________________
१०८॥ द्विस्वरादणः॥६।१।१०९॥ द्विस्वरादणन्तादपत्ये आयनिञ् प्रत्ययो भवति । कर्तुरपत्यं कात्रः । तस्य *का याणिः । हत्तुः हात्रः । तस्य हायणिः। पौत्रः । पौत्रायणिः । औत्सर्गिकोऽण् । यास्कायनिः । शिवायण । द्विखरादिति किम् । औपगविः । अण इति किम् । दाक्षेः दाक्षायणः । प्लाक्षेः प्लाक्षायणः । वृद्धादेवायं विधिः । अदात्तूत्तरेण विकल्प एव । अङ्गानां राजा आङ्गः। तस्याङ्गिः आङ्गायनिर्वा ॥ १०९ ॥ अवृद्धाहोर्नवा ॥ ६ | १ । ११०॥ अटद्धवाचिनो दूसंज्ञकाउपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः। आम्रगुप्तिः। शालगुप्तायनिः। शालगुप्तिः । वायुस्थायनिः । वायुरथिः । पञ्चालानां राजा पानालस्तस्यापत्यं पाञ्चालायनिः । पाञ्चालिः । नापितस्यापत्यं नापितायनिः । नापित्यः । पक्षे नापितशब्दस्येज् नास्ति तद्राधनार्थ हि कुर्वादिपु तस्य पाठः । अद्भादिति किम् । दाक्षेः दाक्षागणः । ताः प्लाक्षायणः । दोरिति किम् । अकम्पनस्यापत्यमाकम्पनिः ॥ ११० ॥ पुत्रान्तात् ॥६।१ । १११ ॥ पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गागीपुत्रायणिः । गार्गीपुत्रिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः। पूर्वेणायनित्रि सिद्ध वचनमिदमुत्तरसूत्रमाप्तकागमाभावार्थम् । उत्तरेण च कागमोऽपि । | एवं च गार्गीपुत्रकायणिरिति तातीयीकमपि रूपं भवति ।। १११ ॥ *चमिवर्मिगारेटकार्कटयकाकलङ्कगवाकिनाच्च कश्चान्तोऽन्त्यस्वरात् ॥६।१ । ११२॥ चर्मिन् वर्मिन् गारेट कार्कव्य काक लड़ा वाकिन इत्येतेभ्यः पुत्रान्ताच दुसंज्ञकादपत्ये आयनिन् प्रत्ययो वा भवति तत्संनियोगे चैपामन्त्यस्वरात्परः ककारोऽन्तो भवति । चार्मिकायणिः । चार्मिणः । वार्मिकायणिः । वार्मिणः । 'संयोगादिनः' (७-५-५३) इति प्रतिषेधादणि अन्त्यस्वरादिलोपो न भवति । गारेटकायनिः । गारेटिः । कर्कटस्यापत्यं कार्कव्यः । तस्यापत्यं कार्कट्यकायनिः । कार्कट्यायनः । यदा त्वव्युत्पन्नः काव्यशब्दस्तदा पक्षे इव । कार्कटियः । काककायनिः। काकिः। लाडूकायनिः। लाड्रेयः । लशब्दं केचिदकारान्तमिच्छन्ति । तन्मते लाडुकायनिः । लाङ्किः । वाकिनकायनिः । वाकिनिः। पुत्रान्तादोः, गागीपुत्रकायणिः । गागीपुत्रिः। ककारस्यान्त्यस्वरात्परतो विधानं चमिवामिणोः *नकारस्य लोपार्थम् । यद्येवं *परादिरेव क्रियेत । ननम् । तथा सति प्रत्ययस्य व्यञ्जनादित्वात्पुंवद्भावो न सिध्येत् । चर्मिण्या अपत्यं चार्मिकायणिः । वर्मिण्या अपत्यं वार्मिकायाणः ॥ ११२ ॥ अदोरायनिः प्रायः ॥ ६।१।२१३ ॥ अदुसंज्ञकादपत्ये आयनिः प्रत्ययो वा भवति प्रायः । ग्लुचुकायनिः । ग्लौचुकिः । म्लुचुकायनिः । म्लौचुकिः । अहिचुम्बकायनिः। आहिचुम्बकिः । त्रिपृष्टायनिः। त्रैपृष्टिः। श्रीविजयायनिः । विजयिः । अदोरिति किम् । औपगविः । रामदत्तिः। रामदत्तायनिः पिता । रामदत्तायनिः पुत्रः । आयनिजन्तादणो लुप् । पायोग्रहणात्कचिन्न भवति । दाक्षिः । प्लाक्षिः ॥ ११३ ॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥६।१।११४॥ क्षत्रियवाचिसरूपाद्राष्ट्रवाचिनो राष्ट्रवाचिसरूपाच क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चान् प्रत्ययो भवति स च दिसंज्ञः । वेति निवृत्तम् । विदेद्विस्वरादणः ॥-कात्रायाणीति । नात्मणत्वात् अात्मणात्' इति न लुप् । एवमुत्तरेष्यपि ॥ चमिवर्मिगारे-11-अन्तग्रहणाभावे कस्य प्रत्ययत्वं स्यात् । ततध लादककायनिरित्या ज्यादति - इति इस्वत्वं स्यात् । अत एव च 'अनन्त पञ्चम्या प्रत्यय.' इत्यान्तपदणं सफलम् ॥-कारस्य लोपार्थमिति । अन्त्यस्वरादेलॉप इति पतध्येऽपि विशेषाभावानफारस्य लोपार्थमित्युक्तमिति धाकटः ॥
-परादिरेवेति । कथादिरित्यैव क्रियता कि कशान्तोऽन्त्यस्वरादिति गुरुणा सूत्रेण । ततश्र 'नाम सिव्यञ्जने' इति पदसंज्ञाया 'नानो नोनस ' इत्यनेनैव नटोपो भविष्यति ।-अदा--रामदत्तायनिः | पुत्र इति । वृदन रामदत्तस्यापत्यं 'अद्वादोर्नवा' इत्यायनिम् । ततो युवा उसोऽणो टुप् ॥-राष्ट्र--चेति निवृत्तमिति । अपत्येऽनुवर्तमाने राजनीत्यधिकार्यस्य भणनात् ॥