसाल्वेयाभ्याम् || ६ | १ | ११५ ॥ गान्धारिसाल्वेयशब्दौ इज्ञेयणन्तौ सरूपौ राष्ट्रसत्रियवचनौ । ताभ्यां राष्ट्राद्राजनि क्षत्रियादपत्ये अन् प्रत्ययो भवति सच द्विसंज्ञः। दुलक्षणस्य त्र्यस्यापवादः । वचनभेदो यथासंख्यनिवृत्त्यर्थः । गान्धारीणां राजा गान्धारे राज्ञेोऽपत्यं च गान्धारः । गान्धारौ । गान्धारयः । बहुष्वजो लुप् । एवं साल्वेयः । साल्वेयौ । साल्वेयाः । एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायामब्राह्मणादिति लुप् न भवति विधानसामर्थ्यात् । अन्यथा ज्यविधावेवानयोः प्रतिषेधः क्रियेत । तथा पूर्वेणैत्राञ् सिध्यति ॥। ११५ ।। *पुरुमगधकलिङ्गशूर मसद्विस्वरादण् || ६ | १ | ११६ ॥ पुरुमगधकलिङ्गरमस इत्येतेभ्यो द्विस्वरेभ्यश्थ शब्देभ्यो राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यथ सरूपेभ्यो यथासंख्यं राजन्यपत्ये चार्थे द्रिरण भवति । अन्योऽपवादः । पुरोरपत्यं पौरवः । पौरवौ । पुरवः । मगधानां राजा मगधस्यापत्यं वा मागधः । मागधौ । मगधाः । एवं कालिङ्गः । कालिङ्गौ । कलिङ्गाः । शौरमसः । शौरमसौ । शूरमसाः । द्विखर, अङ्गानां राजा अङ्गस्यापत्यं वा आङ्गः । अङ्गाः । वाङ्गः । वङ्गाः । सौह्मः । सुह्माः । पौण्ड्रः । पुण्ड्राः । दारदः । दरदः । भार्गः । भर्गाः । साल्वः । साल्वाः । सर्वत्र बहुषु लुप् । पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम न तु राष्ट्रम् । तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु लुबर्थमिदमविधानम् । अनैव सिद्धेऽन्विधानं संघाद्यण्वाधनार्थम् । तेनाकञ् भवति । पौरवकम् । मागधकम् । कालिङ्गकम् । शौरमसकम् । आङ्गकम् । वाङ्गकम् । अनन्ताद्धि गोत्रात् 'अञ्यविनः' (६-३ - १७२ ) इत्यण् बाधकः स्यात् ॥ ११६॥ *साल्वांशप्रत्यग्रथकलकूटाश्मकादिञ् || ६ | १ | ११७ ॥ साल्वा नाम जनपदस्तदंशास्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथकलकूटाश्मक इत्येतेभ्यश्व राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च इन् प्रत्ययो भवति स च द्रिसंज्ञः । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः । उदुम्बराः । एवं तैलखलिः । तिलख
***********x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x****************
प०अ०ल०
- ऐश्वाक इति । 'सारवैश्वाक' - इति उठोप ॥ पञ्चालस्य ब्राह्मणस्य राजा पाञ्चाल इति । 'उत्सादे ' इत्यप्यम् न तत्रापि राष्ट्रस्वरूपग्रहणात् ॥ गान्धारि । — इज्ञेयणन्तौ सरुपाविति । गन्धमियत्ति अण् । तस्यापत्यमिम् । साल्वाया अपत्यम् । 'द्विस्वरादनया' । अपत्यप्रत्ययान्तावप्युपचाराद्वाष्ट्रे वर्तते ॥ - विधानसामर्थ्यादिति । नतु गान्धार इत्या बभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात् स्थिते तु गान्धार साल्वेय इत्यत्र तु कि फलम् । उच्यते । अत्रापि सचादिविवक्षायामण् उपि तु 'गोत्राददण्ड ' - इत्यकम् स्यात् । ननु दुख्नणत्र्यस्य वाधनेन विधानमिद चारतार्थमिति कुतो विधानसामर्थ्यादिस्युक्तमित्याह—अन्यथा ज्यविधाविति । अगान्धारिसाल्वेयदुनादि कुर्वित्कोशलाजादाज्ज्य इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रधत्रियादित्यनेनाञ् भविष्यतीत्यर्थं ॥ - पुरु - |- पौरवकमिति । पुरोरत्या अण् छप् । पुरुणा सघादि ‘गौत्राददण्ड ' - इत्यविषये न प्राग्जितीये ' - इति अणो छप् निवर्त्तते ॥ - साल्वां ॥ उदुम्बरा इति । उन्दन्ति आद्रभवन्ति ऋच्या ' तीवर इति । यद्वा उल्लङ्क्षिताम्बरा प्रासादै — पृषोदर ' - इत्यादिना निपात ॥ तिलखला इति । तिला एवं खळा यत्र प्रचुरत्वात् । तिठा खल्यन्ते यत्र ' गोचर ' - इति निपात तिलै खलन्ति चा
॥ १३ ॥